तर्कसंग्रह
१ निधाय हृदि
विश्वेशं विधाय
गुरुवन्दनम्।
बालानां सुखबोधाय
क्रियते तर्कसंग्रहः॥
२ द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः
सप्त पदार्थाः॥
३ तत्र द्रव्याणि
पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि
नवैव॥
४ रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्
चतुर्विंशति गुणाः॥
५ उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि
पञ्च कर्माणि॥
६ परम् अपरं
चेति द्विविधं
सामान्यम्॥
७ नित्यद्रव्यवृत्तयो
विशेषास् त्व्
अनन्ता एव॥
८ समवायस्
त्व् एक एव॥
९ अभावश् चतुर्विधः।
प्रागभावः प्रध्वंसाभावो
ऽत्यन्ताभावो
ऽन्योन्याभावश्
चेति॥
१० गन्धवती
पृथिवी। सा द्विविधा
नित्यानित्या
च। नित्या परमाणुरूपा।
अनित्या कार्यरूपा।
पुनस् त्रिविधा
शरीरेन्द्रियविषयभेदात्।
शरीरम् अस्मदादीनाम्।
इन्द्रियं गन्धग्राहकं
घ्राणं नासाग्रवर्ति।
विषयो मृत्पाषाणादिः॥
११ शितस्पर्शवत्य
आपः। ता द्विविधाः
नित्या अनित्याश्
च। नित्याः परमाणुरूपाः।
अनित्याः कार्यरूपाः.।
पुनस् त्रिविधाः.
शरीरेन्द्रियविषयभेदात्।
शरीरं वरुणलोके।
इन्द्रियं रसग्राहकं
रसनं जिह्वाग्रवर्ति।
विषयः सरित्समुद्रादिः॥
१२ उष्णस्पर्शवत्
तेजः। तद् द्विविधं
नित्यम् अनित्यं
च। नित्यं परमाणुरूपम्।
अनित्यं कार्यरूपम्।
पुनस् त्रिविधं
शरीरेन्द्रियविषयभेदात्।
शरीरम् आदित्यलोके।
इन्द्रियं रूपग्राहकं
चक्षुः कृष्णताराग्रवर्ति।
विषयश् चतुर्विधः।
भौमदिव्यौदर्याकरजभेदात्।
भौमं वह्न्यादिकम्।
अबिन्धनं दिव्यं
विद्युदादि। भुक्तस्य
परिणामहेतुर्
औदर्यम्. आकरजं
सुवर्णादि॥
१३ रूपरहितस्पर्शवान्
वायुः। स द्विविधो
नित्यो ऽनित्यश्
च। नित्यः परमाणुरूपः।
अनित्यः कार्यरूपः।
पुनस् त्रिविधः
शरीरेन्द्रियविषयभेदात्।
शरीरं वायुलोके।
इन्द्रियं स्पर्शग्राहकं
त्वक्सर्वशरीरवर्ति।
विषयो वृक्षादिकम्पनहेतुः॥शरीरान्तःसंचारी
वायुः प्राणः।
स चैको ऽप्य् उपाधिभेदात्
प्राणापानादिसंज्ञा
लभते॥
१४ शब्दगुणम्
आकाशम्। तच् चैकं
विभु नित्यं च॥
१५ अतीतादिव्यवहारहेतुः
कालः। स चैको विभुर्
नित्यश् च॥
१६ प्राच्यादिव्यवहारहेतुर्
दिक्। सा चैका
विभ्वी नित्या
च॥
१७ ज्ञानाधिकरणम्
आत्मा। स द्विविधः
परमात्मा जीवात्मा
च। तत्रेश्वरः
सर्वज्ञः परमात्मैक
एव। जीवात्मा प्रतिशरीरं
भिन्नो विभुर्
नित्यश् च॥
१८ सुखाद्युपलब्धिसाधनम्
इन्द्रियं मनः।
तच् च प्रत्यात्मनियतत्वाद्
अनन्तं परमाणुरूपं
नित्यं च॥
१९ चक्षुर्मात्रग्राह्यो
गुणो रूपम्। तच्
