न्यायसूत्र
(अथ प्रथमः अध्यायः)

॥अनुबन्धचतुष्टयप्रकरणम्॥
१.१.१ \ प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-
वितण्डाहेत्वाभास-च्छल-जाति-निग्रहस्थानानाम्तत्त्वज्ञानात् निःश्रेयसाधिगमः
{पदार्थोद्देशसूत्रम्}
१.१.२ \ दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा पायात् अपवर्गः
{पदार्थोद्देशसूत्रम्}

॥प्रमाणप्रकरणम्॥
१.१.३ \ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि
{प्रमाण-उद्देश-सूत्रम्}
१.१.४ \ इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम्
{प्रत्यक्षलक्षणम्}
१.१.५ \ अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च
{अनुमानलक्षणम्}
१.१.६ \ प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम्
{उपमानलक्षणम्}
१.१.७ \ आप्तोपदेशः शब्दः
{शब्दलक्षणम्}
१.१.८ \ सः द्विविधः दृष्टादृष्टार्थत्वात्
{शब्दभेदः}

॥प्रमेयप्रकरणम्॥
१.१.९ \ आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्
{प्रमेय-उद्देश-सूत्रम्}
१.१.१० \ इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति
{आत्मलक्षणम्}
१.१.११ \ चेष्टेन्द्रियार्थाश्रयः शरीरम्
{शरीरलक्षणम्}
१.१.१२ \ घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः
{इन्द्रियलक्षणम्}
१.१.१३ \ पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि 
{भूतलक्षणम्}
१.१.१४ \ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः
{अर्थ(विषय)लक्षणम्}
१.१.१५ \ बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम्
{बुद्धिलक्षणम्}
१.१.१६ \ युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम्
{मनोलक्षणम्}
१.१.१७ \ प्रवृत्तिः वाग्बुद्धिशरीरारम्भः
{प्रवृत्तिलक्षणम्}
१.१.१८ \ प्रवर्त्तनालक्षणाः दोषाः
{दोषलक्षणम्}
१.१.१९ \ पुनरुत्पत्तिः प्रेत्यभावः
{प्रेत्यभावलक्षणम्}
१.१.२० \ प्रवृत्तिदोषजनितः अर्थः फलम्
{फललक्षणम्}
१.१.२१ \ बाधनालक्षणम् दुःखम्
{दुःखलक्षणम्}
१.१.२२ \ तदत्यन्तविमोक्षः अपवर्गः
{अपवर्गलक्षणम्}

॥न्यायपूर्वाङ्गलक्षणप्रकरणम्॥
१.१.२३ \ समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः
{संशयलक्षणम्}
१.१.२४ \ यम् अर्थम् अधिकृत्य प्रवर्तते तत् प्रयोजनम्
{प्रयोजनलक्षणम्}
१.१.२५ \ लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः
{दृष्टान्तलक्षणम्}

॥न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्॥
१.१.२६ \ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः
{अभ्युपगमसिद्धान्तलक्षणम्}
१.१.२७ \ सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्
{तन्त्रभेद-उद्देशसूत्रम्}
१.१.२८ \ सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः
{सर्वतन्त्रसिद्धान्त-लक्षणम्}
१.१.२९ \ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः
{प्रतितन्त्रसिद्धान्त-लक्षणम्}
१.१.३० \ यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः
{अधिकरणसिद्धान्त-लक्षणम्}
१.१.३१ \ अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः
{अभ्युपगमसिद्धान्त-लक्षणम्}

॥न्यायप्रकरणम्॥
१.१.३२ \ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः
{अवयव-उद्देशसूत्रम्}
१.१.३३ \ साध्यनिर्देशः प्रतिज्ञा
{प्रतिज्ञा-लक्षणम्}
१.१.३४ \ उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः
{हेतु-लक्षणम्}
१.१.३५ \ तथा वैधर्म्यात्
{हेतु-लक्षणम्}
१.१.३६ \ साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम्
{उदाहरण-लक्षणम्}
१.१.३७ \ तद्विपर्ययात् वा विपरीतम्
{उदाहरण-लक्षणम्}
१.१.३८ \ उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः
{उपनय-लक्षणम्}
१.१.३९ \ हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम् निगमनम्
{निगमन-लक्षणम्}

॥न्यायोत्तराङ्गप्रकरणम्॥
१.१.४० \ अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः
{तर्क-लक्षणम्}
१.१.४१ \ विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः
{निर्णय-लक्षणम्}
(इति न्यायसूत्रे प्रथमाध्यायस्य प्रथमम् आह्निकम्)

(अथ द्वितीयम् आह्निकम्)
॥कथालक्षणप्रकरणम्॥
१.२.१ \ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः
{वाद-लक्षणम्}
१.२.२ \ यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः
{जल्प-लक्षणम्}
१.२.३ \ सः प्रतिपक्षस्थापनाहीनः वितण्डा
{वितण्डा-लक्षणम्}

॥हेत्वाभासप्रकरणम्॥
१.२.४ \ सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः
{हेत्वाभास-उद्देश-सूत्रम्}
१.२.५ \ अनैकान्तिकः सव्यभिचारः
{सव्यभिचार-लक्षणम्}
१.२.६ \ सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः
{विरुद्ध-लक्षणम्}
१.२.७ \ यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः
{प्रकरणसम-लक्षणम्}
१.२.८ \ साध्याविशिष्टः साध्यत्वात् साध्यसमः
{साध्यसम-लक्षणम्}
१.२.९ \ कालात्ययापदिष्टः कालातीतः
{कालातीत-लक्षणम्}

॥छलप्रकरणम्॥
१.२.१० \ वचनविघातः अर्थविकल्पोपपत्त्या छलम्
{छल-लक्षणम्}
१.२.११ \ तत् त्रिविधम् - वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति
{छल-भेद-उद्देश-सूत्रम्}
१.२.१२ \ अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् अर्थान्तरकल्पना वाक्छलम्
{वाक्छल-लक्षणम्}
१.२.१३ \ सम्भवतः अर्थस्य अतिसामान्ययोगात् असम्भूतार्थकल्पना सामान्यच्छलम्
{सामान्यच्छल-लक्षणम्}
१.२.१४ \ धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम्
{उपचारच्छल-लक्षणम्}
१.२.१५ \ वाक्छलम् एव उपचारच्छलम् तत् अविशेषात्
{उपचारच्छल-पूर्वपक्ष-लक्षणम्}
१.२.१६ \ न तत् अर्थान्तरभावात्
{उपचारच्छल-लक्षणम्}
१.२.१७ \ अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः
{उपचारच्छल-लक्षणम्}

॥लिङ्गदोषसामान्यप्रकरणम्॥
१.२.१८ \ साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः
{जाति-लक्षणम्}
१.२.१९ \ विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्
{निग्रहस्थान-लक्षणम्}
१.२.२० \ तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम्
{निग्रहस्थानबहुत्व-सूत्रम्}
(इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम्)
(समाप्तः च अयम् प्रथमः अध्यायः)


(अथ द्वितीयः अध्यायः)
(प्रथमम् आह्निकम्)

