कुमारसम्भव

 

॥१॥

अस्त्य् उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।

पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः॥१.१॥

 

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।

भास्वन्ति रत्नानि महौषधीश् च पृथूपदिष्टां दुदुहुर् धरित्रीम्॥१.२॥

 

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।

एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्व् इवाङ्कः॥१.३॥

 

यश् चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर् बिभर्ति ।

बलाहकच्छेदविभक्तरागाम् अकालसंध्याम् इव धातुमत्ताम्॥१.४॥

 

आमेखलं संचरतां घनानां च्छायाम् अधःसानुगतां निषेव्य ।

उद्वेजिता वृष्टिभिर् आश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः॥१.५॥

 

पदं तुषारस्रुतिधौतरक्तं यस्मिन्न् अदृष्ट्वापि हतद्विपानाम् ।

विदन्ति मार्गं नखरन्ध्रमुक्तैर् मुक्ताफलैः केसरिणां किराताः॥१.६॥

 

न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।

व्रजन्ति विद्याधरसुन्दरीणाम् अनङ्गलेखक्रिययोपयोगम्॥१.७॥

 

यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन ।

उद्गास्यताम् इच्छति किंनराणां तानप्रदायित्वम् इवोपगन्तुम्॥१.८॥

 

कपोलकण्डूः करिभिर् विनेतुं विघट्टितानां सरलद्रुमाणाम् ।

यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥१.९॥

 

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।

भवन्ति यत्रौषधयो रजन्याम् अतैलपूराः सुरतप्रदीपाः॥१.१०॥

 

उद्वेजयत्य् अङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमे ऽपि यत्र ।

न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिम् अश्वमुख्यः॥१.११॥

 

दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतम् इवान्धकारम् ।

क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वम् उच्चैःशिरसां सतीव॥१.१२॥

 

लाङ्गूलविक्षेपविसर्पिशोभैर् इतस् ततश् चन्द्रमरीचिगौरैः ।

यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश् चमर्यः॥१.१३॥

 

यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् ।

दरीगृहद्वारविलम्बिबिम्बास् तिरस्करिण्यो जलदा भवन्ति॥१.१४॥

 

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।

यद् वायुर् अन्विष्टमृगैः किरातैर् आसेव्यते भिन्नशिखण्डिबर्हः॥१.१५॥

 

सप्तर्षिहस्तावचितावशेषाण्य् अधो विवस्वान् परिवर्तमानः ।

पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्य् ऊर्ध्वमुखैर् मयूखैः॥१.१६॥

 

यज्ञाङ्गयोनित्वम् अवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।

प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयम् अन्वतिष्ठत्॥१.१७॥

 

स मानसीं मेरुसखः पित््णां कन्यां कुलस्य स्थितये स्थितिज्ञः ।

मेनां मुनीनाम् अपि माननीयाम् आत्मानुर्ऊपां विधिनोपयेमे॥१.१८॥

 

कालक्रमेणाथ तयोः प्रवृत्ते स्वर्ऊपयोग्ये सुरतप्रसङ्गे ।

मनोरमं यौवनम् उद्वहन्त्या गर्भो ऽभवद् भूधरराजपत्न्याः॥१.१९॥

 

असूत सा नागवधूपभोग्यं मैनाकम् अम्भोनिधिबद्धसख्यम् ।

क्रुद्धे ऽपि पक्षच्छिदि वृत्रशत्राव् अवेदनाज्ञं कुलिशक्षतानाम्॥१.२०॥

 

अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।

सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे॥१.२१॥

 

सा भूधराणाम् अधिपेन तस्यां समाधिमत्याम् उदपादि भव्या ।

सम्यक्प्रयोगाद् अपरिक्षतायां नीताव् इवोत्साहगुणेन संपत्॥१.२२॥

 

प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि ।

शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव॥१.२३॥

 

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।

विदूरभूमिर् नवमेघशब्दाद् उद्भिन्नया रत्नशलाकयेव॥१.२४॥

 

दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा ।

पुपोष लावण्यमयान् विशेषाञ् ज्योत्स्नान्तराणीव कलान्तराणि॥१.२५॥

 

तां पार्वतीत्य् आभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।

उ मेति मात्रा तपसो निषिद्धा पश्चाद् उमाख्यां सुमुखी जगाम॥१.२६॥

 

महीभृतः पुत्रवतो ऽपि दृष्टिस् तस्मिन्न् अपत्ये न जगाम तृप्तिम् ।

अनन्तपुष्पस्य मधोर् हि चूते द्विरेफमाला सविशेषसङ्गा॥१.२७॥

 

प्रभामहत्या शिखयेव दीपस् त्रिमार्गयेव त्रिदिवस्य मार्गः ।

संस्कारवत्येव गिरा मनीषी तया स पूतश् च विभूषितश् च॥१.२८॥

 

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश् च ।

रेमे मुहुर् मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये॥१.२९॥

 

तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तम् इवात्मभासः ।

स्थिरोपदेशाम् उपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः॥१.३०॥

 

असंभृतं मण्डनम् अङ्गयष्टेर् अनासवाख्यं करणं मदस्य ।

कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं साथ वयः प्रपेदे॥१.३१॥

 

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर् भिन्नम् इवारविन्दम् ।

बभूव तस्याश् चतुरस्रशोभि वपुर् विभक्तं नवयौवनेन॥१.३२॥

 

अभ्युन्नताङ्गुष्ठनखप्रभाभिर् निक्षेपणाद् रागम् इवोद्गिरन्तौ ।

आजह्रतुस् तच्चरणौ पृथिव्यां स्थलारविन्दश्रियम् अव्यवस्थाम्॥१.३३॥

 

सा राजहंसैर् इव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।

व्यनीयत प्रत्युपदेशलुब्धैर् आदित्सुभिर् नूपुरसिञ्जितानि॥१.३४॥

 

वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस् तदीये ।

शेषाङ्गनिर्माणविधौ विधातुर् लावण्य उत्पाद्य इवास यत्नः॥१.३५॥

 

नागेन्द्रहस्तास् त्वचि कर्कशत्वाद् एकान्तशैत्यात् कदलीविशेषाः ।

लब्ध्वापि लोके परिणाहि र्ऊपं जातास् तदूर्वोर् उपमानबाह्याः॥१.३६॥

 

एतावता नन्व् अनुमेयशोभं काञ्चीगुणस्थानम् अनिन्दितायाः ।

आरोपितं यद् गिरिशेन पश्चाद् अनन्यनारीकमनीयम् अङ्कम्॥१.३७॥

 

तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।

नीवीम् अतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेर् इवार्चिः॥१.३८॥

 

मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।

आरोहणार्थं नवयौवनेन कामस्य सोपानम् इव प्रयुक्तम्॥१.३९॥

 

अन्योन्यम् उत्पीडयद् उत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।

मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरम् अप्य् अलभ्यम्॥१.४०॥

 

शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाव् इति मे वितर्कः ।

पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन॥१.४१॥

 

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।

अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः॥१.४२॥

 

चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीम् अभिख्याम् ।

उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिम् अवाप लक्ष्मीः॥१.४३॥

 

पुष्पं प्रवालोपहितं यदि स्यान् मुक्ताफलं वा स्फुटविद्रुमस्थम् ।

ततो ऽनुकुर्याद् विशदस्य तस्यास् ताम्रौष्ठपर्यस्तरुचः स्मितस्य॥१.४४॥

 

स्वरेण तस्याम् अमृतस्रुतेव प्रजल्पितायाम् अभिजातवाचि ।

अप्य् अन्यपुष्टा प्रतिकूलशब्दा श्रोतुर् वितन्त्रीर् इव ताड्यमाना॥१.४५॥

 

प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या ।

तया गृहीतं नु मृगाङ्गनाभ्यस् ततो गृहीतं नु मृगाङ्गनाभिः॥१.४६॥

 

तस्याः शलाकाञ्जननिर्मितेव कान्तिर् भ्रुवोर् आनतलेखयोर् या ।

तां वीक्ष्य लीलाचतुराम् अनङ्गः स्वचापसौन्दर्यमदं मुमोच॥१.४७॥

 

लज्जा तिरश्चां यदि चेतसि स्याद् असंशयं पर्वतराजपुत्र्याः ।

तं केशपाशं प्रसमीक्ष्य कुर्युर् वालप्रियत्वं शिथिलं चमर्यः॥१.४८॥

 

सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन ।

सा निर्मिता विश्वसृजा प्रयत्नाद् एकस्थसौन्दर्यदिदृक्षयेव॥१.४९॥

 

तां नारदः कामचरः कदा चित् कन्यां किल प्रेक्ष्य पितुः समीपे ।

समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य॥१.५०॥

 

गुरुः प्रगल्भे ऽपि वयस्य् अतो ऽस्यास् तस्थौ निवृत्तान्यवराभिलाषः ।

ऋते कृशानोर् न हि मन्त्रपूतम् अर्हन्ति तेजांस्य् अपराणि हव्यम्॥१.५१॥

 

अयाचितारं न हि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक ।

अभ्यर्थनाभङ्गभयेन साधुर् माध्यस्थ्यम् इष्टे ऽप्य् अवलम्बते ऽर्थे॥१.५२॥

 

यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज ।

तदाप्रभृत्य् एव विमुक्तसङ्गः पतिः पशूनाम् अपरिग्रहो ऽभूत्॥१.५३॥

 

स कृत्तिवासास् तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।

प्रस्थं हिमाद्रेर् मृगनाभिगन्धि किं चित् क्वणत्किंनरम् अध्युवास॥१.५४॥

 

गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर् दधानाः ।

मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु॥१.५५॥

 

तुषारसंघातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान् ।

दृष्टः कथं चिद् गवयैर् विविग्नैर् असोढसिंहध्वनिर् उन्ननाद॥१.५६॥

 

तत्राग्निम् आधाय समित्समिद्धं स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः ।

स्वयं विधाता तपसः फलानाम् केनापि कामेन तपश् चचार॥१.५७॥

 

अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः स्वर्गौकसाम् अर्चितम् अर्चयित्वा ।

आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम्॥१.५८॥

 

प्रत्यर्थिभूताम् अपि तां समाधेः शुश्र्ऊषमाणां गिरिशो ऽनुमेने ।

विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः॥१.५९॥

 

अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ।

गिरिशम् उपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः॥१.६०॥

 

 

॥२॥

तस्मिन् विप्रकृताः काले तारकेण दिवौकसः ।

तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः॥२.१॥

 