च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्
सप्तविधं पृथिवीजलतेजोवृत्ति।
तत्र पृथिव्यां
सप्तविधम्। अभास्वरशुक्लं
जले। भास्वरशुक्लं
तेजसि॥
२० रसनग्राह्यो
गुणो रसः। स च मधुराम्ललवणकटुकषायतिक्तभेदात्
षड्विधः। पृथिव्यां
षड्विधः। जले मधुर
एव॥
२१ घ्राणग्राह्यो
गुणो गन्धः। स
च द्विविधः सुरभिरसुरभिश्
च। पृथिवीमात्रवृत्तिः।
२२ त्वगिन्द्रियमात्रग्राह्यो
गुणो सपर्शः। स
च त्रिविधः शितोष्णानुष्णाशीतभेदात्।
पृथिव्यप्तेजोवायुवृत्तिः।
तत्र शीतो जले।
उष्णस् तेजसि।
अनुष्णाशीतः पृथिवीवाय्वोः॥
२३ रूपादिचतुष्टयं
पृथिव्यां पाकजम्
अनित्यं च। अन्यत्रापाकजं
नित्यम् अन्त्यं
च। नित्यगतं नित्यम्।
अनित्यगतम् अनित्यम्॥
२४ एकत्वादिव्यवहारहेतुः
संख्या। नवद्रव्यवृत्तिर्
एकत्वादिपरार्धपर्यन्ता।
एकत्वं नित्यम्
अनित्यं च। नित्यगतं
नित्यम् अनित्यगतम्
अनित्यम्। द्वित्वादिकं
तु सर्वत्रानित्यम्
एव॥
२५ मानव्यवहारकारणं
परिमाणं। नवद्रव्यवृत्ति।
तच् चतुर्विधम्।
अणु महद् दीर्घं
ह्रस्वं चेति॥
२६ पृथग्व्यवहारकारणं
पृथग्त्वं। सर्वद्रव्यवृत्ति॥
२७ संयुक्तव्यवहारहेतुः
संयोगः। सर्वद्रव्यवृत्तिः॥
२८ संयोगनाशको
गुणो विभागः। सर्वद्रव्यवृत्तिः॥
२९ परापरव्यवहारासाधारणकारणे
परत्वापरत्वे।
पृथिव्यादिचतुष्टयमनोवृत्तीति।
ते द्विविधे दिक्कृते
कालकृते च। दूरस्थे
दिक्कृतं परत्वम्।
समीपस्थे दिक्कृतम्
अपरत्वम्। ज्येष्ठे
कालकृथं परत्वम्।
कनिष्ठे कालकृतम्
अपरत्वम्॥
३० आद्यपतनासमवायिकारणं
गुरुत्वं। पृथिवीजलवृत्ति॥
३१ आद्यस्यन्दनासमवायिकारणं
द्रवत्वं पृथिव्यप्तेजोवृत्ति।
तद् द्विविधं सांसिद्धिकं
नैमित्तिकं च।
सांसिद्धिकं जले
नैमित्तिकं पृथिवीतेजसोः।
पृथिव्यां घृतादावग्निसंयोगजन्यं
दरवत्वम्। तेजसि
सुवर्णादौ॥
३२ चूर्णादिपिण्डीभावहेतुर्
गुणः स्नेहः। जलमात्रवृत्तिः॥
३३ श्रोत्रग्राह्यो
गुणः शब्दः। आकाशमात्रवृत्तिः।
स द्विविधो द्वन्यात्मको
वर्णात्मकश् चेति।
द्वन्यात्मको
भेर्यादौ। वर्णात्मकः
संस्कृतभाषादिरूपः॥
३४ सर्वव्यवहारहेतुर्
बुद्धिर् ज्ञानम्।
सा द्विविधा स्मृतिरनुभवश्
च। संस्कारमात्रजन्यं
ज्ञानं स्मृतिः।
तद्भिन्नं ज्ञानम्
अनुभवः॥
३५ स द्विविधो
यथार्थो ऽयथार्थश्
च। तद्वति तत्प्रकारको
ऽनुभवो यथार्थः।
यथा रजत इदं रजतम्
इति ज्ञानम्। स
एव प्रमेत्य् उच्यते।
तदभाववति तत्प्रकारको
ऽनुभवो ऽयथार्थः।
यथा शुक्ताव् इदं
रजतम् इति ज्ञानम्॥
३६ यथार्थानुभवश्
चतुर्विधः प्रत्यक्षानुमित्युपमितिशब्दभेदात्।
तत्करणम् अपि चतुर्विधं