॥संशयपरीक्षाप्रकरणम्॥
२.१.१ \ समानानेकधर्माध्यवसायात् अन्यतरधर्माध्यवसायात् वा न संशयः
{संशय-}
२.१.२ \ विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च
{संशय-}
२.१.३ \ विप्रत्तिपत्तौ च संप्रत्तिपत्तेः
{संशय-}
२.१.४ \ अव्यवस्था आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः
{संशय-}
२.१.५ \ तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः
{संशय-}
२.१.६ \ यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः वा
{संशय-}
२.१.७ \ यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः
{संशय-}
॥प्रमाणसामान्यपरीक्षाप्रकरणम्॥
२.१.८ \ प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः
{पूर्वपक्षसूत्रम्}
२.१.९ \ पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१० \ पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}
२.१.११ \ युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम्
{पूर्वपक्षसूत्रम्}
२.१.१२ \ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१३ \ सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१४ \ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः
{पूर्वपक्षसूत्रम्}
२.१.१५ \ त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः
{पूर्वपक्षसूत्रम्}
२.१.१६ \ प्रमेया च तुलाप्रामाण्यवत्
{पूर्वपक्षसूत्रम्}
२.१.१७ \ प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः
{पूर्वपक्षसूत्रम्}
२.१.१८ \ तद्विनिवृत्तेः वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}
२.१.१९ \ न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः
{सिद्धान्तलक्षणम्}
२.१.२० \ क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः
{सिद्धान्तलक्षणम्}
॥प्रत्यक्षपरीक्षाप्रकरणाम्॥
२.१.२१ \ प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात्
{प्रत्यक्षलक्षण-}
{प्रत्यक्षलक्षणपरीक्षा}
२.१.२२ \ न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः
{प्रत्यक्षलक्षणपरीक्षा}
२.१.२३ \ दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः
{प्रत्यक्षलक्षणपरीक्षा}
२.१.२४ \ ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्रम्}
२.१.२५ \ तदयौगपद्यलिङ्गत्वात् च न मनसः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}
२.१.२६ \ प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}
२.१.२७ \ सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}
२.१.२८ \ तैः च अपदेशः ज्ञानविशेषाणाम्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}
२.१.२९ \ व्याहतत्वात् अहेतुः
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}
२.१.३० \ न अर्थविशेषप्राबल्यात्
{प्रत्यक्षलक्षण-सिद्धान्त-सूत्र}

॥विषयपरीक्षा-प्रकरणाम्॥
२.१.३१ \ प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः
{पूर्वपक्ष-सूत्र}
२.१.३२ \ न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात्
{सिद्धान्त-सूत्र}
२.१.३३ \ न चैकदेशोपलब्धिरवयविसद्भावात्
{सिद्धान्त-सूत्र}
॥प्रसङ्गोपात्ता अवयविपरीक्षा॥
२.१.३४ \ साध्यत्वात् अवयविनि सन्देहः
{पूर्वपक्ष-सूत्र}
२.१.३५ \ सर्वाग्रहणम् अवयव्यसिद्धेः
{सिद्धान्त-सूत्र}
२.१.३६ \ धारणाकर्षणोपपत्तेः च
{सिद्धान्त-सूत्र}
२.१.३७ \ सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम्
{सिद्धान्त-सूत्र}

॥अनुमानपरीक्षाप्रकरणम्॥
२.१.३८ \ रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम्
{पूर्वपक्ष-सूत्र}
२.१.३९ \ न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात्
{सिद्धान्त-सूत्र}
{वर्तमानकालपरीक्षा}
२.१.४० \ वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः
{पूर्वपक्ष-सूत्र}
२.१.४१ \ तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात्
{सिद्धान्त-सूत्र}
२.१.४२ \ न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः
{सिद्धान्त-सूत्र}
२.१.४३ \ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः
{सिद्धान्त-सूत्र}
२.१.४४ \ कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम्
{सिद्धान्त-सूत्र}

॥उपमानपरीक्षाप्रकरणम्॥
२.१.४५ \ अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः
{सिद्धान्त-सूत्र}
२.१.४६ \ प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः
{पूर्वपक्ष-सूत्र}
२.१.४७ \ प्रत्यक्षेण अप्रत्यक्षसिद्धेः
{सिद्धान्त-सूत्र}
२.१.४८ \ न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः
{सिद्धान्त-सूत्र}
२.१.४९ \ तथा इति उपसंहारात् उपमानसिद्धेः न अविशेषः
{सिद्धान्त-सूत्र}
॥शब्दसामान्यपरीक्षाप्रकरणम्॥
२.१.५० \ शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात्
{पूर्वपक्ष-सूत्र}
२.१.५१ \ उपलब्धेः अद्विप्रवृत्तित्वात्
{पूर्वपक्ष-सूत्र}
२.१.५२ \ सम्बन्धात् च
{पूर्वपक्ष-सूत्र}
२.१.५३ \ आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः
{सिद्धान्त-सूत्र}
२.१.५४ \ पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः
{सिद्धान्त-सूत्र}
२.१.५५ \ शब्दार्थव्यवस्थानात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
२.१.५६ \ न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य
{सिद्धान्त-सूत्र}
२.१.५७ \ जातिविशेषे च अनियमात्
{सिद्धान्त-सूत्र}
॥शब्दविशेषपरीक्षाप्रकरणम्॥
२.१.५८ \ तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः
{सिद्धान्त-सूत्र}
२.१.५९ \ न, कर्मकर्तृसाधनवैगुण्यात्
{सिद्धान्त-सूत्र}
२.१.६० \ अभ्युपेत्य कालभेदे दोषवचनात्
{सिद्धान्त-सूत्र}
२.१.६१ \ अनुवादोपपत्तेः च
{सिद्धान्त-सूत्र}
२.१.६२ \ वाक्यविभागस्य च अर्थग्रहणात्
{सिद्धान्त-सूत्र}
२.१.६३ \ विध्यर्थवादानुवादवचनविनियोगात्
{सिद्धान्त-सूत्र}
२.१.६४ \ विधिः विधायकः
{सिद्धान्त-सूत्र}
२.१.६५ \ स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः
{सिद्धान्त-सूत्र}
{अर्थवाद-भेदः}
२.१.६६ \ विधिविहितस्य अनुवचनम् अनुवादः
{अर्थवाद-}
२.१.६७ \ न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः
{सिद्धान्त-सूत्र}
२.१.६८ \ शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः
{सिद्धान्त-सूत्र}
२.१.६९ \ मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात्
{सिद्धान्त-सूत्र}

(इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम्)

(द्वितीयम् आह्निकम्)
॥प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्॥
२.२.१ \ न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्
{पूर्वपक्ष-सूत्र}
२.२.२ \ शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः
{सिद्धान्त-सूत्र}
२.२.३ \ अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात्
{अर्थापत्तिप्रामाण्यपरीक्षा}
२.२.४ \ अनर्थापत्तौ अर्थापत्त्यभिमानात्
{नानैकान्तिकत्वमर्थापत्तेः}
२.२.५ \ प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात्
??
२.२.६ \ तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम्
{सिद्धान्त-सूत्र}
॥अभावप्रामाण्यसिद्धिः - अवान्तरप्रकरणम्॥
२.२.७ \ न अभावप्रामाण्यं प्रमेयासिद्धेः
{पूर्वपक्ष-सूत्र}
२.२.८ \ लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः
{उदाहरण सूत्र}
२.२.९ \ असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः
{सिद्धान्त-सूत्र}
२.२.१० \ तत्सिद्धेः अलक्षितेषु अहेतुः
{पूर्वपक्ष-सूत्र}
२.२.११ \ न, लक्षणावस्थितापेक्षसिद्धेः
{सिद्धान्त-सूत्र}
२.२.१२ \ प्राक् उत्पत्तेः अभावोपपत्तेः च
{सिद्धान्त-सूत्र}