तेषाम् आविर् अभूद् ब्रह्मा परिम्लानमुखश्रियाम् ।

सरसां सुप्तपद्मानां प्रातर् दीधितिमान् इव॥२.२,

 

अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।

वागीशं वाग्भिर् अर्थ्याभिः प्रणिपत्योपतस्थिरे॥२.३॥

 

नमस् त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।

गुणत्रयविभागाय पश्चाद् भेदम् उपेयुषे॥२.४॥

 

यद् अमोघम् अपाम् अन्तर् उप्तं बीजम् अज त्वया ।

अतश् चराचरं विश्वं प्रभवस् तस्य गीयसे॥२.५॥

 

तिसृभिस् त्वम् अवस्थाभिर् महिमानम् उदीरयन् ।

प्रलयस्थितिसर्गाणाम् एकः कारणतां गतः॥२.६॥

 

स्त्रीपुंसाव् आत्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।

प्रसूतिभाजः सर्गस्य ताव् एव पितरौ स्मृतौ॥२.७॥

 

स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।

यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ॥२.८॥

 

जगद्योनिर् अयोनिस् त्वं जगदन्तो निरन्तकः ।

जगदादिर् अनादिस् त्वं जगदीशो निरीश्वरः॥२.९॥

 

आत्मानम् आत्मना वेत्सि सृजस्य् आत्मानम् आत्मना ।

आत्मना कृतिना च त्वम् आत्मन्य् एव प्रलीयसे॥२.१०॥

 

द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर् गुरुः ।

व्यक्तो व्यक्तेतरश् चासि प्राकाम्यं ते विभूतिषु॥२.११॥

 

उद्घातः प्रणवो यासां न्यायैस् त्रिभिर् उदीरणम् ।

कर्म यज्ञः फलं स्वर्गस् तासां त्वं प्रभवो गिराम्॥२.१२॥

 

त्वाम् आमनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।

तद्दर्शिनम् उदासीनं त्वाम् एव पुरुषं विदुः॥२.१३॥

 

त्वं पित््णाम् अपि पिता देवानाम् अपि देवता ।

परतो ऽपि परश् चासि विधाता वेधसाम् अपि॥२.१४॥

 

त्वम् एव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।

वेद्यं च वेदिता चासि ध्याता ध्येयं च यत् परम्॥२.१५॥

 

इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।

प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः॥२.१६॥

 

पुराणस्य कवेस् तस्य चतुर्मुखसमीरिता ।

प्रवृत्तिर् आसीच् छब्दानां चरितार्था चतुष्टयी॥२.१७॥

 

स्वागतं स्वान् अधीकारान् प्रभावैर् अवलम्ब्य वः ।

युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः॥२.१८॥

 

किम् इदं द्युतिम् आत्मीयां न बिभ्रति यथा पुरा ।

हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः॥२.१९॥

 

प्रशमाद् अर्चिषाम् एतद् अनुद्गीर्णसुरायुधम् ।

वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते॥२.२०॥

 

किं चायम् अरिदुर्वारः पाणौ पाशः प्रचेतसः ।

मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः॥२.२१॥

 

कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।

अपविद्धगदो बाहुर् भग्नशाख इव द्रुमः॥२.२२॥

 

यमो ऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।

कुरुते ऽस्मिन्न् अमोघे ऽपि निर्वाणालातलाघवम्॥२.२३॥

 

अमी च कथम् आदित्याः प्रतापक्षतिशीतलाः ।

चित्रन्यस्ता इव गताः प्रकामालोकनीयताम्॥२.२४॥

 

पर्याकुलत्वान् मरुतां वेगभङ्गो ऽनुमीयते ।

अम्भसाम् ओघसंरोधः प्रतीपगमनाद् इव॥२.२५॥

 

आवर्जितजटामौलि- विलम्बिशशिकोटयः ।

रुद्राणाम् अपि मूर्धानः क्षतहुंकारशंसिनः॥२.२६॥

 

लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।

अपवादैर् इवोत्सर्गाः कृतव्यावृत्तयः परैः॥२.२७॥

 

तद् ब्र्ऊत वत्साः किम् इतः प्रार्थयध्वे समागताः ।

मयि सृष्टिर् हि लोकानां रक्षा युष्मास्व् अवस्थिता॥२.२८॥

 

ततो मन्दानिलोद्धूत- कमलाकरशोभिना ।

गुरुं नेत्रसहस्रेण चोदयाम् आस वासवः॥२.२९॥

 

स द्विनेत्रो हरेश् चक्षुः सहस्रनयनाधिकम् ।

वाचस्पतिर् उवाचेदं प्राञ्जलिर् जलजासनम्॥२.३०॥

 

एवं यद् आत्थ भगवन्न् आमृष्टं नः परैः पदम् ।

प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो॥२.३१॥

 

भवल्लब्धवरोदीर्णस् तारकाख्यो महासुरः ।

उपप्लवाय लोकानां धूमकेतुर् इवोत्थितः॥२.३२॥

 

पुरे तावन्तम् एवास्य तनोति रविर् आतपम् ।

दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते॥२.३३॥

 

सर्वाभिः सर्वदा चन्द्रस् तं कलाभिर् निषेवते ।

नादत्ते केवलां लेखां हरचूडामणीकृताम्॥२.३४॥

 

व्यावृत्तगतिर् उद्याने कुसुमस्तेयसाध्वसात् ।

न वाति वायुस् तत्पार्श्वे तालवृन्तानिलाधिकम्॥२.३५॥

 

पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः ।

उद्यानपालसामान्यम् ऋतवस् तम् उपासते॥२.३६॥

 

तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।

कथम् अप्य् अम्भसाम् अन्तर् आ निष्पत्तेः प्रतीक्षते॥२.३७॥

 

ज्वलन्मणिशिखाश् चैनं वासुकिप्रमुखा निशि ।

स्थिरप्रदीपताम् एत्य भुजंगाः पर्युपासते॥२.३८॥

 

ग्Qर्जोVQVप्च् RCQCfUL।।प्ज्NEच्\\\\ मुहुर् दूतहारितैः ।??

अनुकूलयतीन्द्रो ऽपि कल्पद्रुमविभूषणैः॥२.३९॥

 

इत्थम् आराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् ।

शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः॥२.४०॥

 

तेनामरवधूहस्तैः सदयालूनपल्लवाः ।

अभिज्ञाश् छेदपातानां क्रियन्ते नन्दनद्रुमाः॥२.४१॥

 

वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।

चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः॥२.४२॥

 

उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।

आक्रीडपर्वतास् तेन कल्पिताः स्वेषु वेश्मसु॥२.४३॥

 

मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् ।

हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम्॥२.४४॥

 

भुवनालोकनप्रीतिः स्वर्गिभिर् नानुभूयते ।

खिलीभूते विमानानां तदापातभयात् पथि॥२.४५॥

 

यज्वभिः संभृतं हव्यं विततेष्व् अध्वरेषु सः ।

जातवेदोमुखान् मायी मिषताम् आच्छिनत्ति नः॥२.४६॥

 

उच्चैर् उच्चैःश्रवास् तेन हयरत्नम् अहारि च ।

देहबद्धम् इवेन्द्रस्य चिरकालार्जितं यशः॥२.४७॥

 

तस्मिन्न् उपायाः सर्वे नः क्र्ऊरे प्रतिहतक्रियाः ।

वीर्यवत्य् औषधानीव विकारे सांनिपातिके॥२.४८॥

 

जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।

हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः॥२.४९॥

 

तदीयास् तोयदेष्व् अद्य पुष्करावर्तकादिषु ।

अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः॥२.५०॥

 

तद् इच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये ।

कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः॥२.५१॥

 

गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।

प्रत्यानेष्यति शत्रुभ्यो बन्दीम् इव जयश्रियम्॥२.५२॥

 

वचस्य् अवसिते तस्मिन् ससर्ज गिरम् आत्मभूः ।

गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या॥२.५३॥

 

संपत्स्यते वः कामो यं कालः कश्चित् प्रतीक्ष्यताम् ।

न त्व् अस्य सिद्धौ यास्यामि सर्गव्यापारम् आत्मना॥२.५४॥

 

इतः स दैत्यः प्राप्तश्रीर् नेत एवार्हति क्षयम् ।

विषवृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असांप्रतम्॥२.५५॥

 

वृतं तेनेदम् एव प्राङ् मया चास्मै प्रतिश्रुतम् ।

वरेण शमितं लोकान् अलं दग्धुं हि तत्तपः॥२.५६॥

 

संयुगे सांयुगीनं तम् उद्यतं प्रसहेत कः ।

अंशाद् ऋते निषिक्तस्य नीललोहितरेतसः॥२.५७॥

 

स हि देवः परं ज्योतिस् तमःपारे व्यवस्थितम् ।

परिच्छिन्नप्रभावर्द्धिर् न मया न च विष्णुना॥२.५८॥

 

उमार्ऊपेण ते यूयं संयमस्तिमितं मनः ।

शंभोर् यतध्वम् आक्रष्टुम् अयस्कान्तेन लोहवत्॥२.५९॥

 

उभे एव क्षमे वोढुम् उभयोर् वीर्यम् आहितनसंनिकृष्टम् इतो निषीदेति विसृष्टभूमिः ।अ॥२.६०॥

 

तस्यात्मा शितिकण्ठस्य सैनापत्यम् उपेत्य वः ।

मोक्ष्यते सुरबन्दीनां वेणीर् वीर्यविभूतिभिः॥२.६१॥

 

इति व्याहृत्य विबुधान् विश्वयोनिस् तिरोदधे ।

मनस्य् आहितकर्तव्यास् ते ऽपि प्रतिययुर् दिवम्॥२.६२॥

 

तत्र निश्चित्य कन्दर्पम् अगमत् पाकशासनः ।

मनसा कार्यसंसिद्धि- त्वराद्विगुणरंहसा॥२.६३॥

 

अथ स ललितयोषिद्भ्र्ऊलताचारुशृङ्गं रतिवलयपदाङ्के चापम् आसज्य कण्ठे ।

सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा॥२.६४॥

 

 

॥३॥

तस्मिन् मघोनस् त्रिदशान् विहाय सहस्रम् अक्ष्णां युगपत् पपात ।

प्रयोजनापेक्षितया प्रभूणां प्रायश् चलं गौरवम् आश्रितेषु॥३.१॥

 

स वासवेनासनसंनिकृष्टम् इतो निषीदेति विसृष्टभूमिः ।

भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवम् एनम्॥३.२॥

 

आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत् ते करणीयम् अस्ति ।

अनुग्रहं संस्मरणप्रवृत्तम् इच्छामि संवर्धितम् आज्ञया ते॥३.३॥

 

केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर् जनिता तपोभिः ।

यावद् भवत्य् आहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती॥३.४॥

 

असंमतः कस् तव मुक्तिमार्गं पुनर्भवक्लेशभयात् प्रपन्नः ।

बद्धश् चिरं तिष्ठतु सुन्दरीणाम् आरेचितभ्र्ऊचतुरैः कटाक्षैः॥३.५॥

 

अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर् द्विषस् ते ।

कस्यार्थधर्मौ वद पीडयामि सिन्धोस् तटाव् ओघ इव प्रवृद्धः॥३.६॥

 

काम् एकपत्नीव्रतदुःखशीलां लोलं मनश् चारुतया प्रविष्टाम् ।

नितम्बिनीम् इच्छसि मुक्तलज्जां कण्ट्ःए स्वयंग्राहनिषक्तबाहुम्॥३.७॥??