प्रत्यक्षानुमानोपमानशब्दभेदात्॥
३७ असाधारणम्
कारणं करणम्।
३८ कार्यनियतपूर्ववृत्ति
कारणम्।
३९ कार्यं
प्रागभावप्रतियोगि।
४० कारणं त्रिविधं
समवाय्यसमवायिनिमित्तभेदात्।
यत् समवेतं कार्यम्
उत्पद्यते तत्
समवायिकारणम्।
यथा तन्तवः पटस्य
पटश् च खगतरूपादेः।
कार्येण कारणेन
वा सहैकस्मिन्न्
अर्थे समवेतत्वे
सति यत् कारणं
तद् असमवायिकारणम्।
यथा तन्तुसंयोगः
पटस्य तन्तुरूपं
पटरूपस्य। तदुभयभिन्नं
कारणं निमित्तकारणम्।
यथा तुरीवेमादिकं
पटस्य।
४१ तद् एतत्त्रिविधकारणमध्ये
यद् असाधारणं कारणं
तद् एव करणम्॥
४२ तत्र प्रत्यक्षज्ञानकरणं
प्रत्यक्षम्।
इन्द्रियार्थसन्निकर्षजन्यं
ज्ञानं प्रत्यक्षम्।तद्
द्विविधं निर्विकल्पकं
सविकल्पकं चेति।
तत्र निर्विकल्पकं
ज्ञानं निर्विकल्पकं
यथेदं किंचित्।
सपरकारकं ज्ञानं
सविकल्पकं यथा
डित्थोऽयम् ब्रह्मणोऽयं
श्यामोऽयम् इति॥
४३ प्रत्यक्षज्ञानहेतुर्
इन्द्रियार्थसन्निकर्षः
षड्विधः। संयोगः
संयुक्तसमवायः
संयुक्तसमवेतसमवायः
समवायः समवेतसमवायो
विशेषणविशेष्यभावश्
चेति। चक्षुषा
घटप्रत्यक्षजनने
संयोगः सन्निकर्षः।
घटरूपप्रत्यक्षजनने
संयुक्तसमवायः
सन्निकर्षः चक्षुःसंयुक्ते
घटे रूपस्य समवायात्।
रूपत्वसामान्यप्रत्यक्षे
संयुक्तसमवेतसमवायः
सन्निकर्षः चक्षुःसंयुक्ते
घटे रूपं समवेतं
तत्र रूपत्वस्य
समवायात्। श्रोत्रेण
शब्दस्याकाशगुणत्वात्
गुणगुणिनोश् च
समवायात्। शब्दत्वसाक्षात्कारे
समवेतसमवायः सन्निकर्षः
श्रोत्रसमवेते
शब्दे शब्दत्वस्य
समवायात्। अभावपरत्यक्षे
विशेषणविशेष्यभावः
सन्निकर्षो घटाभाववद्
भृतलम् इत्य् अत्र
चक्षुःसंयुक्ते
भूतले घटाभावस्य
विशेषणत्वात्।
एवं स्न्निकर्षषट्कजन्यं
ज्ञानं प्रत्यक्षम्।
तत्करणम् इन्द्रियम्।
तस्माद् इन्द्रियं
प्रत्यक्षप्रमाणम्
इति सिद्धम्॥
४४ अनुमितिकरणम्
अनुमानम्। परामर्शजन्यं
ज्ञानम् अनुमितिः।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं
परामर्शः। यथा
वह्निव्याप्यधूमवान्
अयं पर्वत इति
ज्ञानं परामर्शः।
तज् जन्यं पर्वतो
वह्निमान् इति
ज्ञानम् अनुमितिः।
यत्र यत्र धूमस्
तत्राग्निर् इति
साहचर्यनियमो
व्याप्तिः। व्याप्यस्य
पर्वतादिवृत्तित्वं
पक्षधर्मता॥
४५ अनुमानं
द्विविधं स्वार्थं
परार्थं च। तत्र
स्वार्थं स्वानुमितिहेतुः।
तथा हि स्वयम्
एव भूयो दर्शनेन
यत्र धूमस् तत्र
अग्निर् इति महानसादौ
व्याप्तिं गृहीत्वा
पर्वतसमीपं गतस्
तद्गते चाग्नौ
सन्दिहानः पर्वते
धूमं पश्यन् व्याप्तिं
स्मरति यत्र धूमस्
तत्राग्निर् इति।
तदन्तरं वह्निव्याप्यधूमवान्