॥शब्दानित्यत्वपरीक्षाप्रकरणम् (१३-३९)॥
२.२.१३ \ आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
२.२.१४ \ न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च
{सिद्धान्त-सूत्र}
२.२.१५ \ तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}
२.२.१६ \ सन्तानानुमानविशेषणात्
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}
२.२.१७ \ कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
{सिद्धान्त-सूत्र}
२.२.१८ \ प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
२.२.१९ \ तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः
{शब्दानित्यत्व-प्रतिपादन-सूत्र}
२.२.२० \ अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात्
{सिद्धान्त-सूत्र}
२.२.२१ \ अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}
२.२.२२ \ अस्पर्शत्वात्
{सिद्धान्त-सूत्र}
२.२.२३ \ न, कर्मानित्यत्वात्
{सिद्धान्त-सूत्र}
२.२.२४ \ न, अणुनित्यत्वात्
{सिद्धान्त-सूत्र}
२.२.२५ \ सम्प्रदानात्
{सिद्धान्त-सूत्र}
२.२.२६ \ तदन्तरालानुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}
२.२.२७ \ अध्यापनात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
२.२.२८ \ उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
२.२.२९ \ अभ्यासात्
{सिद्धान्त-सूत्र}
२.२.३० \ न अन्यत्वे अपि अभ्यासस्य उपचारात्
{सिद्धान्त-सूत्र}
२.२.३१ \ अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः
{सिद्धान्त-सूत्र}
२.२.३२ \ तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः
{सिद्धान्त-सूत्र}
२.२.३३ \ विनाशकारणानुपलब्धेः
{सिद्धान्त-सूत्र}
२.२.३४ \ अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः
{सिद्धान्त-सूत्र}
२.२.३५ \ उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः
{सिद्धान्त-सूत्र}
२.२.३६ \ पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः
{सिद्धान्त-सूत्र}
२.२.३७ \ विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
{सिद्धान्त-सूत्र}
२.२.३८ \ अस्पर्शत्वात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
२.२.३९ \ विभक्त्यन्तरोपपत्तेः च समासे
{सिद्धान्त-सूत्र}

॥शब्दपरिणामपरीक्षाप्रकरणम् (४०-५६)॥
२.२.४० \ विकारादेशोपदेशात् संशयः
{पूर्वपक्ष-सूत्र}
२.२.४१ \ प्रकृतिविवृद्धौ विकारविवृद्धेः
{सिद्धान्त-सूत्र}
२.२.४२ \ न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः
{सिद्धान्त-सूत्र}
२.२.४३ \ द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः
{उदाहरणसूत्र}
२.२.४४ \ न, अतुल्यप्रकृतीनाम् विकारविकल्पात्
{सिद्धान्त-सूत्र}
२.२.४५ \ द्रव्यविकारवैषम्यवत् वर्णविकारविकलः
{पूर्वपक्ष-सूत्र}
२.२.४६ \ न, विकारधर्मानुपपत्तेः
{सिद्धान्त-सूत्र}
२.२.४७ \ विकारप्राप्तानाम् अपुनरापत्तेः
{सिद्धान्त-सूत्र}
२.२.४८ \ सुवर्णादीनां पुनरापत्तेः अहेतुः
{पूर्वपक्ष-सूत्र}
२.२.४९ \ न, तद्विकाराणां सुवर्णभावाव्यतिरेकात्
{सिद्धान्त-सूत्र}
२.२.५० \ वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}
२.२.५१ \ सामान्यवतो धर्मयोगो न सामान्यस्य
{सिद्धान्त-सूत्र}
२.२.५२ \ नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात्
{सिद्धान्त-सूत्र}
२.२.५३ \ नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः
{पूर्वपक्ष-सूत्र}
२.२.५४ \ अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः
{पूर्वपक्ष-सूत्र}
२.२.५५ \ विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः
{सिद्धान्त-सूत्र}
२.२.५६ \ प्रकृत्यनियमात्
{सिद्धान्त-सूत्र}
२.२.५७ \ अनियमे नियमात् न अनियमः
{पूर्वपक्ष-सूत्र}
२.२.५८ \ नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः
{सिद्धान्त-सूत्र}
२.२.५९ \ गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः
{सिद्धान्त-सूत्र}

॥शब्दशक्तिपरीक्षाप्रकरणम्॥
२.२.६० \ ते विभक्त्यन्ताः पदम्
{पद-लक्षण-सूत्रम्}
२.२.६१ \ व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः
{पूर्वपक्ष-सूत्र}

॥व्यक्तिवाद-अवान्तरप्रकरणम्॥
२.२.६२ \ याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः
{पूर्वपक्ष-सूत्र}
२.२.६३ \ न, तत् अनवस्थानात्
{सिद्धान्त-सूत्र}
२.२.६४ \ सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः 
ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः
{सिद्धान्त-सूत्र}

॥आकृतिवाद-अवान्तरप्रकरणम्॥
२.२.६५ \ आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः
{पूर्वपक्ष-सूत्र}

॥जातिवाद-अवान्तरप्रकरणम्॥
२.२.६६ \ व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः
{पूर्वपक्ष-सूत्र}
२.२.६७ \ न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः
{सिद्धान्त-सूत्र}

॥सिद्धान्तवाद-अवान्तरप्रकरणम्॥
२.२.६८ \ व्यक्त्याकृतिजातयः तु पदार्थः
{सिद्धान्त-सूत्र}
२.२.६९ \ व्यक्तिः गुणविशेषाश्रयः मूर्तिः
{सिद्धान्त-सूत्र}
२.२.७० \ आकृतिः जातिलिङ्गाख्या
{सिद्धान्त-सूत्र}
२.२.७१ \ समानप्रसवात्मिका जातिः
{सिद्धान्त-सूत्र}

(इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयम् आह्निकम्)
समाप्तः च अयम् द्वितीयाध्यायः


(अथ तृतीयः अध्यायः)
(प्रथमम् आह्निकम्)

॥इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं (१-३)॥
३.१.१ \ दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात्
{पूर्वपक्ष-सूत्र}
३.१.२ \ न, विषयव्यवस्थानात्
{पूर्वपक्ष-सूत्र}
३.१.३ \ तद्व्यवस्थानात् एव आत्मसद्भावात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
॥शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्॥
३.१.४ \ शरीरदाहे पातकाभावात्
{सिद्धान्त-सूत्र}
३.१.५ \ तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात्
{पूर्वपक्ष-सूत्र}
३.१.६ \ न, कार्याश्रयकर्तृवधात्
{सिद्धान्त-सूत्र}

॥प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम् (७-१४)॥
३.१.७ \ सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात्
{सिद्धान्त-सूत्र}
३.१.८ \ न एकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात्
{पूर्वपक्ष-सूत्र}
३.१.९ \ एकविनाशे द्वितीयाविनाशात् न एकत्वम्
{सिद्धान्त-सूत्र}
३.१.१० \ अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः
{पूर्वपक्ष-सूत्र}
३.१.११ \ दृष्टान्तविरोधात् अप्रतिषेधः
{सिद्धान्त-सूत्र}
३.१.१२ \ इन्द्रियान्तरविकारात्
{सिद्धान्त-सूत्र}
३.१.१३ \ न, स्मृतेः स्मर्त्तव्यविषयत्वात्
{पूर्वपक्ष-सूत्र}
३.१.१४ \ तदात्मगुणसद्भावात् अप्रतिषेधः
{सिद्धान्त-सूत्र}

॥आत्ममनोभेदपरीक्षाप्रकरणम् (१५-१७)॥
३.१.१५ \ न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात्
{पूर्वपक्ष-सूत्र}
३.१.१६ \ ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम्
{सिद्धान्त-सूत्र}
३.१.१७ \ नियमः च निरनुमानः
{सिद्धान्त-सूत्र}

॥आत्मनित्यत्वपरीक्षाप्रकरणम् (१८-२६)॥
३.१.१८ \ पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः
{सिद्धान्त-सूत्र}
३.१.१९ \ पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः
{पूर्वपक्ष-सूत्र}
३.१.२० \ न, उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम्
{सिद्धान्त-सूत्र}
३.१.२१ \ प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात्
{सिद्धान्त-सूत्र}
३.१.२२ \ अयसः अयस्कान्ताभिगमनवत् तदुपसर्पणम्
{पूर्वपक्ष-सूत्र}
३.१.२३ \ न, अन्यत्र प्रवृत्त्यभावात्
{सिद्धान्त-सूत्र}
३.१.२४ \ वीतरागजन्मादर्शनात्
{सिद्धान्त-सूत्र}
३.१.२५ \ सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः
{पूर्वपक्ष-सूत्र}
३.१.२६ \ न, सङ्कल्पनिमित्तत्वात् रागादीनाम्
{सिद्धान्त-सूत्र}