 

कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः ।

यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम्॥३.८॥

 

प्रसीद विश्राम्यतु वीर वज्रं शरैर् मदीयैः कतमः सुरारिः ।

बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्यो ऽपि कोपस्फुरिताधराभ्यः॥३.९॥

 

तव प्रसादात् कुसुमायुधो ऽपि सहायम् एकं मधुम् एव लब्ध्वा ।

कुर्यां हरस्यापि पिनाकपाणेर् धैर्यच्युतिं के मम धन्विनो ऽन्ये॥३.१०॥

 

अथोरुदेशाद् अवतार्य पादम् आक्रान्तिसंभावितपादपीठम् ।

संकल्पिथार्थे विवृतात्मशक्तिम् आखण्डलः कामम् इदं बभाषे॥३.११॥

 

सर्वं सखे त्वय्य् उपपन्नम् एतद् उभे ममास्त्रे कुलिशं भवांश् च ।

वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं त्वं सर्वतोगामि च साधकं च॥३.१२॥??

 

अवैमि ते सारम् अतः खलु त्वां कार्ये गुरुण्य् आत्मसमं नियोक्ष्ये ।

व्यादिश्यते भूधरताम् अवेक्ष्य कृष्णेन देहोद्वहनाय शेषः॥३.१३॥

 

आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।

निबोध यज्ञांशभुजाम् इदानीम् उच्चैर्द्विषाम् ईप्सितम् एतद् एव॥३.१४॥

 

अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यम् उशन्ति देवाः ।

स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर् ब्रह्मणि योजितात्मा॥३.१५॥

 

तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।

योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्य् आत्मभुवोपदिष्टम्॥३.१६॥

 

गुरोर् नियोगाच् च नगेन्द्रकन्या स्थाणुं तपस्यन्तम् अधित्यकायाम् ।

अन्वास्त इत्य् अप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः॥३.१७॥

 

तद् गच्छ सिद्ध्यै कुरु देवकार्यम् अर्थो ऽयम् अर्थान्तरभाव्य एव ।

अपेक्षते प्रत्ययम् उत्तमं त्वां बीजाङ्कुरः प्राग् उदयाद् इवाम्भः॥३.१८॥

 

तस्मिन् सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।

अप्य् अप्रसिद्धं यशसे हि पुंसाम् अनन्यसाधारणम् एव कर्म॥३.१९॥

 

सुराः समभ्यर्थयितार एते कार्यं त्रयाणाम् अपि विष्टपानाम् ।

चापेन ते कर्म न चातिहिंस्रम् अहो बतासि स्पृहणीयवीर्यः॥३.२०॥

 

मधुश् च ते मन्मथ साहचर्याद् आसव् अनुक्तो ऽपि सहाय एव ।

समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य॥३.२१॥

 

तथेति शेषाम् इव भर्तुर् आज्ञाम् आदाय मूर्ध्ना मदनः प्रतस्थे ।

ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गम् इन्द्रः॥३.२२॥

 

स माधवेनाभिमतेन सख्या रत्या च साशङ्कम् अनुप्रयातः ।

अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम॥३.२३॥

 

तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।

संकल्पयोनेर् अभिमानभूतम् आत्मानम् आधाय मधुर् जजृम्भे॥३.२४॥

 

कुबेरगुप्तां दिशम् उष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।

दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासम् इवोत्ससर्ज॥३.२५॥

 

असूत सद्यः कुसुमान्य् अशोकः स्कन्धात् प्रभृत्य् एव सपल्लवानि ।

पादेन नापैक्षत सुन्दरीणां संपर्कम् आसिञ्जितनूपुरेण॥३.२६॥

 

सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे ।

निवेशयाम् आस मधुर् द्विरेफान् नामाक्षराणीव मनोभवस्य॥३.२७॥

 

वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।

प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः॥३.२८॥

 

बालेन्दुवक्राण्य् अविकासभावाद् बभुः पलाशान्य् अतिलोहितानि ।

सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥३.२९॥

 

लग्नद्विरेफाञ्जनभक्तिचित्रम् मुखे मधुश्रीस् तिलकं प्रकाश्य ।

रागेण बालारुणकोमलेन चूतप्रवालोष्ठम् अलंचकार॥३.३०॥

 

मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर् विघ्नितदृष्टिपाताः ।

मदोद्धताः प्रत्यनिलं विचेरुर् वनस्थलीर् मर्मरपत्रमोक्षाः॥३.३१॥

 

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन् मधुरं चुकूज ।

मनस्विनीमानविघातदक्षं तद् एव जातं वचनं स्मरस्य॥३.३२॥

हिमव्यपायाद् विशदाधराणाम् आपाण्डुरीभूतमुखच्छवीनाम् ।

स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु॥३.३३॥

 

तपस्विनः स्थाणुवनौकसस् ताम् आकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।

प्रयत्नसंस्तम्भितविक्रियाणां कथं चिद् ईशा मनसां बभूवुः॥३.३४॥

 

तं देशम् आरोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।

काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः॥३.३५॥

 

मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वाम् अनुवर्तमानः ।

शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीम् अकण्डूयत कृष्णसारः॥३.३६॥

 

ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।

अर्धोपभुक्तेन बिसेन जायां संभावयाम् आस रथाङ्गनामा॥३.३७॥

 

गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रलेखम् ।

पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश् चुचुम्बे॥३.३८॥

 

पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः ।

लतावधूभ्यस् तरवो ऽप्य् अवापुर् विनम्रशाखाभुजबन्धनानि॥३.३९॥

 

श्रुताप्सरोगीतिर् अपि क्षणे ऽस्मिन् हरः प्रसंख्यानपरो बभूव ।

आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति॥३.४०॥

 

लतागृहद्वारगतो ऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।

मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत्॥३.४१॥

 

निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।

तच्छासनात् काननम् एव सर्वं चित्रार्पितारम्भम् इवावतस्थे॥३.४२॥

 

दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रम् इव प्रयाणे ।

प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर् विवेश॥३.४३॥

 

स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।

आसीनम् आसन्नशरीरपातस् त्र्यम्बकं संयमिनं ददर्श॥३.४४॥

 

पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोभयांसम् ।

उत्तानपाणिद्वयसंनिवेशात् प्रफुल्लराजीवम् इवाङ्कमध्ये॥३.४५॥

 

भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।

कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम्॥३.४६॥

 

किंचित्प्रकाशस्तिमितोग्रतारैर् भ्र्ऊविक्रियायां विरतप्रसङ्गैः ।

नेत्रैर् अविस्पन्दितपक्ष्ममालैर् लक्ष्यीकृतघ्राणम् अधोमयूखैः॥३.४७॥

 

अवृष्टिसंरम्भम् इवाम्बुवाहम् अपाम् इवाधारम् अनुत्तरङ्गम् ।

अन्तश्चराणां मरुतां निरोधान् निवातनिष्कम्पम् इव प्रदीपम्॥३.४८॥

 

कपालनेत्रान्तरलब्धमार्गैर् ज्योतिःप्ररोहैर् उदितैः शिरस्तः ।

मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तम् इन्दोः॥३.४९॥

 

मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।

यम् अक्षरं क्षेत्रविदो विदुस् तम् आत्मानम् आत्मन्य् अवलोकयन्तम्॥३.५०॥

 

स्मरस् तथाभूतम् अयुग्मनेत्रं पश्यन्न् अदूरान् मनसाप्य् अधृष्यम् ।

नालक्षयत् साध्वससन्नहस्तः स्रस्तं शरं चापम् अपि स्वहस्तात्॥३.५१॥

 

निर्वाणभूयिष्ठम् अथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन ।

अनुप्रयाता वनदेवताभ्याम् अदृश्यत स्थावरराजकन्या॥३.५२॥

 

अशोकनिर्भर्त्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारम् ।

मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती॥३.५३॥

 

आवर्जिता किं चिद् इव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।

पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव॥३.५४॥

 

स्रस्तां नितम्बाद् अवलम्बमाना पुनः-पुनः केसरदामकाञ्चीम् ।

न्यासीकृतां स्थानविदा स्मरेण मौर्वीं द्वितीयाम् इव कार्मुकस्य॥३.५५॥

 

सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।

प्रतिक्षणं संभ्रमलोलदृष्टिर् लीलारविन्देन निवारयन्ती॥३.५६॥

 

तां वीक्ष्य सर्वावयवानवद्यां रतेर् अपि ह्रीपदम् आदधानाम् ।

जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनर् आशशंसे॥३.५७॥

 

भविष्यतः पत्युर् उमा च शंभोः समाससाद प्रतिहारभूमिम् ।

योगात् स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिर् उपारराम॥३.५८॥

 

ततो भुजंगाधिपतेः फणाग्रैर् अधः कथं चिद् धृतभूमिभागः ।

शनैः कृतप्राणविमुक्तिर् ईशः पर्यङ्कबन्धं निबिडं बिभेद॥३.५९॥

 

तस्मै शशंस प्रणिपत्य नन्दी शुश्र्ऊषया शैलसुताम् उपेताम् ।

प्रवेशयाम् आस च भर्तुर् एनां भ्र्ऊक्षेपमात्रानुमतप्रवेशाम्॥३.६०॥

 

तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य ।

व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः॥३.६१॥

 

उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् ।

चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय॥३.६२॥

 

अनन्यभाजं पतिम् आप्नुहीति सा तथ्यम् एवाभिहिता भवेन ।

न हीश्वरव्याहृतयः कदा चित् पुष्यन्ति लोके विपरीतम् अर्थम्॥३.६३॥

 