अयं पर्वत इति
ज्ञानम् उत्पद्यते।
अयम् एव लिङ्गपरामर्षं
इत्य् उच्यते।
तस्मात् पर्वतो
वह्निमान् इति
ज्ञानम् अनुमितिर्
उत्पद्यते। तद्
एतत् स्वार्थानुमानम्।
यत् तु स्वयं धूमाद्
अग्निम् अनुमाय
परप्रतिपत्त्यर्थं
पञ्चावयववाक्यं
प्रयुक्ते तत्
परार्थानुमानम्।
यथा पर्वतो वह्निमान्
धूमवत्त्वात्।
यो यो धूमवान्
स वह्निमान् यथा
महानसः। तथा चायम्।
तस्मात् तथेति।
अनेन प्रतिपादिताल्
लिन्गात् परोऽप्य्
अग्निं प्रतिपद्यते॥
४६ प्रतिज्ञाहेतूदाहरणोपनयनिगमानि
पञ्चावयवः। पर्वतो
वह्निमान् इति
प्रतिज्ञा। धूमवत्त्वाद्
इति हेतुः। यो
यो धूमवान् स सोऽग्निमान्
यथा महानस इत्य्
उदाहरणम्। तथा
चायम् इति उपनयः।
तस्मात् तथेति
निगमनम्॥
४७ स्वार्थानुमितिपरार्थानुमित्योर्
लिङ्गपरामर्श
एव करणम्। तस्माल्
लिङ्गपरामर्शाऽनुमानम्॥
४८ लिङ्गं
त्रिविधम्। अन्वयव्यतिरेकि
केवलान्वयि केवलव्यतिरेकि
चेति। अन्वयेन
व्यतिरेकेण च व्याप्तिमद्
अन्वयव्यतिरेकि।
यथा वह्नौ साध्ये
धूमवत्त्वम्।
यत्र धूमस् तत्राग्निर्
यथा महानस इत्य्
अन्वयव्याप्तिः।
यत्र वह्निर् नास्ति
तत्र धूमोऽपि नास्ति
यथा महाह्रद इति
व्यतिरेकव्याप्तिः।
अन्वयमात्रव्याप्तिकं
केवलान्वयि यथा
घटोऽभिधेयः प्रमेयत्वात्
पटवत्। अत्र प्रमेयत्वाभिध्यत्वयोर्
व्यतिरेकव्याप्तिर्
नास्ति सर्वस्यापि
प्रमेयत्वाद्
अभिधेयत्वाच्
च। व्यतिरेकमात्रव्याप्तिकं
केवलव्यतिरेकि
यथा पृथिवी तरेभ्यो
भिद्यते गन्धवत्त्वात्।
यद् इतरेभ्यो न
भिद्यते न तद्
गन्धवत्। यथा जलम्।
न चेयं तथा। तस्मान्
न तथेति अत्र यद्
गन्धवत् तद् इतरभिन्नम्
इत्य् अन्वयदृष्टन्तो
नास्ति पृथिवीमात्रस्य
पक्षत्वात्॥
४९ संदिग्धसाध्यवान्
पक्षः। यथा धूमवत्त्वे
हेतौ पर्वतः॥
५० निश्चितसाध्यवान्
सपक्षः। यथा तत्रैव
महानसः॥
५१ निश्चितसाध्याभाववान्
विपक्षः। यथा तत्रैव
महाह्रदः॥
५२ सव्यभिचारविरुद्धसत्पक्षासिद्धबाधिताः
पञ्च हेत्वाभासाः॥
५३ सव्यभिचारोऽनैकान्तिकः।
स त्रिविधः। साधारणासाधारणानुपसंहारिभेदात्।
तत्र साध्याभाववद्वृत्तिः
साधारणो अनैकान्तिकः।
यथा पर्वतो वह्निमान्
प्रमेयत्वाद्
इति प्रमेयत्वस्य
वह्न्यभाववति
ह्रदे विद्यमानत्वात्।
सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः।
यथा शब्दो नित्यः
शब्दत्वाद् इति।
शब्दत्वं सर्वेभ्यो
नित्येभ्योऽन्त्येभ्यश्
च व्यावृत्तं शब्दमात्रवृत्ति।
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी।
यथा सर्वम् अनित्यं
प्रमेयत्वाद्
इति। अत्र सर्वस्यापि
पक्षत्वाद् दृष्टान्तो