॥शरीरपरीक्षाप्रकरणम् (२७-३१)॥
३.१.२७ \ पार्थिवं गुणान्तरोपलब्धेः
{सिद्धान्त-सूत्र}
३.१.२८ \ पार्थिवाप्यतैजसं तद्गुणोपलब्धेः
{सिद्धान्त-सूत्र}
३.१.२९ \ निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम्
{पूर्वपक्ष-सूत्र}
३.१.३० \ गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्
{पूर्वपक्ष-सूत्र}
३.१.३१ \ श्रुतिप्रामाण्यात् च
{सिद्धान्त-सूत्र}

॥इन्द्रियपरीक्षाप्रकरणम् (३२-५१)॥
३.१.३२ \ कृष्णसारे सति उपलम्भात् व्यतिरिच्य च उपलम्भात् संशयः 
{सिद्धान्त-सूत्र}
३.१.३३ \ महदणुग्रहणात्
{साङ्ख्यमतखण्डनम्}
३.१.३४ \ रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम्
{सिद्धान्त-सूत्र}
३.१.३५ \ तदनुपलब्धेः अहेतुः
{सिद्धान्त-सूत्र}
३.१.३६ \ न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः
{सिद्धान्त-सूत्र}
३.१.३७ \ द्रव्यगुणधर्मभेदात् च उपलब्धिनियमः
{सिद्धान्त-सूत्र}
३.१.३८ \ अनेकद्रव्यसमवायात् रूपविशेषात् च रूपोपलब्धिः
{सिद्धान्त-सूत्र}
३.१.३९ \ कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः
{सिद्धान्त-सूत्र}
३.१.४० \ मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः
{सिद्धान्त-सूत्र}
३.१.४१ \ न, रात्रौ अपि अनुपलब्धेः
{सिद्धान्त-सूत्र}
३.१.४२ \ बाह्यप्रकाशानुग्रहात् विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः
{सिद्धान्त-सूत्र}
३.१.४३ \ अभिव्यक्तौ च अभिभवात्
{सिद्धान्त-सूत्र}
३.१.४४ \ नक्तञ्चरनयनरश्मिदर्शनात् च
{सिद्धान्त-सूत्र}
३.१.४५ \ अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः
{पूर्वपक्ष-सूत्र}
३.१.४६ \ कुड्यान्तरितानुपलब्धेः अप्रतिषेधः
{सिद्धान्त-सूत्र}
३.१.४७ \ अप्रतीघातात् सन्निकर्षोपपत्तिः
{सिद्धान्त-सूत्र}
३.१.४८ \ आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात्
{सिद्धान्त-सूत्र}
३.१.४९ \ न इतरेतरधर्मप्रसङ्गात्
{पूर्वपक्ष-सूत्र}
३.१.५० \ आदर्शोदकयोः प्रसादस्वाभाव्यात् रूपोपलब्धिः
{सिद्धान्त-सूत्र}
३.१.५१ \ दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः
{सिद्धान्त-सूत्र}

॥इन्द्रियनानात्वपरीक्षाप्रकरणम् (५२-६२)॥
३.१.५२ \ स्थानान्यत्वे नानात्वात् अवयविनानास्थानत्वात् च संशयः
{सिद्धान्त-सूत्र}
३.१.५३ \ त्वक् अव्यतिरेकात्
{पूर्वपक्ष-सूत्र}
३.१.५४ \ न युगपत् अर्थानुपलब्धेः
{सिद्धान्त-सूत्र}
३.१.५५ \ विप्रतिषेधात् च न त्वक् एका
{सिद्धान्त-सूत्र}
३.१.५६ \ इन्द्रियार्थपञ्चत्वात्
{सिद्धान्त-सूत्र}
३.१.५७ \ न, तदर्थबहुत्वात्
{पूर्वपक्ष-सूत्र}
३.१.५८ \ गन्धत्वाद्यव्यतिरेकात् गन्धादीनामप्रतिषेधः
{सिद्धान्त-सूत्र}
३.१.५९ \ विषयत्वाव्यतिरेकात् एकत्वम्
{सिद्धान्त-सूत्र}
३.१.६० \ न, बुद्धिलक्षणाधिष्ठान-गत्याकृति-जातिपञ्चत्वेभ्यः
{सिद्धान्त-सूत्र}
३.१.६१ \ भूतगुणविशेषोपलब्धेः तादात्म्यम्
{सिद्धान्त-सूत्र}

॥अर्थपरीक्षाप्रकरणम् (६२-७४)॥
३.१.६२ \ गन्ध-रस-रूप-स्पर्श-शब्दानां स्पर्शपर्यन्ताः पृथिव्याः
{सिद्धान्त-सूत्र}
३.१.६३ \ अप्-तेजो-वायूनां पूर्वं पूर्वम् अपोह्य आकाशस्य उत्तरः
{पूर्वपक्ष-सूत्र}
३.१.६४ \ न, सर्वगुणानुपलब्धेः
{सिद्धान्त-सूत्र}
३.१.६५ \ एकैकश्येन उत्तरगुणासद्भावात् उत्तरोत्तराणां तदनुपलब्धिः
{पूर्वपक्ष-सूत्र}
३.१.६६ \ विष्टं हि अपरं परेण
{पूर्वपक्ष-सूत्र}
३.१.६७ \ न, पार्थिवाप्ययोः प्रत्यक्षत्वात्
{सिद्धान्त-सूत्र}
३.१.६८ \ पूर्वपूर्वगुणोत्कर्षात् तत्तत् प्रधानम्
{सिद्धान्त-सूत्र}
३.१.६९ \ तद्ध्यवस्थानं तु भूयस्त्वात्
{सिद्धान्त-सूत्र}
३.१.७० \ सगुणानाम् इन्द्रियभावात्
{सिद्धान्त-सूत्र}
३.१.७१ \ तेन एव तस्य अग्रहणात् च
{सिद्धान्त-सूत्र}
३.१.७२ \ न, शब्दगुणोपलब्धेः
{पूर्वपक्ष-सूत्र}
३.१.७३ \ तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात्
{सिद्धान्त-सूत्र}

(इति न्यायसूत्रे तृतीयाध्यायस्य प्रथमम् आह्निकम्)

(द्वितीयम् आह्निकम्)

॥बुद्धेरनित्यत्वपरीक्षाप्रकरणम् (१-९)॥
३.२.१ \ कर्माकाशसाधर्म्यात् संशयः
{सिद्धान्त-सूत्र}
३.२.२ \ विषयप्रत्यभिज्ञानात्
{सिद्धान्त-सूत्र}
३.२.३ \ साध्यसमत्वात् अहेतुः
{सिद्धान्त-सूत्र}
३.२.४ \ न, युगपत् अग्रहणात्
{सिद्धान्त-सूत्र}
३.२.५ \ अप्रत्यभिज्ञाने च विनाशप्रसङ्गः
{सिद्धान्त-सूत्र}
३.२.६ \ क्रमवृत्तित्वात् अयुगपत् ग्रहणम्
{सिद्धान्त-सूत्र}
३.२.७ \ अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात्
{सिद्धान्त-सूत्र}
३.२.८ \ न, गत्यभावात्
{सिद्धान्त-सूत्र}
३.२.९ \ स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः
{सिद्धान्त-सूत्र}