कामस् तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः ।

उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुर् आममर्श॥३.६४॥

 

अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।

विशोषितां भानुमतो मयूखैर् मन्दाकिनीपुष्करबीजमालाम्॥३.६५॥

 

प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस् ताम् उपचक्रमे च ।

संमोहनं नाम च पुष्पधन्वा धनुष्य् अमोघं समधत्त बाणम्॥३.६६॥

 

हरस् तु किंचित्परिलुप्तधैर्यश् चन्द्रोदयारम्भ इवाम्बुराशिः ।

उमामुखे बिम्बफलाधरोष्ठे व्यापारयाम् आस विलोचनानि॥३.६७॥

 

विवृण्वती शैलसुतापि भावम् अङ्गैः स्फुरद्बालकदम्बकल्पैः ।

साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥३.६८॥

 

अथेन्द्रियक्षोभम् अयुग्मनेत्रः पुनर् वशित्वाद् बलवन् निगृह्य ।

हेतुं स्वचेतोविकृतेर् दिदृक्षुर् दिशाम् उपान्तेषु ससर्ज दृष्टिम्॥३.६९॥

 

स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसम् आकुञ्चितसव्यपादम् ।

ददर्श चक्रीकृतचारुचापं प्रहर्तुम् अभ्युद्यतम् आत्मयोनिम्॥३.७०॥

 

तपःपरामर्शविवृद्धमन्योर् भ्र्ऊभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।

स्फुरन्न् उदर्चिः सहसा तृतीयाद् अक्ष्णः कृशानुः किल निष्पपात॥३.७१॥

 

क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।

तावत् स वह्निर् भवनेत्रजन्मा भस्मावशेषं मदनं चकार॥३.७२॥

 

तीव्राभिषङ्गप्रभवेण वृत्तिम् मोहेन संस्तम्भयतेन्द्रियाणाम् ।

अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर् बभूव॥३.७३॥

 

तम् आशु विघ्नं तपसस् तपस्वी वनस्पतिं वज्र इवावभज्य ।

स्त्रीसंनिकर्षं परिहर्तुम् इच्छन्न् अन्तर्दधे भूतपतिः सभूतः॥३.७४॥

 

शैलात्मजापि पितुर् उच्छिरसो ऽभिलाषं व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च ।

सख्योः समक्षम् इति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथं चित्॥३.७५॥

 

सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरम् अनुकम्प्याम् अद्रिर् आदाय दोर्भ्याम् ।

सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिर् आसीद् वेगदीर्घीकृताङ्गः॥३.७६॥

 

 

॥४॥

अथ मोहपरायणा सती विवशा कामवधूर् विबोधिता ।

विधिना प्रतिपादयिष्यता नववैधव्यम् असह्यवेदनम्॥४.१॥

 

अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।

न विवेद तयोर् अतृप्तयोः प्रियम् अत्यन्तविलुप्तदर्शनम्॥४.२॥

 

अयि जीवितनाथ जीवसीत्य् अभिधायोत्थितया तया पुरः ।

ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम्॥४.३॥

 

अथ सा पुनर् एव विह्वला वसुधालिङ्गनधूसरस्तनी ।

विललाप विकीर्णमूर्धजा समदुःखाम् इव कुर्वती स्थलीम्॥४.४॥

 

उपमानम् अभूद् विलासिनां करणं यत् तव कान्तिमत्तया ।

तद् इदं गतम् ईदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥४.५॥

 

क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।

नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः॥४.६॥

 

कृतवान् असि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।

किम् अकारणम् एव दर्शनं विलपन्त्यै रतये न दीयते॥४.७॥

 

स्मरसि स्मर मेखलागुणैर् उत गोत्रस्खलितेषु बन्धनम् ।

च्युतकेशरदूषितेक्षणान्य् अवतंसोत्पलताडनानि वा॥४.८॥

 

हृदये वससीति मत्प्रियं यद् अवोचस् तद् अवैमि कैतवम् ।

उपचारपदं न चेद् इदं त्वम् अनङ्गः कथम् अक्षता रतिः॥४.९॥

 

परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीम् अहं तव ।

विधिना जन एष वञ्चितस् त्वदधीनं खलु देहिनां सुखम्॥४.१०॥

 

रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।

वसतिं प्रिय कामिनां प्रियास् त्वद् ऋते प्रापयितुं क ईश्वरः॥४.११॥

 

नयनान्य् अरुणानि घूर्णयन् वचनानि स्खलयन् पदे-पदे ।

असति त्वयि वारुणीमदः प्रमदानाम् अधुना विडम्बना॥४.१२॥

 

अवगम्य कथीकृतं वपुः प्रियबन्धोस् तव निष्फलोदयः ।

बहुले ऽपि गते निशाकरस् तनुतां दुःखम् अनङ्ग मोक्ष्यति॥४.१३॥

 

हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।

वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति॥४.१४॥

 

अलिपङ्क्तिर् अनेकशस् त्वया गुणकृत्ये धनुषो नियोजिता ।

विरुतैः करुणस्वनैर् इयं गुरुशोकाम् अनुरोदितीव माम्॥४.१५॥

 

प्रतिपद्य मनोहरं वपुः पुनर् अप्य् आदिश तावद् उत्थितः ।

रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम्॥४.१६॥

 

शिरसा प्रणिपत्य याचितान्य् उपगूढानि सवेपथूनि च ।

सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिर् अस्ति मे॥४.१७॥

 

रचितं रतिपण्डित त्वया स्वयम् अङ्गेषु ममेदम् आर्तवम् ।

ध्रियते कुसुमप्रसाधनं तव तच् चारु वपुर् न दृश्यते॥४.१८॥

 

विबुधैर् असि यस्य दारुणैर् असमाप्ते परिकर्मणि स्मृतः ।

तम् इमं कुरु दक्षिणेतरं चरणं निर्मितरागम् एहि मे॥४.१९॥

 

अहम् एत्य पतङ्गवर्त्मना पुनर् अङ्काश्रयिणी भवामि ते ।

चतुरैः सुरकामिनीजनैः प्रिय यावन् न विलोभ्यसे दिवि॥४.२०॥

 

मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।

वचनीयम् इदं व्यवस्थितं रमण त्वाम् अनुयामि यद्य् अपि॥४.२१॥

 

क्रियतां कथम् अन्त्यमण्डनं परलोकान्तरितस्य ते मया ।

समम् एव गतो ऽस्य् अतर्कितां गतिम् अङ्गेन च जीवितेन च॥४.२२॥

 

ऋजुतां नयतः स्मरामि ते शरम् उत्सङ्गनिषण्णधन्वनः ।

मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत्॥४.२३॥

 

क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।

न खलूग्ररुषा पिनाकिना गमितः सो ऽपि सुहृद्गतां गतिम्॥४.२४॥

 

अथ तैः परिदेविताक्षरैर् हृदये दिग्धशरैर् इवार्दितः ।

रतिम् अभ्युपपत्तुम् आतुरां मधुर् आत्मानम् अदर्शयत् पुरः॥४.२५॥

 

तम् अवेक्ष्य रुरोद सा भृशं स्तनसंबाधम् उरो जघान च ।

स्वजनस्य हि दुःखम् अग्रतो विवृतद्वारम् इवोपजायते॥४.२६॥

 

इति चैनम् उवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् ।

यद् इदं कणशः प्रकीर्यते पवनैर् भस्म कपोतकर्बुरम्॥४.२७॥

 

अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः ।

दयितास्व् अनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने॥४.२८॥

 

अमुना ननु पार्श्ववर्तिना जगद् आज्ञां ससुरासुरं तव ।

बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः॥४.२९॥

 

गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।

अहम् अस्य दशेव पश्य माम् अविषह्यव्यसनप्रधूषिताम्॥४.३०॥

 

विधिना कृतम् अर्धवैशसं ननु माम् कामवधे विमुञ्चता ।

अनघापि हि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी॥४.३१॥

 

तद् इदं क्रियताम् अनन्तरं भवता बन्धुजनप्रयोजनम् ।

विधुरां ज्वलनातिसर्जनान् ननु मां प्रापय पत्युर् अन्तिकम्॥४.३२॥

 

शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते ।

प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैर् अपि॥४.३३॥

 

अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।

नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ॥४.३४॥

 

कुसुमास्तरणे सहायतां बहुशः सौम्य गतस् त्वम् आवयोः ।

कुरु संप्रति तावद् आशु मे प्रणिपाताञ्जलियाचितश् चिताम्॥४.३५॥

 

तद् अनु ज्वलनं मदर्पितं त्वरयेर् दक्षिणवातवीजनैः ।

विदितं खलु ते यथा स्मरः क्षणम् अप्य् उत्सहते न मां विना॥४.३६॥

 

इति चापि विधाय दीयतां सलिलस्याञ्जलिर् एक एव नौ ।

अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः॥४.३७॥

 

परलोकविधौ च माधव स्मरम् उद्दिश्य विलोलपल्लवाः ।

निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा॥४.३८॥

 

इति देवविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती ।

शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिर् इवान्वकम्पत॥४.३९॥

 

कुसुमायुधपत्नि दुर्लभस् तव भर्ता न चिराद् भविष्यति ।

शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि॥४.४०॥

 

अभिलाषम् उदीरितेन्द्रियः स्वसुतायाम् अकरोत् प्रजापतिः ।

अथ तेन निगृह्य विक्रियाम् अभिशप्तः फलम् एतद् अन्वभूत्॥४.४१॥

 

परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।

उपलब्धसुखस् तदा स्मरं वपुषा स्वेन नियोजयिष्यति॥४.४२॥

 

इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् ।

अशनेर् अमृतस्य चोभयोर् वशिनश् चाम्बुधराश् च योनयः॥४.४३॥

 

तद् इदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः ।

रविपीतजला तपात्यये पुनर् ओघेन हि युज्यते नदी॥४.४४॥

 

इत्थं रतेः किम् अपि भूतम् अदृश्यर्ऊपं मन्दीचकार मरणव्यवसायबुद्धिम् ।

तत्प्रत्ययाच् च कुसुमायुधबन्धुर् एनाम् आश्वासयत् सुचरितार्थपदैर् वचोभिः॥४.४५॥

 

अथ मदनवधूर् उपप्लवान्तं व्यसनकृशा परिपालयां बभूव ।

शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम्॥४.४६॥

 

 