नास्ति॥
५४ साध्याभावव्याप्तो
हेतुर् विरुद्धः।
यत्र शब्दो नित्यः
कृतकत्वाद् इति।
कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन
व्याप्तम्॥
५५ यस्य साध्यभावसाधकं
हेत्वन्तरं विद्यते
स सत्प्रतिपक्षः।
यथा शब्दो नित्यः
श्रावणत्वाच्
छब्दत्ववद् इति।
शब्दोऽनित्यः
कार्यत्वाद् घटवद्
इति॥
५६ असिद्धस्
त्रिविधः। आश्रयासिद्धः
स्वरूपासिद्धो
व्याप्यत्वासिद्धश्
चेति। आश्रयासिद्धो
यथा गगनारविन्दं
सुरभ्य् अरविन्दत्वात्
सरोजारविन्दवत्।
अत्र गगनारविन्दम्
आश्रयः। स च नास्त्य्
एव। स्वरूपासिद्धो
यथा शब्दो गुणश्
चाक्षुषत्वात्।
अत्र चाक्षुषत्वं
शब्दे नास्ति शब्दस्य
श्रावणत्वात्।
सोपाधिको व्याप्यत्वासिद्धः।
साध्यव्यापकत्वे
सति साधनाव्यापक
उपाधिः। साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं
साध्यव्यापकत्वम्।
साधनवन्न् इष्टात्यन्ताभावप्रतियोगित्वं
साधारणाव्यपकत्वम्।
पर्वतो धूमवान्
वह्निमत्त्वाद्
इत्य् अत्रार्द्रेन्धसंयोग
उपाधिः। तथा हि।
यत्र धूमस् तत्रार्द्रेन्ध्नसंयोग
इति साध्यव्यापकता।
यत्र वह्निस् तत्रार्द्रेन्धनसंयोगाभावाद्
इति साधनाव्यापकता।
एवं साध्यव्यापकत्वे
सति साधनाव्यापकत्वाद्
अर्द्रेन्धनसंयोग
उपाधिः। सोपाधिकत्वाद्
वह्निमत्त्वं
व्याप्यत्वासिद्धम्॥
५७ यस्य साध्याभावः
प्रमाणान्तरेण
निश्चितः स बाधितः।
यथा वह्निर् अनुष्णो
द्रव्यत्वाद्
इति। अत्रानुष्णत्वं
साध्यं तदभाव उष्णत्वं
स्पार्शनप्रत्यक्षेण
गृह्यत इति बाधितत्वम्॥
५८ उपमितिकरणम्
उपमानम्। संज्ञासंज्ञिसंबन्धज्ञानम्
उपमितिः। तत्करणं
सादृश्यज्ञानम्।
अतिदेशवाक्यार्थस्मरणम्
अवान्तरव्यापारः।
तथा हि कश् चिद्
गवयशब्दार्थम्
अजानन् कुतश् चिद्
आरण्यकपुरुषाद्
गोसदृशो गवय इति
श्रुत्वा वनं गतो
वाक्यार्थं स्मरन्
गोसदृषं पिण्डं
पश्यति। तदनन्तरम्
असौ गवयशब्दवाच्य
इत्य् उपमितिर्
उत्पद्य्ते॥
५९ आप्तवाक्यं
शब्दः। आप्तस्
तु यथार्थवक्ता।
वाक्यं पदसमूहः।
यथा गाम् आनयेति।
शक्तं पदम्। अस्मात्
पदाद् अयम् अर्थो
बोद्धव्य इतीश्वरसंकेतः
शक्तिः॥
६० आकाङ्क्षा
योग्यता संनिधिश्
च वाक्यार्थज्ञानहेतुः।
पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम्
आकाङ्क्षा। अर्थाबाधो
योग्यता। पदानामविलम्बेनोच्चारणं
संनिधिः॥
६१ आकाङ्क्षादिरहितं
वाक्यम् अप्रमाणम्।
यथा गौर् अश्वः
पुरुषो हस्तीति
न प्रमाणम् आकाङ्क्षाविरहात्।
अग्निना सिञ्चेद्
इति न प्रमाणं
योग्यताविरहात्।
प्रहरे प्रेहरेऽसहोच्चारितानि
गाम् आनयेत्यादिपदानि