॥क्षणभङ्गपरीक्षाप्रकरणम् (१०-१७)॥
३.२.१० \ स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात् व्यक्तीनाम् अहेतुः
{सिद्धान्त-सूत्र}
३.२.११ \ नियमहेत्वभावात् यथादर्शनम् अभ्यनुज्ञा
{सिद्धान्त-सूत्र}
३.२.१२ \ न, उत्पत्तिविनाशकारणोपलब्धेः
{सिद्धान्त-सूत्र}
३.२.१३ \ क्षीरविनाशे कारणानुपलब्धिवत् दध्युत्पत्तिवत् च तदुत्पत्तिः
{पूर्वपक्ष-सूत्र}
३.२.१४ \ लिङ्गतः ग्रहणात् न अनुपलब्धिः
{सिद्धान्त-सूत्र}
३.२.१५ \ न पयसः परिणाम-गुणान्तरप्रादुर्भावात्
{सिद्धान्त-सूत्र}
३.२.१६ \ व्यूहान्तरात् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम्
{सिद्धान्त-सूत्र}
३.२.१७ \ क्वचित् विनाशकारणानुपलब्धेः क्वचित् च उपलब्धेः अनेकान्तः
{सिद्धान्त-सूत्र}

॥बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम् (१८-४१)॥
३.२.१८ \ न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात्
{सिद्धान्त-सूत्र}
३.२.१९ \ युगपत् ज्ञानानुपलब्धेः च न मनसः
{सिद्धान्त-सूत्र}
३.२.२० \ तत् आत्मगुणत्वे अपि तुल्यम्
{पूर्वपक्ष-सूत्र}
३.२.२१ \ इन्द्रियैः मनसः सन्निकर्षाभावात् तदनुत्पत्तिः
{पूर्वपक्ष-सूत्र}
३.२.२२ \ न, उत्पत्तिकारणानपदेशात्
{सिद्धान्त-सूत्र}
३.२.२३ \ विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
{पूर्वपक्ष-सूत्र}
३.२.२४ \ अनित्यत्वग्रहात् बुद्धेः बुद्ध्यन्तरात् विनाशः शब्दवत्
{सिद्धान्त-सूत्र}
३.२.२५ \ ज्ञानसमवेतात्मप्रदेशसन्निकर्षात् मनसः स्मृत्युत्पत्तेः न युगपत् उत्पत्तिः
{पूर्वपक्ष-सूत्र}
३.२.२६ \ न, अन्तः-शरीरवृत्तित्वात् मनसः
{सिद्धान्त-सूत्र}
३.२.२७ \ साध्यत्वात् अहेतुः
{पूर्वपक्ष-सूत्र}
३.२.२८ \ स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः
{सिद्धान्त-सूत्र}
३.२.२९ \ न, तदाशुगतित्वान्मनसः
{पूर्वपक्ष-सूत्र}
३.२.३० \ न, स्मरणकालानियमात्
{सिद्धान्त-सूत्र}
३.२.३१ \ आत्मप्रेरण-यदृच्छा-ज्ञताभिः च न संयोगविशेषः
{पूर्वपक्ष-सूत्र}
३.२.३२ \ व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम्
{सिद्धान्त-सूत्र}
३.२.३३ \ प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावात् अयुगपत्स्मरणम्
{सिद्धान्त-सूत्र}
३.२.३४ \ ज्ञस्य इच्छाद्वेषनिमित्तत्वात् आरम्भनिवृत्त्योः
{सिद्धान्त-सूत्र}
३.२.३५ \ तल्लिङ्गत्वात् इच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः
{पूर्वपक्ष-सूत्र}
३.२.३६ \ परश्वादिषु आरम्भनिवृत्तिदर्शनात्
{सिद्धान्त-सूत्र}
३.२.३७ \ नियमानियमौ तु तद्विशेषकौ
{सिद्धान्त-सूत्र}
३.२.३८ \ यथोक्तहेतुत्वात् पारतन्त्र्यात् अकृताभ्यागमात् च न मनसः
{सिद्धान्त-सूत्र}
३.२.३९ \ परिशेषात् यथोक्तहेतूपपत्तेः च
{सिद्धान्त-सूत्र}
३.२.४० \ स्मरणं तु आत्मनः ज्ञस्वाभाव्यात्
{सिद्धान्त-सूत्र}
३.२.४१ \ प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षण-सादृश्य-परिग्रहाश्रयाश्रित सम्बन्धानन्तर्य-वियोगैककार्य-
विरोधातिशय-प्राप्ति-व्यवधान-सुख-दुःखेच्छा द्वेष-भयार्थित्व-क्रियाराग-धर्माधर्मनिमित्तेभ्यः
{सिद्धान्त-सूत्र}

॥बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम् (४२-४५)॥
३.२.४२ \ कर्मानवस्थायिग्रहणात्
{सिद्धान्त-सूत्र}
३.२.४३ \ अव्यक्तग्रहणम् अनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत्
{सिद्धान्त-सूत्र}
३.२.४४ \ हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा
{सिद्धान्त-सूत्र}
३.२.४५ \ न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम्
{सिद्धान्त-सूत्र}

॥बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम् (४६-५५)॥
३.२.४६ \ द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः
{सिद्धान्त-सूत्र}
३.२.४७ \ यावच्छरीरभावित्वात् रूपादीनाम्
{सिद्धान्त-सूत्र}
३.२.४८ \ न, पाकजगुणान्तरोत्पत्तेः
{सिद्धान्त-सूत्र}
३.२.४९ \ प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}
३.२.५० \ शरीरव्यापित्वात्
{सिद्धान्त-सूत्र}
३.२.५१ \ न, केशनखादिषु अनुपलब्धेः
{पूर्वपक्ष-सूत्र}
३.२.५२ \ त्वक्पर्यन्तत्वात् शरीरस्य केशनखादिषु अप्रसङ्गः
{सिद्धान्त-सूत्र}
३.२.५३ \ शरीरगुणवैधर्म्यात्
{सिद्धान्त-सूत्र}
३.२.५४ \ न, रूपादीनाम् इतरेतरवैधर्म्यात्
{पूर्वपक्ष-सूत्र}
३.२.५५ \ ऐन्द्रियकत्वात् रूपादीनाम् अप्रतिषेधः
{सिद्धान्त-सूत्र}

॥मनःपरीक्षाप्रकरणम् (५६-५९)॥
३.२.५६ \ ज्ञानायौगपद्यात् एकम् मनः
{सिद्धान्त-सूत्र}
३.२.५७ \ न, युगपत् अनेकक्रियोपलब्धेः
{पूर्वपक्ष-सूत्र}
३.२.५८ \ अलातचक्रदर्शनवत् तदुपलब्धिः आशुसञ्चारात्
{सिद्धान्त-सूत्र}
३.२.५९ \ यथोक्तहेतुत्वात् च अणु
{सिद्धान्त-सूत्र}

॥अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम् (६०-७२)॥
३.२.६० \ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः
{सिद्धान्त-सूत्र}
३.२.६१ \ भूतेभ्यः मूर्त्युपादानवत् तदुपादानम्
{पूर्वपक्ष-सूत्र}
३.२.६२ \ न, साध्यसमत्वात्
{सिद्धान्त-सूत्र}
३.२.६३ \ न, उत्पत्तिनिमित्तत्वात् मातापित्रोः
{सिद्धान्त-सूत्र}
३.२.६४ \ तथा आहारस्य
{सिद्धान्त-सूत्र}
३.२.६५ \ प्राप्तौ च अनियमात्
{सिद्धान्त-सूत्र}
३.२.६६ \ शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म
{सिद्धान्त-सूत्र}
३.२.६७ \ एतेन अनियमः प्रत्युक्तः
{सिद्धान्त-सूत्र}
३.२.६८ \ तत् अदृष्टकारितम् इति चेत् पुनः तत्प्रसङ्गः अपवर्गे
{सिद्धान्त-सूत्र}
३.२.६९ \ मनःकर्मनिमित्तत्वात् च संयोगाव्युच्छेदः
{सिद्धान्त-सूत्र}
३.२.७० \ नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः
{सिद्धान्त-सूत्र}
३.२.७१ \ अणुश्यामतानित्यत्ववत् एतत् स्यात्
{पूर्वपक्ष-सूत्र}
३.२.७२ \ न, अकृताभ्यागमप्रसङ्गात्
{सिद्धान्त-सूत्र}

(इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयम् आह्निकम्)

(समाप्तः च अयम् तृतीयः अध्यायः)

(अथ चतुर्थः अध्यायः)
(प्रथमम् आह्निकम्)
॥प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् (१-२)॥

४.१.१ \ प्रवृत्तिर्यथोक्ता
{सिद्धान्त-सूत्र}
४.१.२ \ तथा दोषाः
{सिद्धान्त-सूत्र}

॥दोषत्रैराश्यपरीक्षाप्रकरणम् (३-८)॥
४.१.३ \ त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात्
{सिद्धान्त-सूत्र}
४.१.४ \ न, एकप्रत्यनीकभावात्
{पूर्वपक्ष-सूत्र}
४.१.५ \ व्यभिचारादहेतुः
{सिद्धान्त-सूत्र}
४.१.६ \ तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः
{सिद्धान्त-सूत्र}
४.१.७ \ निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः
{पूर्वपक्ष-सूत्र}
४.१.८ \ न दोषलक्षणावरोधान्मोहस्य
{सिद्धान्त-सूत्र}
४.१.९ \ निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः
{सिद्धान्त-सूत्र}

॥प्रेत्यभावपरीक्षाप्रकरणम् (१०-१३)॥
४.१.१० \ आत्मनित्यत्वे प्रेत्यभावसिद्धिः
{सिद्धान्त-सूत्र}
४.१.११ \ व्यक्ताद् व्यक्तानाम्, प्रत्यक्षप्रामाण्यात्
{सिद्धान्त-सूत्र}
४.१.१२ \ न, घटाद् घटनिष्पत्तेः
{पूर्वपक्ष-सूत्र}
४.१.१३ \ व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः
{सिद्धान्त-सूत्र}

॥शून्यतोपादाननिराकरणप्रकरणम् (१४-१८)॥
४.१.१४ \ अभावाद् भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात्
{पूर्वपक्ष-सूत्र}
४.१.१५ \ व्याघातादप्रयोगः
{सिद्धान्त-सूत्र}
४.१.१६ \ न, अतीतानागतयोः कारकशब्दप्रयोगात्
{पूर्वपक्ष-सूत्र}
४.१.१७ \ न, विनष्टेभ्यो ऽनिष्पत्तेः
{सिद्धान्त-सूत्र}
४.१.१८ \ क्रमनिर्देशादप्रतिषेधः
{सिद्धान्त-सूत्र}

॥ईश्वरोपादानाताप्रकरणम् (१९-२१)॥
४.१.१९ \ ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात्
{सिद्धान्त-सूत्र}
४.१.२० \ न, पुरुषकर्माभावे फ्लानिष्पत्तेः
{पूर्वपक्ष-सूत्र}
४.१.२१ \ तत्कारितत्वाद् अहेतुः
{सिद्धान्त-सूत्र}

॥आकस्मिकत्वनिराकरणप्रकरणम् (२२-२४)॥
४.१.२२ \ अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात्
{पूर्वपक्ष-सूत्र}
४.१.२३ \ अनिमित्तनिमित्तत्वान्ननिमित्ततः
{सिद्धान्त-सूत्र}
४.१.२४ \ निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः
{सिद्धान्त-सूत्र}

॥सर्वानित्यत्वनिराकरणप्रकरणम् (२५-२८)॥
४.१.२५ \ सर्वम् अनित्यम्, उत्पत्तिविनाशधर्मकत्वात्
{पूर्वपक्ष-सूत्र}
४.१.२६ \ न, अनित्यतानित्यत्वात्
{सिद्धान्त-सूत्र}
४.१.२७ \ तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत्
{सिद्धान्त-सूत्र}
४.१.२८ \ नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात्
{सिद्धान्त-सूत्र}

॥सर्वनित्यत्वनिराकरणम् (२९-३३)॥
४.१.२९ \ सर्वं नित्यम्, पञ्चभूतनित्यत्वात्
{पूर्वपक्ष-सूत्र}
४.१.३० \ न, उत्पत्तिविनाशकारणोपलब्धेः
{सिद्धान्त-सूत्र}
४.१.३१ \ तल्लक्षणावरोधादप्रतिषेधः
{पूर्वपक्ष-सूत्र}
४.१.३२ \ न, उत्पत्तितत्कारणोपलब्धेः
{सिद्धान्त-सूत्र}
४.१.३३ \ न, व्यवस्थानुपपत्तेः
{सिद्धान्त-सूत्र}

॥सर्वपृथक्त्वनिराकरणप्रकरणम् (३४-३६)॥
४.१.३४ \ सर्वं पृथग्, भावलक्षणपृथक्त्वात्
{पूर्वपक्ष-सूत्र}
४.१.३५ \ न, अनेकलक्षणैरेकभावनिष्पत्तेः
{सिद्धान्त-सूत्र}
४.१.३६ \ लक्षणव्यवस्थानादेवाप्रतिषेधः
{सिद्धान्त-सूत्र}

॥सर्वशून्यतानिराकरणप्रकरणम् (३७-४०)॥
४.१.३७ \ सर्वम् अभावो भावेष्वितरेतराभावसिद्धेः
{पूर्वपक्ष-सूत्र}
४.१.३८ \ न, स्वभावसिद्धेर्भावानाम्
{सिद्धान्त-सूत्र}
४.१.३९ \ न स्वभावसिद्धिः, आपेक्षिकत्वात्
{पूर्वपक्ष-सूत्र}
४.१.४० \ व्याहतत्वादयुक्तम्
{सिद्धान्त-सूत्र}

॥संख्यैकान्तवादप्रकरणम् (४१-४३)॥
४.१.४१ \ संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम्
{सिद्धान्त-सूत्र}
४.१.४२ \ न, कारणवयवाभावात्
{पूर्वपक्ष-सूत्र}
४.१.४३ \ निरवयवत्वादहेतुः
{सिद्धान्त-सूत्र}

॥फलपरीक्षाप्रकरणम् (४४-५४)॥
४.१.४४ \ सद्यः कालान्तरे च फलनिष्पत्तेः संशयः
{सिद्धान्त-सूत्र}
४.१.४५ \ न सद्यः, कालान्तरोपभोग्यत्वात्
{सिद्धान्त-सूत्र}
४.१.४६ \ कालान्तरेणानिष्पत्तिहेतुर्विनाशात्
{पूर्वपक्ष-सूत्र}
४.१.४७ \ प्राङ्निष्पत्तेर्वृक्षफलवत् तत्स्यात्
{सिद्धान्त-सूत्र}
४.१.४८ \ नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात्
{पूर्वपक्ष-सूत्र}
४.१.४९ \ उत्पादव्ययदर्शनात्
{सिद्धान्त-सूत्र}
४.१.५० \ बुद्धिसिद्धं तु तदसत्
{सिद्धान्त-सूत्र}
४.१.५१ \ आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्यहेतुः
{पूर्वपक्ष-सूत्र}
४.१.५२ \ प्रीतेरात्माश्रयत्वादप्रतिषेधः
{सिद्धान्त-सूत्र}
४.१.५३ \ न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात्
{पूर्वपक्ष-सूत्र}
४.१.५४ \ तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः
{सिद्धान्त-सूत्र}

॥दुःखपरीक्षाप्रकरणम् (५५-५८)॥
४.१.५५ \ विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः
{सिद्धान्त-सूत्र}
४.१.५६ \ न, सुखस्याप्यन्तरालनिष्पत्तेः
{सिद्धान्त-सूत्र}
४.१.५७ \ भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः
{सिद्धान्त-सूत्र}
४.१.५८ \ दुःखविकल्पे सुखाभिमानाच्च
{सिद्धान्त-सूत्र}