॥५॥

तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।

निनिन्द र्ऊपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता॥५.१॥

 

इयेष सा कर्तुम् अवन्ध्यर्ऊपतां समाधिम् आस्थाय तपोभिर् आत्मनः ।

अवाप्यते वा कथम् अन्यथा द्वयं तथाविधं प्रेम पतिश् च तादृशः॥५.२॥

 

निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् ।

उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात्॥५.३॥

 

मनीषिताः सन्ति गृहे ऽपि देवतास् तपः क्व वत्से क्व च तावकं वपुः ।

पदं सहेत भ्रमरस्य पेलवं शिरीशपुष्पं न पुनः पतत्रिणः॥५.४॥

 

इति ध्रुवेच्छाम् अनुशासती सुतां शशाक मेना न नियन्तुम् उद्यमात् ।

क ईप्सितार्थस्थिरनिश्चयं मनः पयश् च निम्नाभिमुखं प्रतीपयेत्॥५.५॥

 

कदा चिद् आसन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी ।

अयाचतारण्यनिवासम् आत्मनः फलोदयान्ताय तपःसमाधये॥५.६॥

 

अथानुर्ऊपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।

प्रजासु पश्चात् प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत्॥५.७॥

 

विमुच्य सा हारम् अहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।

बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति॥५.८॥

 

यथा प्रसिद्धैर् मधुरं शिरोरुहैर् जटाभिर् अप्य् एवम् अभूत् तदाननम् ।

न शट्पदश्रेणिभिर् एव पङ्कजं सशैवलासङ्गम् अपि प्रकाशते॥५.९॥

 

प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।

अकारि तत्पूर्वनिबद्धया तया सरागम् अस्या रसनागुणास्पदम्॥५.१०॥

 

विसृष्टरागाद् अधरान् निवर्तितः स्तनाङ्गरागारुणिताच् च कन्दुकात् ।

कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतो ऽक्षसूत्रप्रणयी तया करः॥५.११॥

 

महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैर् अपि या स्म दूयते ।

अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले॥५.१२॥

 

पुनर् ग्रहीतुं नियमस्थया तया द्वये ऽपि निक्षेप इवार्पितम् द्वयम् ।

लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च॥५.१३॥

 

अतन्द्रिता सा स्वयम् एव वृक्षकान् घटस्तनप्रस्रवणैर् व्यवर्धयत् ।

गुहो ऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यम् अपाकरिष्यति॥५.१४॥

 

अरण्यबीजाञ्जलिदानलालितास् तथा च तस्यां हरिणा विशश्वसुः ।

यथा तदीयैर् नयनैः कुतूहलात् पुरः सखीनाम् अमिमीत लोचने॥५.१५॥

 

कृताभिशेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीम् अधीतिनीम् ।

दिग्दृक्षवस् ताम् ऋषयो ऽभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते॥५.१६॥

 

विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैर् अभीष्टप्रसवार्चितातिथि ।

नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच् च बभूव पावनम्॥५.१७॥

 

यदा फलं पूर्वतपःसमाधिना न तावता लभ्यम् अमंस्त काङ्क्षितम् ।

तदानपेक्ष्य स्वशरीरमार्दवं तपो महत् सा चरितुं प्रचक्रमे॥५.१८॥

 

क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत ।

ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारम् एव च॥५.१९॥

 

शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।

विजित्य नेत्रप्रतिघातिनीं प्रभाम् अनन्यदृष्टिः सवितारम् ऐक्षत॥५.२०॥

 

तथाभितप्तं सवितुर् गभस्तिभिर् मुखं तदीयं कमलश्रियं दधौ ।

अपाङ्गयोः केवलम् अस्य दीर्घयोः शनैः-शनैः श्यामिकया कृतं पदम्॥५.२१॥

 

अयाचितोपस्थितम् अम्बु केवलं रसात्मकस्योडुपतेश् च रश्मयः ।

बभूव तस्याः किल पारणाविधिर् न वृक्षवृत्तिव्यतिरिक्तसाधनः॥५.२२॥

 

निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च ।

तपात्यये वारिभिर् उक्षिता नवैर् भुवा सहोष्माणम् अमुञ्चद् ऊर्ध्वगम्॥५.२३॥

 

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।

वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः॥५.२४॥

 

शिलाशयां ताम् अनिकेतवासिनीं निरन्तरास्व् अन्तरवातवृष्टिषु ।

व्यलोकयन्न् उन्मिषितैस् तडिन्मयैर् महातपःसाक्ष्य इव स्थिताः क्षपाः॥५.२५॥

 

निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीर् उदवासतत्परा ।

परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती॥५.२६॥

 

मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना ।

तुषारवृष्टिक्षतपद्मसंपदां सरोजसंधानम् इवाकरोद् अपाम्॥५.२७॥

 

स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस् तया पुनः ।

तद् अप्य् अपाकीर्णम् अतः प्रियंवदां वदन्त्य् अपर्णेति च तां पुराविदः॥५.२८॥

 

मृणालिकापेलवम् एवमादिभिर् व्रतैः स्वम् अङ्गं ग्लपयन्त्य् अहर्निशम् ।

तपः शरीरैः कठिनैर् उपार्जितं तपस्विनां दूरम् अधश् चकार सा॥५.२९॥

 

अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्न् इव ब्रह्ममयेन तेजसा ।

विवेश कश्चिज् जटिलस् तपोवनं शरीरबद्धः प्रथमाश्रमो यथा॥५.३०॥

 

तम् आतिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती ।

भवन्ति साम्ये ऽपि निविष्टचेतसां वपुर्विशेषेष्व् अतिगौरवाः क्रियाः॥५.३१॥

 

विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् ।

उमां स पश्यन्न् ऋजुनैव चक्षुषा प्रचक्रमे वक्तुम् अनुज्झितक्रमः॥५.३२॥

 

अपि क्रियार्थं सुलभं समित्कुशं जलान्य् अपि स्नानविधिक्षमाणि ते ।

अपि स्वशक्त्या तपसि प्रवर्तसे शरीरम् आद्यं खलु धर्मसाधनम्॥५.३३॥

 

अपि त्वदावर्जितवारिसंभृतं प्रवालम् आसाम् अनुबन्धि वीरुधाम् ।

चिरोज्झितालक्तकपाटलेन ते तुलां यद् आरोहति दन्तवाससा॥५.३४॥

 

अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।

य उत्पलाक्षि प्रचलैर् विलोचनैस् तवाक्षिसादृश्यम् इव प्रयुञ्जते॥५.३५॥

 

यद् उच्यते पार्वति पापवृत्तये न र्ऊपम् इत्य् अव्यभिचारि तद् वचः ।

तथा हि ते शीलम् उदारदर्शने तपस्विनाम् अप्य् उपदेशतां गतम्॥५.३६॥

 

विकीर्णसप्तर्षिबलिप्रहासिभिस् तथा न गाङ्गैः सलिलैर् दिवश् च्युतैः ।

यथा त्वदीयैश् चरितैर् अनाविलैर् महीधरः पावित एष सान्वयः॥५.३७॥

 

अनेन धर्मः सविशेषम् अद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ।

त्वया मनोनिर्विषयार्थकामया यद् एक एव प्रतिगृह्य सेव्यते॥५.३८॥

 

प्रयुक्तसत्कारविशेषम् आत्मना न मां परं संप्रतिपत्तुम् अर्हसि ।

यतः सतां संनतगात्रि संगतं मनीषिभिः साप्तपदीनम् उच्यते॥५.३९॥

 

अतो ऽत्र किंचिद् भवतीं बहुक्षमां द्विजातिभावाद् उपपन्नचापलः ।

अयं जनः प्रष्टुमनास् तपोधने न चेद् रहस्यं प्रतिवक्तुम् अर्हसि॥५.४०॥

 

कुले प्रसूतिः प्रथमस्य वेधसस् त्रिलोकसौन्दर्यम् इवोदितं वपुः ।

अमृग्यम् ऐश्वर्यसुखं नवं वयस् तपःफलं स्यात् किम् अतः परं वद॥५.४१॥

 

भवत्य् अनिष्टाद् अपि नाम दुःसहान् मनस्विनीनां प्रतिपत्तिर् ईदृशी ।

विचारमार्गप्रहितेन चेतसा न दृश्यते तच् च कृशोदरि त्वयि॥५.४२॥

 

अलभ्यशोकाभिभवेयम् आकृतिर् विमानना सुभ्रु कुतः पितुर् गृहे ।

पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये॥५.४३॥

 

किम् इत्य् अपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् ।

वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्य् अरुणाय कल्पते॥५.४४॥

 

दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास् तव देवभूमयः ।

अथोपयन्तारम् अलं समाधिना न रत्नम् अन्विष्यति मृग्यते हि तत्॥५.४५॥

 

निवेदितं निश्वसितेन सोष्मणा मनस् तु मे संशयम् एव गाहते ।

न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥५.४६॥

 

अहो स्थिरः को ऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।

उपेक्षते यः श्लथलम्बिनीर् जटाः कपोलदेशे कलमाग्रपिङ्गलाः॥५.४७॥

 

मुनिव्रतैस् त्वाम् अतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।

शशाङ्कलेखाम् इव पश्यतो दिवा सचेतसः कस्य मनो न दूयते॥५.४८॥

 

अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश् चतुरावलोकिनः ।

करोति लक्ष्यं चिरम् अस्य चक्षुषो न वक्त्रम् आत्मीयम् अरालपक्ष्मणः॥५.४९॥

 

कियच् चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः ।

तदर्धभागेन लभस्व काङ्क्षितं वरं तम् इच्छामि च साधु वेदितुम्॥५.५०॥

 

इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।

अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रम् ऐक्षत॥५.५१॥

 

सखी तदीया तम् उवाच वर्णिनं निबोध साधो तव चेत् कुतूहलम् ।

यदर्थम् अम्भोजम् इवोष्णवारणं कृतं तपःसाधनम् एतया वपुः॥५.५२॥

 

इयं महेन्द्रप्रभृतीन् अधिश्रियश् चतुर्दिगीशान् अवमत्य मानिनी ।

अर्ऊपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिम् आप्तुम् इच्छति॥५.५३॥

 

असह्यहुंकारनिवर्तितः पुरा पुरारिम् अप्राप्तमुखः शिलीमुखः ।

इमां हृदि व्यायतपातम् अक्षणोद् विशीर्णमूर्तेर् अपि पुष्पधन्वनः॥५.५४॥

 