न प्रमाणं संनिध्यभावात्॥
६२ वाक्यं
द्विविधम्। वैदिकं
लौकिकं च। वैदिकम्
ईश्वरोक्तत्वात्
सर्वम् एव प्रमाणम्।
लौकिकं त्व् आप्तोक्तं
प्रमाणम्। अन्यद्
अप्रमाणम्॥
६३ वाक्यार्थज्ञानं
शब्दज्ञानम्।
तत्करणं शब्दः॥
६४ अयथार्थानुभवस्
त्रिविधः संशयविपर्ययतर्कभेदात्।
एकस्मिन् धर्मिनि
विरुद्धनानाधर्मवैशिष्ट्यावगाहि
ज्ञानं संशयः।
यथा स्थाणुर् वा
पुर्षो वेति। मिथ्याज्ञानं
विपर्ययः। यथा
शुक्ताव् इदं रजतम्
इति। व्याप्यारोपेण
व्यापकारोपस्
तर्कः यथा यदि
वह्निर् न स्यात्
तर्हि धूमोऽपि
न स्याद् इति॥
६५ स्मृतिर्
अपि द्विविधा।
यथार्थायथार्था
च प्रमाजन्या यथार्था।
अप्रमाजन्यायथार्था॥
६६ सर्वेशाम्
अनुकूलतया वेदनीयं
सुखम्॥
६७ सर्वेशां
प्रतिकूलतया वेदनीयं
दुःखम्॥
६८ इच्छा कामः॥
६९ क्रोधो
द्वेषः॥
७० कृतिः प्रयत्नः॥
७१ विहितकर्मजन्यो
धर्मः॥
७२ निषिद्धकर्मजन्यस्
त्व् अधर्मः॥
७३ बुद्ध्यादयोऽष्टाव्
आत्ममात्रविशेषगुणाः॥
७४ बुद्धीच्छाप्रयत्ना
द्विविधाः। नित्या
अनित्याश् च। नित्या
ईश्वरस्य। अनित्या
जीवस्य॥
७५ संस्कारस्
त्रिविधः। वेगो
भावना स्थितिस्थापकश्
चेति। वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः।
अनुभवजन्या स्मृतिहेतुर्
भावनात्ममात्रवृत्तिः।
अन्यथा कृतस्य
पुनस् तदवस्थापादकः
स्थितिस्थापकः
कटादिपृथिवीवृत्तिः॥
७६ चलनात्मकं
कर्म। ऊर्ध्वदेशसंयोगहेतुर्
उत्क्षेपणम्।
अधोदेशसंयोगहेतुर्
अपक्षेपणम्। शरीरसंनिकृष्टसंयोगहेतुर्
आकुञ्चनम्। विप्रकृष्टसंयोगहेतुः
प्रसारणम्। अन्यत्
सर्वं गमनम्। पृथिव्यादिचतुष्टयमनोमात्रवृत्ति॥
७७ नित्यम्
एकम् अनेकानुगतं
सामान्यम्। द्रव्यगुणकर्मवृत्ति।
तद् द्विविधं परापरभेदात्।
परं सत्ता। अपरं
द्रव्यत्वादिः॥
७८ नित्यद्रव्यवृत्तयो
व्यावर्तका विशेषाः॥
७९ नित्यसंबन्धः
समवायः। अयुतसिद्धवृत्तिः।
ययोर् द्वयोर्
मध्य एकम् अविनश्यदपराश्रितम्
एवावतिष्टते ताव्
अयुतसिद्दौ। यथावयवावयविनौ
गुणगुणिनौ क्रियाक्रियावन्तौ
जातिव्यक्ती विशेषनित्यद्रव्ये
चेति॥
८० अनादिः
सान्तः प्रागभावः।
उत्पत्तेः पूर्वं
कार्यस्य। सादिर्
अनन्तः प्रध्वंसः।
उत्पत्त्यनन्तरं
कार्यस्य। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः।
यथा भूतले घटो
नास्तीति। तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः
यथा घटः पटो न भवतीति॥
८१ सर्वेषां
पदार्थानां यथायथम्
उक्तेष्व् अन्तर्भावात्
सप्तैव पदार्था
इति सिद्धम्॥
काणादन्यायमतयोर्
बालाव्युत्पत्तिसिद्धये।
अन्नंभट्टेन
विदुषा रचितस्
तर्कसंग्रहः॥