॥अपवर्गपरीक्षाप्रकरणम् (५९-६८)॥
४.१.५९ \ ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः
{पूर्वपक्ष-सूत्र}
४.१.६० \ प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः
{सिद्धान्त-सूत्र}
४.१.६१ \ समारोपणादात्मन्यप्रतिषेधः
{सिद्धान्त-सूत्र}
४.१.६२ \ पात्रचयान्तानुपपत्तेश्च फलाभावः
{सिद्धान्त-सूत्र}
४.१.६३ \ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः
{सिद्धान्त-सूत्र}
४.१.६४ \ न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य
{सिद्धान्त-सूत्र}
४.१.६५ \ न, क्लेशसन्ततेः स्वाभाविकत्वात्
{पूर्वपक्ष-सूत्र}
४.१.६६ \ प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविके ऽप्यनित्यत्वम्
{सिद्धान्त-सूत्र}
४.१.६७ \ अणुश्यामतानित्यत्ववद् वा
{सिद्धान्त-सूत्र}
४.१.६८ \ न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम्
{सिद्धान्त-सूत्र}

(इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथमम् आह्निकम्)

(द्वितीयम् आह्निकम्)
॥तत्त्वज्ञानोत्पत्तिप्रकरणम् (१-३)॥
४.२.१ \ दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः
{सिद्धान्त-सूत्र}
४.२.२ \ दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः
{सिद्धान्त-सूत्र}
४.२.३ \ तन्निमित्तं त्ववयव्यभिमानः
{सिद्धान्त-सूत्र}

॥प्रासङ्गिकम् अवयविप्रकरणम् (४-१७)॥
४.२.४ \ विद्याविद्याद्वैविध्यात् संशयः
{पूर्वपक्ष-सूत्र}
४.२.५ \ तदसंशयः, पूर्वहेतुप्रसिद्धत्वात्
{सिद्धान्त-सूत्र}
४.२.६ \ वृत्त्यनुपपत्तेरपि तर्हि न संशयः
{पूर्वपक्ष-सूत्र}
४.२.७ \ कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः
{पूर्वपक्ष-सूत्र}
४.२.८ \ तेषु चावृत्तेरवयव्यभावः
{पूर्वपक्ष-सूत्र}
४.२.९ \ पृथक् चावयवेभ्यो ऽवृत्तेः
{सिद्धान्त-सूत्र}
४.२.१० \ न चावयव्यवयवाः
{पूर्वपक्ष-सूत्र}
४.२.११ \ एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः
{सिद्धान्त-सूत्र}
४.२.१२ \ अवयवान्तरभावे ऽप्यवृत्तेरहेतुः
{सिद्धान्त-सूत्र}
४.२.१३ \ केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः
{पूर्वपक्ष-सूत्र}
४.२.१४ \ स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः
{सिद्धान्त-सूत्र}
४.२.१५ \ अवयवावयविप्रसङ्गश्चैवमाप्रलयात्
{सिद्धान्त-सूत्र}
४.२.१६ \ न प्रलयो ऽणुसद्भावात्
{सिद्धान्त-सूत्र}
४.२.१७ \ परं वा त्रुटेः
{सिद्धान्त-सूत्र}

॥औपोद्घातिकं निरवयवप्रकरणम् (१८-२५)॥
४.२.१८ \ आकाशव्यतिभेदात् तदनुपपत्तिः
{सिद्धान्त-सूत्र}
४.२.१९ \ आकाशासर्वगतत्वं वा
{पूर्वपक्ष-सूत्र}
४.२.२० \ अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः
{सिद्धान्त-सूत्र}
४.२.२१ \ शब्दसंयोगविभावाच्च सर्वगतम्
{सिद्धान्त-सूत्र}
४.२.२२ \ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः
{सिद्धान्त-सूत्र}
४.२.२३ \ मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः
{पूर्वपक्ष-सूत्र}
४.२.२४ \ संयोगोपपत्तेश्च
{पूर्वपक्ष-सूत्र}
४.२.२५ \ अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः
{सिद्धान्त-सूत्र}

॥बाह्यार्थभङ्गनिराकरणप्रकरणम् (२६-३७)॥
४.२.२६ \ बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः
{पूर्वपक्ष-सूत्र}
४.२.२७ \ व्याहतत्वादहेतुः
{सिद्धान्त-सूत्र}
४.२.२८ \ तदाश्रयत्वादपृथग्ग्रहणम्
{सिद्धान्त-सूत्र}
४.२.२९ \ प्रमाणतश्चार्थप्रतिपत्तेः
{सिद्धान्त-सूत्र}
४.२.३० \ प्रमाणानुपपत्त्युपपत्तिभ्याम्
{सिद्धान्त-सूत्र}
४.२.३१ \ स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः
{पूर्वपक्ष-सूत्र}
४.२.३२ \ मायागन्धर्वनगरमृगतृष्णिकावद्वा
{पूर्वपक्ष-सूत्र}
४.२.३३ \ हेत्वभावादसिद्धिः
{सिद्धान्त-सूत्र}
४.२.३४ \ स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः
{सिद्धान्त-सूत्र}
४.२.३५ \ मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे
{सिद्धान्त-सूत्र}
४.२.३६ \ बुद्धेश्चैवं निमित्तसद्भावोपलम्भात्
{सिद्धान्त-सूत्र}
४.२.३७ \ तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः
{सिद्धान्त-सूत्र}

॥तत्त्वज्ञानविवृद्धिप्रकरणम् (३८-४९)॥
४.२.३८ \ समाधिविशेषाभ्यासात्
{सिद्धान्त-सूत्र}
४.२.३९ \ न, अर्थविशेषप्रावल्यात्
{पूर्वपक्ष-सूत्र}
४.२.४० \ क्षुदादिभिः प्रवर्तनाच्च
{पूर्वपक्ष-सूत्र}
४.२.४१ \ पूर्वकृतफलानुबन्धात् तदुत्पत्तिः
{सिद्धान्त-सूत्र}
४.२.४२ \ अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः
{सिद्धान्त-सूत्र}
४.२.४३ \ अपवर्गे ऽप्येवं प्रसङ्गः
{पूर्वपक्ष-सूत्र}
४.२.४४ \ न, निष्पन्नावश्यम्भावित्वात्
{सिद्धान्त-सूत्र}
४.२.४५ \ तदभावश्चापवर्गे
{सिद्धान्त-सूत्र}
४.२.४६ \ तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः
{सिद्धान्त-सूत्र}
४.२.४७ \ ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः
{सिद्धान्त-सूत्र}
४.२.४८ \ तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयो ऽर्थिभिरनसूयिभिरभ्युपेयात्
{सिद्धान्त-सूत्र}
४.२.४९ \ प्रतिपक्षहीनम् अपि वा प्रयोजनार्थमर्थित्वे

॥तत्त्वज्ञानपरिपालनप्रकरणम् (५०-५१)॥
४.२.५० \ तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत्
{सिद्धान्त-सूत्र}
४.२.५१ \ ताभ्यां विगृह्यकथनम्
{सिद्धान्त-सूत्र}

(इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयम् आह्निकम्)

(समाप्तश्च चतुर्थः अध्यायः)

(अथ पञ्चमः अध्यायः)
(प्रथमम् आह्निकम्)
॥सत्प्रतिपक्षदेशनाभासप्रकर्णम् (१-३)॥
५.१.१ \ साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रषङ्गप्रतिदृष्टान्तानुत्पत्ति-
संशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः
{सिद्धान्त-सूत्र}
५.१.२ \ साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ
{सिद्धान्त-सूत्र}
५.१.३ \ गोत्वाद् गोसिद्धिवत् तत्सिद्धिः
{सिद्धान्त-सूत्र}

॥उत्कर्षसमादिजातिषट्कप्रकरणम् (४-६)॥
५.१.४ \ साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः
{सिद्धान्त-सूत्र}
५.१.५ \ किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः
{सिद्धान्त-सूत्र}
५.१.६ \ साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः
{सिद्धान्त-सूत्र}