तदाप्रभृत्य् उन्मदना पितुर् गृहे ललाटिकाचन्दनधूसरालका ।

न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्व् अपि॥५.५५॥

 

उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैर् इयम् ।

अनेकशः किन्नरराजकन्यका वनान्तसंगीतसखीर् अरोदयत्॥५.५६॥

 

त्रिभागशेषासु निशासु च क्षणम् निमील्य नेत्रे सहसा व्यबुध्यत ।

क्व नीलकण्ठ व्रजसीत्य् अलक्ष्यवाग् असत्यकण्ठार्पितबाहुबन्धना॥५.५७॥

 

यदा बुधैः सर्वगतस् त्वम् उच्यसे न वेत्सि भावस्थम् इमं जनं कथम् ।

इति स्वहस्ताल्लिखितश् च मुग्धया रहस्य् उपालभ्यत चन्द्रशेखरः॥५.५८॥

 

यदा च तस्याधिगमे जगत्पतेर् अपश्यद् अन्यं न विधिं विचिन्वती ।

तदा सहास्माभिर् अनुज्ञया गुरोर् इयं प्रपन्ना तपसे तपोवनम्॥५.५९॥

 

द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टम् एष्व् अपि ।

न च प्ररोहाभिमुखो ऽपि दृश्यते मनोरथो ऽस्याः शशिमौलिसंश्रयः॥५.६०॥

 

न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिर् अस्रोत्तरम् ईक्षिताम् इमाम् ।

तपःकृशाम् अभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥५.६१॥

 

अगूढसद्भावम् इतीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस् तया ।

अयीदम् एवं परिहास इत्य् उमाम् अपृच्छद् अव्यञ्जितहर्षलक्षणः॥५.६२॥

 

अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् ।

कथं चिद् अद्रेस् तनया मिताक्षरं चिरव्यवस्थापितवाग् अभाषत॥५.६३॥

 

यथा श्रुतं वेदविदां वर त्वया जनो ऽयम् उच्चैःपदलङ्घनोत्सुकः ।

तपः किलेदं तदवाप्तिसाधनं मनोरथानाम् अगतिर् न विद्यते॥५.६४॥

 

अथाह वर्णी विदितो महेश्वरस् तदर्थिनी त्वं पुनर् एव वर्तसे ।

अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुम् उत्सहे॥५.६५॥

 

अवस्तुनिर्बन्धपरे कथं नु ते करो ऽयम् आमुक्तविवाहकौतुकः ।

करेण शंभोर् वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥५.६६॥

 

त्वम् एव तावत् परिचिन्तय स्वयं कदा चिद् एते यदि योगम् अर्हतः ।

वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च॥५.६७॥

 

चतुष्कपुष्पप्रकराविकीर्णयोः परो ऽपि को नाम तवानुमन्यते ।

अलक्तकाङ्कानि पदानि पादयोर् विकीर्णकेशासु परेतभूमिषु॥५.६८॥

 

अयुक्तर्ऊपं किम् अतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।

स्तनद्वये ऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति॥५.६९॥

 

इयं च ते ऽन्या पुरतो विडम्बना यद् ऊढया वारणराजहार्यया ।

विलोक्य वृद्धोक्षम् अधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति॥५.७०॥

 

द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।

कला च सा कान्तिमती कलावतस् त्वम् अस्य लोकस्य च नेत्रकौमुदी॥५.७१॥

 

वपुर् विर्ऊपाक्षम् अलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।

वरेषु यद् बालमृगाक्षि मृग्यते तद् अस्ति किं व्यस्तम् अपि त्रिलोचने॥५.७२॥

 

निवर्तयास्माद् असदीप्सितान् मनः क्व तद्विधस् त्वं क्व च पुण्यलक्षणा ।

अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया॥५.७३॥

 

इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।

विकुञ्चितभ्र्ऊलतम् आहिते तया विलोचने तिर्यग् उपान्तलोहिते॥५.७४॥

 

उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवम् आत्थ माम् ।

अलोकसामान्यम् अचिन्त्यहेतुकं द्विषन्ति मन्दाश् चरितं महात्मनाम्॥५.७५॥

 

विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।

जगच्छरण्यस्य निराशिषः सतः किम् एभिर् आशोपहतात्मवृत्तिभिः॥५.७६॥

 

अकिञ्चनः सन् प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः ।

स भीमर्ऊपः शिव इत्य् उदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः॥५.७७॥

 

विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।

कपालि वा स्याद् अथ वेन्दुशेखरं न विश्वमूर्तेर् अवधार्यते वपुः॥५.७८॥

 

तदङ्गसंसर्गम् अवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।

तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिर् अम्बरौकसां॥५.७९॥

 

असंपदस् तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा ।

करोति पादाव् उपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली॥५.८०॥

 

विवक्षता दोषम् अपि च्युतात्मना त्वयैकम् ईशं प्रति साधु भाषितम् ।

यम् आमनन्त्य् आत्मभुवो ऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति॥५.८१॥

 

अलं विवादेन यथा श्रुतस् त्वया तथाविधस् तावद् अशेषम् अस्तु सः ।

ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर् वचनीयम् ईक्षते॥५.८२॥

 

निवार्यताम् आलि किम् अप्य् अयं बटुः पुनर् विवक्षुः स्फुरितोत्तराधरः ।

न केवलं यो महतो ऽपभाषते शृणोति तस्माद् अपि यः स पापभाक्॥५.८३॥

 

इतो गमिश्याम्य् अथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।

स्वर्ऊपम् आस्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥५.८४॥

 

तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर् निक्षेपणाय पदम् उद्धृतम् उद्वहन्ती ।

मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ॥५.८५॥

 

अद्यप्रभृत्य् अवनताङ्गि तवास्मि दासः क्रीतस् तपोभिर् इति वादिनि चन्द्रमौलौ ।

अह्नाय सा नियमजं क्लमम् उत्ससर्ज क्लेशः फलेन हि पुनर् नवतां विधत्ते॥५.८६॥

 

 

॥६॥

अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।

दाता मे भूभृतां नाथः प्रमाणीक्रियताम् इति॥६.१॥

 

तया व्याहृतसंदेशा सा बभौ निभृता प्रिये ।

चूतयष्टिर् इवाभ्याष्ये मधौ परभृतामुखी॥६.२॥

 

स तथेति प्रतिज्ञाय विसृज्य कथम् अप्य् उमाम् ।

ऋषीञ् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः॥६.३॥

 

ते प्रभामण्डलैर् व्योम द्योतयन्तस् तपोधनाः ।

सारुन्धतीकाः सपदि प्रादुर् आसन् पुरः प्रभोः॥६.४॥

 

आप्लुतास् तीरमन्दार- कुसुमोत्किरवीचिषु ।

आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु॥६.५॥

 

मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः ।

रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः॥६.६॥

 

अधःप्रवर्त्तिताश्वेन समावर्जितकेतुना ।

सहस्ररश्मिना शश्वत् सप्रमाणम् उदीक्षिताः॥६.७॥

 

आसक्तबाहुलतया सार्धम् उद्धृतया भुवा ।

महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि॥६.८॥

 

सर्गशेषप्रणयनाद् विश्वयोनेर् अनन्तरम् ।

पुरातनाः पुराविद्भिर् धातार इति कीर्तिताः॥६.९॥

 

प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषाम् ।

तपसाम् उपभुञ्जानाः फलान्य् अपि तपस्विनः॥६.१०॥

 

तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।

साक्षाद् इव तपःसिद्धिर् बभासे बह्व् अरुन्धती॥६.११॥

 

ताम् अगौरवभेदेन मुनींश् चापश्यद् ईश्वरः ।

स्त्री पुमान् इत्य् अनास्थैषा वृत्तं हि महितं सताम्॥६.१२॥

 

तद्दर्शनाद् अभूच् छम्भोर् भूयान् दारार्थम् आदरः ।

क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम्॥६.१३॥

 

धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।

पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः॥६.१४॥

 

अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।

इदम् ऊचुर् अनूचानाः प्रीतिकण्टकितत्वचः॥६.१५॥

 

यद् ब्रह्म सम्यग् आम्नातं यद् अग्नौ विधिना हुतम् ।

यच् च तप्तं तपस् तस्य विपक्वं फलम् अद्य नः॥६.१६॥

 

यद् अध्यक्षेण जगतां वयम् आरोपितास् त्वया ।

मनोरथस्याविषयं मनोविषयम् आत्मनः॥६.१७॥

 

यस्य चेतसि वर्तेथाः स तावत् कृतिनां वरः ।

किं पुनर् ब्रह्मयोनेर् यस् तव चेतसि वर्तते॥६.१८॥

 

सत्यम् अर्काच् च सोमाच् च परम् अध्यास्महे पदम् ।

अद्य तूच्चैस्तरं तस्मात् स्मरणानुग्रहात् तव॥६.१९॥

 

त्वत्संभावितम् आत्मानं बहु मन्यामहे वयम् ।

प्रायः प्रत्ययम् आधत्ते स्वगुणेषूत्तमादरः॥६.२०॥

 

या नः प्रीतिर् विर्ऊपाक्ष त्वदनुध्यानसंभवा ।

सा किम् आवेद्यते तुभ्यम् अन्तरात्मासि देहिनाम्॥६.२१॥

 

साक्षाद् दृष्टो ऽसि न पुनर् विद्मस् त्वां वयम् अञ्जसा ।

प्रसीद कथयात्मानं न धियां पथि वर्तसे॥६.२२॥

 

किं येन सृजसि व्यक्तम् उत येन बिभर्षि तत् ।

अथ विश्वस्य संहर्ता भागः कतम एष ते॥६.२३॥

 

अथवा सुमहत्य् एषा प्रार्थना देव तिष्ठतु ।

चिन्तितोपस्थितांस् तावच् छाधि नः करवाम किम्॥६.२४॥

 

अथ मौलिगतस्येन्दोर् विशदैर् दशनांशुभिः ।

उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः॥६.२५॥

 

विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः ।

ननु मूर्तिभिर् अष्टाभिर् इत्थंभूतो ऽस्मि सूचितः॥६.२६॥

 

सो ऽहं तृष्णातुरैर् वृष्टिं विद्युत्वान् इव चातकैः ।

अरिविप्रकृतैर् देवैः प्रसूतिं प्रति याचितः॥६.२७॥

 

अत आहर्तुम् इच्छामि पार्वतीम् आत्मजन्मने ।

उत्पत्तये हविर्भोक्तुर् यजमान इवारणिम्॥६.२८॥

 