॥प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् (७-८)॥
५.१.७ \ प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ
{सिद्धान्त-सूत्र}
५.१.८ \ घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः
{सिद्धान्त-सूत्र}

॥प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम् (९-११)॥
५.१.९ \ दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ
{सिद्धान्त-सूत्र}
५.१.१० \ प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः
{सिद्धान्त-सूत्र}
५.१.११ \ प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः
{सिद्धान्त-सूत्र}

॥अनुत्पत्तिसमप्रकरणम् (१२-१३)॥
५.१.१२ \ प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः
{सिद्धान्त-सूत्र}
५.१.१३ \ तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः
{सिद्धान्त-सूत्र}


॥संशयसमप्रकरणम् (१४-१५)॥
५.१.१४ \ सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः
{सिद्धान्त-सूत्र}
५.१.१५ \ साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो 
नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः
{सिद्धान्त-सूत्र}

॥प्रकरणसमप्रकरणम् (१६-१७)॥
५.१.१६ \ उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः
{सिद्धान्त-सूत्र}
५.१.१७ \ प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः
{सिद्धान्त-सूत्र}

॥अहेतुसमप्रकरणम् (१८-२०)॥
५.१.१८ \ त्रैकाल्यासिद्धेर्हेतोरहेतुसमः
{सिद्धान्त-सूत्र}
५.१.१९ \ न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः
{सिद्धान्त-सूत्र}
५.१.२० \ प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः
{सिद्धान्त-सूत्र}

॥अर्थापत्तिसमप्रकरणम् (२१-२२)॥
५.१.२१ \ अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः
{सिद्धान्त-सूत्र}
५.१.२२ \ अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः
{सिद्धान्त-सूत्र}

॥अविशेषसमप्रकरणम् (२३-२४)॥
५.१.२३ \ एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्-
अविशेषसमः
{सिद्धान्त-सूत्र}
५.१.२४ \ क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः
{सिद्धान्त-सूत्र}

॥उअपपत्तिसमप्रकरणम् (२५-२६)॥
५.१.२५ \ उभयोकारणोपपत्तेरुपपत्तिसमः
{सिद्धान्त-सूत्र}
५.१.२६ \ उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः
{सिद्धान्त-सूत्र}

॥उपलब्धिसमप्रकरणम् (२७-२८)॥
५.१.२७ \ निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः
{सिद्धान्त-सूत्र}
५.१.२८ \ कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः
{सिद्धान्त-सूत्र}

॥अनुपलब्धिसमप्रकरणम् (२९-३१)॥
५.१.२९ \ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः
{सिद्धान्त-सूत्र}
५.१.३० \ अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः
{सिद्धान्त-सूत्र}
५.१.३१ \ ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम्
{सिद्धान्त-सूत्र}

॥अनित्यसमप्रकरणम् (३२-३४)
५.१.३२ \ साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः
{सिद्धान्त-सूत्र}
५.१.३३ \ साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च
{सिद्धान्त-सूत्र}
५.१.३४ \ दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः
{सिद्धान्त-सूत्र}

॥अनित्यसमप्रकरणम् (३५-३६)॥
५.१.३५ \ नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः
{सिद्धान्त-सूत्र}
५.१.३६ \ प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः
{सिद्धान्त-सूत्र}

॥कार्यसमप्रकरणम् (३७-३८)॥
५.१.३७ \ प्रयत्नकार्यानेकत्वात् कार्यसमः
{सिद्धान्त-सूत्र}
५.१.३८ \ कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः
{सिद्धान्त-सूत्र}

॥षट्पक्षीप्रकरणम् (३९-४०)॥
५.१.३९ \ प्रतिषेधे ऽपि समानदोषः
{सिद्धान्त-सूत्र}
५.१.४० \ सर्वत्रैवम्
{सिद्धान्त-सूत्र}
५.१.४१ \ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः
{सिद्धान्त-सूत्र}
५.१.४२ \ प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा
{सिद्धान्त-सूत्र}
५.१.४३ \ स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति
{सिद्धान्त-सूत्र}

(इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथमम् आह्निकम्)

(द्वितीयम् आह्निकम्)

५.२.१ \ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरम् अर्थान्तरं 
निरर्थकम् अविज्ञातार्थम् अपार्थकम् अप्राप्त कालं न्यूनम् अधिकं पुनरुक्तम् अननुभाषणम् 
अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगो ऽपसिद्धान्तो 
हेत्वा भासाश्च निग्रहस्थानानि
{निग्रहस्थान-उद्देश-सूत्रम्}

॥निग्रहस्थानपञ्चकप्रकरणम् (२-६)॥
५.२.२ \ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः
{प्रतिज्ञाहानिः लक्षण-सूत्रम्}
५.२.३ \ प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर.
{प्रतिज्ञान्तर-लक्षण-सूत्रम्}
५.२.४ \ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः
{प्रतिज्ञाविरोधः लक्षण-सूत्रम्}
५.२.५ \ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः
{प्रतिज्ञासन्न्यासः लक्षण-सूत्रम्}
५.२.६ \ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्
{हेत्वन्तरम् लक्षण-सूत्रम्}

॥निग्रहस्थानचतुष्कप्रकरणम् (७-१०)॥
५.२.७ \ प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम्
{अर्थान्तरम् लक्षण-सूत्रम्}
५.२.८ \ वर्णक्रमनिर्देशवन्निरर्थकम्
{निरर्थकम् लक्षण-सूत्रम्}
५.२.९ \ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्
{अविज्ञातार्थम् लक्षण-सूत्रम्}
५.२.१० \ पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्
{अपार्थकम् लक्षण-सूत्रम्}

॥निग्रहस्थानत्रिकप्रकरणम् (११-१३)॥
५.२.११ \ अवयवविपर्यासवचनमप्राप्तकालम्
{अप्राप्तकालम् लक्षण-सूत्रम्}
५.२.१२ \ हीनमन्यतमेनाप्यवयवेन न्यूनम्
{न्यूनम् लक्षण-सूत्रम्}
५.२.१३ \ हेतूदाहरणाधिकम् अधिकम्
{अधिकम् लक्षण-सूत्रम्}

॥पुनरुक्तिनिग्रहस्थानप्रकरणम् (१४-१६)॥
५.२.१४ \ शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात्
{पुनरुक्तम् लक्षण-सूत्रम्}
५.२.१५ \ अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः
{पुनरुक्तम् लक्षणापवादसूत्रम्}
५.२.१६ \ अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम्
{पुनरुक्तम् लक्षणापवादसूत्रम्}

॥उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम् (१७-२०)॥
५.२.१७ \ विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् अननुभाषणम्
{अननुभाषणम् लक्षण-सूत्रम्}
५.२.१८ \ अविज्ञातम् च अज्ञानम्
{अज्ञानम् लक्षण-सूत्रम्}
५.२.१९ \ उत्तरस्य अप्रतिपत्तिः अप्रतिभा
{अप्रतिभा लक्षण-सूत्रम्}
५.२.२० \ कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः
{विक्षेपः लक्षण-सूत्रम्}

॥मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम् (२१-२३)॥
५.२.२१ \ स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा
{मतानुज्ञा लक्षण-सूत्रम्}
५.२.२२ \ निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम्
{पर्यनुयोज्योपेक्षणम् लक्षण-सूत्रम्}
५.२.२३ \ अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः
{निरनुयोज्यानुयोग लक्षण-सूत्रम्}

॥कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम् (२४-२५)॥
५.२.२४ \ सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः
{अपसिद्धान्त लक्षण-सूत्रम्}
५.२.२५ \ हेत्वाभासाः च यथोक्ताः
{हेत्वाभास निरूपणम्}

(इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्)
(समाप्तश्चायम् पञ्चमाध्यायः)
न्यायदर्शनं समाप्तम्