ताम् अस्मदर्थे युष्माभिर् याचितव्यो हिमालयः ।

विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः॥६.२९॥

 

उन्नतेन स्थितिमता धुरम् उद्वहता भुवः ।

तेन योजितसंबन्धं वित्त माम् अप्य् अवञ्चितम्॥६.३०॥

 

एवं वाच्यः स कन्यार्थम् इति वो नोपदिश्यते ।

भवत्प्रणीतम् आचारम् आमनन्ति हि साधवः॥६.३१॥

 

आर्याप्य् अरुन्धती तत्र व्यापारं कर्तुं अर्हति ।

प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता॥६.३२॥

 

तत् प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।

महाकोशीप्रपाते ऽस्मिन् संगमः पुनर् एव नः॥६.३३॥

 

तस्मिन् संयमिनाम् आद्ये जाते परिणयोन्मुखे ।

जहुः परिग्रहव्रीडां प्राजापत्यास् तपस्विनः॥६.३४॥

 

ततः परमम् इत्य् उक्त्वा प्रतस्थे मुनिमण्डलम् ।

भगवान् अपि संप्राप्तः प्रथमोद्दिष्टम् आस्पदम्॥६.३५॥

 

ते चाकाशम् असिश्यामम् उत्पत्य परमर्षयः ।

आसेदुर् ओषधिप्रस्थं मनसा समरंहसः॥६.३६॥

 

अलकाम् अतिवाह्येव वसतिं वसुसंपदाम् ।

स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम्॥६.३७॥

 

गङ्गास्रोतःपरिक्षिप्त- वप्रान्तर्ज्वलितौषधि ।

बृहन्मणिशिलासालं गुप्ताव् अपि मनोहरम्॥६.३८॥

 

जितसिंहभया नागा यत्राश्वा बिलयोनयः ।

यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः॥६.३९॥

 

शिखरासक्तमेघानां व्यजन्ते यत्र वेश्मनाम् ।

अनुगर्जितसंदिग्धाः करणैर् मुरजस्वनाः॥६.४०॥

 

यत्र कल्पद्रुमैर् एव विलोलविटपांशुकैः ।

गृहयन्त्रपताकाश्रीर् अपौरादरनिर्मिता॥६.४१॥

 

यत्र स्फटिकहर्म्येषु नक्तम् आपानभूमिषु ।

ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्य् उपहारताम्॥६.४२॥

 

यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः ।

अनभिज्ञास् तमिस्राणां दुर्दिनेष्व् अभिसारिकाः॥६.४३॥

 

यौवनान्तं वयो यस्मिन्न् आतङ्कः कुसुमायुधः ।

रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः॥६.४४॥

 

भ्र्ऊभेदिभिः सकम्पोष्ठैर् ललिताङ्गुलितर्जनैः ।

यत्र कोपैः कृताः स्त्रीणाम् आप्रसादार्थिनः प्रियाः॥६.४५॥

 

संतानकतरुच्छाया- सुप्तविद्याधराध्वगम् ।

यस्य चोपवनं बाह्यं सुगन्धिर् गन्धमादनः॥६.४६॥

 

अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।

स्वर्गाभिसंधिसुकृतं वञ्चनाम् इव मेनिरे॥६.४७॥

 

ते सद्मनि गिरेर् वेगाद् उन्मुखद्वाःस्थवीक्षिताः ।

अवतेरुर् जटाभारैर् लिखितानलनिश्चलैः॥६.४८॥

 

गगनाद् अवतीर्णा सा यथावृद्धपुरस्सरा ।

तोयान्तर् भास्करालीव रेजे मुनिपरम्परा॥६.४९॥

 

तान् अर्घ्यान् अर्घ्यम् आदाय दूरात् प्रत्युद्ययौ गिरिः ।

नमयन् सारगुरुभिः पादन्यासैर् वसुन्धराम्॥६.५०॥

 

धातुताम्राधरः प्रांशुर् देवदारुबृहद्भुजः ।

प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवान् इति॥६.५१॥

 

विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।

स तैर् आक्रमयाम् आस शुद्धान्तं शुद्धकर्मभिः॥६.५२॥

 

तत्र वेत्रासनासीनान् कृतासनपरिग्रहः ।

इत्य् उवाचेश्वरान् वाचं प्राञ्जलिः पृथिवीधरः॥६.५३॥

 

अपमेघोदयं वर्षम् अदृष्टकुसुमं फलम् ।

अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे॥६.५४॥

 

मूढं बुद्धम् इवात्मानं हैमीभूतम् इवायसम् ।

भूमेर् दिवम् इवार्ऊढं मन्ये भवदनुग्रहात्॥६.५५॥

 

अद्यप्रभृति भूतानाम् अधिगम्यो ऽस्मि शुद्धये ।

यद् अध्यासितम् अर्हद्भिस् तद् धि तीर्थं प्रचक्षते॥६.५६॥

 

अवैमि पूतम् आत्मानं द्वयेनैव द्विजोत्तमाः ।

मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः॥६.५७॥

 

जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।

विभक्तानुग्रहं मन्ये द्विर्ऊपम् अपि मे वपुः॥६.५८॥

 

भवत्संभावनोत्थाय परितोषाय मूर्च्छते ।

अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे॥६.५९॥

 

न केवलं दरीसंस्थं भास्वतां दर्शनेन वः ।

अन्तर्गतम् अपास्तं मे रजसो ऽपि परं तमः॥६.६०॥

 

कर्तव्यं वो न पश्यामि स्याच् चेत् किं नोपपद्यते ।

शङ्के मत्पावनायैव प्रस्थानं भवताम् इह॥६.६१॥

 

तथापि तावत् कस्मिंश् चिद् आज्ञां मे दातुम् अर्हथ ।

विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु॥६.६२॥

 

एते वयम् अमी दाराः कन्येयं कुलजीवितम् ।

ब्र्ऊत येनात्र वः कार्यम् अनास्था बाह्यवस्तुषु॥६.६३॥

 

इत्य् ऊचिवांस् तम् एवार्थं दरीमुखविसर्पिणा ।

द्विर् इव प्रतिशब्देन व्याजहार हिमालयः॥६.६४॥

 

अथाङ्गिरसम् अग्रण्यम् उदाहरणवस्तुषु ।

ऋषयश् चोदयाम् आसुः प्रत्युवाच स भूधरम्॥६.६५॥

 

उपपन्नम् इदं सर्वम् अतः परम् अपि त्वयि ।

मनसः शिखराणां च सदृशी ते समुन्नतिः॥६.६६॥

 

स्थाने त्वां स्थावरात्मानं विष्णुम् आहुस् तथा हि ते ।

चराचराणां भूतानां कुक्षिर् आधारतां गतः॥६.६७॥

 

गाम् अधास्यत् कथं नागो मृणालमृदुभिः फणैः ।

आ रसातलमूलात् त्वम् अवालम्बिष्यथा न चेत्॥६.६८॥

 

अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः ।

पुनन्ति लोकान् पुण्यत्वात् कीर्तयः सरितश् च ते॥६.६९॥

 

यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः ।

प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया॥६.७०॥

 

तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा हरेः ।

त्रिविक्रमोद्यतस्यासीत् स च स्वाभाविकस् तव॥६.७१॥

 

यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया ।

उच्चैर् हिरण्मयं शृङ्गं सुमेरोर् वितथीकृतम्॥६.७२॥

 

काठिन्यं स्थावरे काये भवता सर्वम् अर्पितम् ।

इदं तु भक्तिनम्रं ते सताम् आराधनं वपुः॥६.७३॥

 

तद् आगमनकार्यं नः शृणु कार्यं तवैव तत् ।

श्रेयसाम् उपदेशात् तु वयम् अत्रांशभागिनः॥६.७४॥

 

अणिमादिगुणोपेतम् अस्पृष्टपुरुषान्तरम् ।

शब्दम् ईश्वर इत्य् उच्चैः सार्धचन्द्रं बिभर्ति यः॥६.७५॥

 

कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिर् आत्मनि ।

येनेदं ध्रियते विश्वं धुर्यैर् यानम् इवाध्वनि॥६.७६॥

 

योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।

अनावृत्तिभयं यस्य पदम् आहुर् मनीषिणः॥६.७७॥

 

स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणः ।

वृणुते वरदः शंभुर् अस्मत्संक्रामितैः पदैः॥६.७८॥

 

तम् अर्थम् इव भारत्या सुतया योक्तुम् अर्हसि ।

अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता॥६.७९॥

 

यावद् एतानि भूतानि स्थावराणि चराणि च ।

मातरं कल्पयन्त्य् एनाम् ईशो हि जगतः पिता॥६.८०॥

 

प्रणम्य शितिकण्ठाय विबुधास् तदनन्तरम् ।

चरणौ रञ्जयन्त्य् अस्याश् चूडामणिमरीचिभिः॥६.८१॥

 

उमा वधूर् भवान् दाता याचितार इमे वयम् ।

वरः शंभुर् अलं ह्य् एष त्वत्कुलोद्भूतये विधिः॥६.८२॥

 

अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।

सुतासंबन्धविधिना भव विश्वगुरोर् गुरुः॥६.८३॥

 

एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।

लीलाकमलपत्राणि गणयाम् आस पार्वती॥६.८४॥

 

शैलः संपूर्णकामो ऽपि मेनामुखम् उदैक्षत ।

प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः॥६.८५॥

 

मेने मेनापि तत् सर्वं पत्युः कार्यम् अभीप्सितम् ।

भवन्त्य् अव्यभिचारिण्यो भर्तुर् इष्टे पतिव्रताः॥६.८६॥

 

इदम् अत्रोत्तरं न्याय्यम् इति बुद्ध्या विमृश्य सः ।

आददे वचसाम् अन्ते मङ्गलालङ्कृतां सुताम्॥६.८७॥

 

एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता ।

अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया॥६.८८॥

 

एतावद् उक्त्वा तनयाम् ऋषीन् आह महीधरः ।

इयं नमति वः सर्वांस् त्रिलोचनवधूर् इति॥६.८९॥

 

ईप्सितार्थक्रियोदारं ते ऽभिनन्द्य गिरेर् वचः ।

आशीर्भिर् एधयाम् आसुः पुरःपाकाभिर् अम्बिकाम्॥६.९०॥

 

तां प्रणामादरस्रस्त- जाम्बूनदवतंसकाम् ।

अङ्कम् आरोपयाम् आस लज्जमानाम् अरुन्धती॥६.९१॥

 

तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।

वरस्यानन्यपूर्वस्य विशोकाम् अकरोद् गुणैः॥६.९२॥

 

वैवाहिकीं तिथिं पृष्टास् तत्क्षणं हरबन्धुना ।

ते त्र्यहाद् ऊर्ध्वम् आख्याय चेलुश् चीरपरिग्रहाः॥६.९३॥

 

ते हिमालयम् आमन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।

सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खम् उद्ययुः॥६.९४॥

 

पशुपतिर् अपि तान्य् अहानि कृच्छ्राद् अगमयद् अद्रिसुतासमागमोत्कः ।

कम् अपरम् अवशं न विप्रकुर्युर् विभुम् अपि तं यद् अमी स्पृशन्ति भावाः॥६.९५॥

 

 

॥७॥

अथौषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।

समेतबन्धुर् हिमवान् सुताया विवाहदीक्षाविधिम् अन्वतिष्ठत्॥७.१॥

 

वैवाहिकैः कौतुकसंविधानैर् गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।

आसीत् पुरं सानुमतो ऽनुरागाद् अन्तःपुरं चैककुलोपमेयम्॥७.२॥

 

संतानकाकीर्णमहापथं तच् चीनांशुकैः कल्पितकेतुमालम् ।

भासा ज्वलत् काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे॥७.३॥

 

एकैव सत्याम् अपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।

आसन्नपाणिग्रहणेति पित्रोर् उमा विशेषोच्छ्वसितं बभूव॥७.४॥

 

अङ्काद् ययाव् अङ्कम् उदीरिताशीः सा मण्डनान् मण्डनम् अन्वभुङ्क्त ।

संबन्धिभिन्नो ऽपि गिरेः कुलस्य स्नेहस् तदेकायतनं जगाम॥७.५॥

 

मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।

तस्याः शरीरे प्रतिकर्म चक्रुर् बन्धुस्त्रियो याः पतिपुत्रवत्यः॥७.६॥

 

सा गौरसिद्धार्थनिवेशवद्भिर् दूर्वाप्रवालैः प्रतिभिन्नरागम् ।

निर्नाभिकौशेयम् उपात्तबाणम् अभ्यङ्गनेपथ्यम् अलञ्चकार॥७.७॥

 

बभौ च संपर्कम् उपेत्य बाला नवेन दीक्षाविधिसायकेन ।

करेण भानोर् बहुलावसाने संधुक्ष्यमाणेव शशाङ्कलेखा॥७.८॥

 

तां लोध्रकल्केन हृताङ्गतैलाम् आश्यानकालेयकृताङ्गरागाम् ।

वासो वसानाम् अभिषेकयोग्यं नार्यश् चतुष्काभिमुखं व्यनैषुः॥७.९॥

 

विन्यस्तवैदूर्यशिलातले ऽस्मिन्न् अविद्धमुक्ताफलभक्तिचित्रे ।

आवर्जिताष्टापदकुम्भतोयाः सतूर्यम् एनां स्नपयां बभूवुः॥७.१०॥

 

सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा ।

निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे॥७.११॥

 

तस्मात् प्रदेशाच् च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।

पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम्॥७.१२॥

 

तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।

भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहिते ऽपि नार्यः॥७.१३॥

 

धूपोष्मणा त्याजितम् आर्द्रभावं केशान्तम् अन्तःकुसुमं तदीयम् ।

पर्याक्षिपत् काचिद् उदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना॥७.१४॥

 

विन्यस्तशुक्लागुरु चक्रुर् अस्या गोरोचनापत्रविभङ्गम् अङ्गम् ।

सा चक्रवाकाङ्कितसैकतायास् त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ॥७.१५॥

 

लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश् च बिम्बम् ।

तदाननश्रीर् अलकैः प्रसिद्धैश् चिच्छेद सादृश्यकथाप्रसङ्गम्॥७.१६॥

 

कर्णार्पितो लोध्रकषायर्ऊक्षे गोरोचनाक्षेपनितान्तगौरे ।

तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः॥७.१७॥

 

रेखाबिभक्तश् च विभक्तगात्र्याः किंचिन्मधूच्छिष्टविमृष्टरागः ।

काम् अप्य् अभिख्यां स्फुरितैर् अपुष्यद् आसन्नलावण्यफलो ऽध्ररोष्ठः॥७.१८॥

 

पत्युः शिरश्चन्द्रकलाम् अनेन स्पृशेति सख्या परिहासपूर्वम् ।

सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान॥७.१९॥

 

तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर् नयने निरीक्ष्य ।

न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलम् इत्य् उपात्तम्॥७.२०॥

 

सा संभवद्भिः कुसुमैर् लतेव ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा ।

सरिद् विहङ्गैर् इव लीयमानैर् आमुच्यमानाभरणा चकासे॥७.२१॥

 

आत्मानम् आलोक्य च शोभमानम् आदर्शबिम्बे स्तिमितायताक्षी ।

हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः॥७.२२॥

 

अथाङ्गुलिभ्यां हरितालम् आर्द्रं माङ्गल्यम् आदाय मनःशिलां च ।

कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखम् उन्नमय्य॥७.२३॥

 

उमास्तनोद्भेदम् अनुप्रवृद्धो मनोरथो यः प्रथमो बभूव ।

तम् एव मेना दुहितुः कथंचिद् विवाहदीक्षातिलकं चकार॥७.२४॥

 

बबन्ध चास्राकुलदृष्टिर् अस्याः स्थानान्तरे कल्पितसन्निवेशम् ।

धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् ऊर्णमयं कौतुकहस्तसूत्रम्॥७.२५॥

 

क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा ।

नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणम् आदधाना॥७.२६॥

 

ताम् अर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता ।??

अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम्॥७.२७॥

 

अखण्डितं प्रेम लभस्व पत्युर् इत्य् उच्यते ताभिर् उमा स्म नम्रा ।

तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषो ऽ पि॥७.२८॥

 

इच्छाविभूत्योर् अनुर्ऊपम् अद्रिस् तस्याः कृती कृत्यम् अशेषयित्वा ।

सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः॥७.२९॥

 

तावद् वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुर्ऊपम् ।

प्रसाधनं मातृभिर् आदृताभिर् न्यस्तं पुरस्तात् पुरशासनस्य॥७.३०॥

 

तद्गौरवान् मङ्गलमण्डनश्रीः सा पस्पृशे केवलम् ईश्वरेण ।

स्व एव वेषः परिणेतुर् इष्टं भावान्तरं तस्य विभोः प्रपेदे॥७.३१॥

 

बभूव भस्मैव सिताङ्गरागः कपालम् एवामलशेखरश्रीः ।

उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः॥७.३२॥

 

शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम् ।

सान्निध्यपक्षे हरितालमय्यास् तद् एव जातं तिलकक्रियायाः॥७.३३॥

 

यथाप्रदेशं भुजगेश्वराणां करिश्यताम् आभरणान्तरत्वम् ।

शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः॥७.३४॥

 

दिवापि निष्ठ्यूतमरीचिभासा बाल्याद् अनाविष्कृतलाञ्छनेन ।

चन्द्रेण नित्यं प्रतिभिन्नमौलेश् चूडामणेः किं ग्रहणं हरस्य॥७.३५॥

 

इत्य् अद्भुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर् विधाता ।

आत्मानम् आसन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श॥७.३६॥

 

स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।

तद्भक्तिसंक्षिप्तबृहत्प्रमाणम् आरुह्य कैलासम् इव प्रतस्थे॥७.३७॥

 

तं मातरो देवम् अनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।

मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुर् इवान्तरीक्षम्॥७.३८॥

 

तासां च पश्चात् कनकप्रभाणां काली कपालाभरणा चकासे ।

बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतह्रदेव॥७.३९॥

 

ततो गणैः शूलभृतः पुरोगैर् उदीरितो मङ्गलतूर्यघोषः ।

विमानशृङ्गाण्य् अवगाहमानः शशंस सेवावसरं सुरेभ्यः॥७.४०॥

 

उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितम् आतपत्रम् ।

स तद्दुकूलाद् अविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे॥७.४१॥

 

मूर्ते च गङ्गायमुने तदानीं सचामरे देवम् असेविषाताम् ।

समुद्रगार्ऊपविपर्यये ऽपि सहंसपाते इव लक्ष्यमाणे॥७.४२॥

 

तम् अन्वगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश् च साक्षात् ।

जयेति वाचा महिमानम् अस्य संवर्धयन्त्या हविषेव वह्निम्॥७.४३॥

 

एकैव मूर्तिर् बिभिदे त्रिधा सा सामान्यम् एषां प्रथमावरत्वम् ।

विष्णोर् हरस् तस्य हरिः कदाचिद् वेधास् तयोस् ताव् अपि धातुर् आद्यौ॥७.४४॥

 

तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।

दृष्टिप्रदाने कृतनन्दिसंज्ञास् तद्दर्शिताः प्राञ्जलयः प्रणेमुः॥७.४५॥

 

कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।

आलोकमात्रेण सुरान् अशेषान् संभावयाम् आस यथाप्रधानम्॥७.४६॥

 

तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस् तान् स्मितपूर्वम् आह ।

विवाहयज्ञे वितते ऽत्र यूयम् अध्वर्यवः पूर्ववृता मयेति॥७.४७॥

विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।

अध्वानम् अध्वान्तविकारलङ्घ्यस् ततार ताराधिपखण्डधारी॥७.४८॥

 

खे खेलगामी तम् उवाह वाहः सशब्दचामीकरकिङ्किणीकः ।

तटाभिघाताद् इव लग्नपङ्के धुन्वन् मुहुः प्रोतघने विषाणे॥७.४९॥

 

स प्रापद् अप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।

पुरो विलग्नैर् हरदृष्टिपातैः सुवर्णसूत्रैर् इव कृष्यमाणः॥७.५०॥

 

तस्योपकण्ठे घननीलकण्ट्ःअः कुतूहलाद् उन्मुखपौरदृष्टः ।

स्वबाणचिह्नाद् अवतीर्य मार्गाद् आसन्नभूपृष्ठम् इयाय देवः॥७.५१॥

 

तम् ऋद्धिमद्बन्धुजनाधिर्ऊढैर् वृन्दैर् गजानां गिरिचक्रवर्ती ।

प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैर् इव स्वैः॥७.५२॥

 

वर्गाव् उभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।

समीयतुर् दूरविसर्पिघोषौ भिन्नैकसेतू पयसाम् इवौघौ॥७.५३॥

 

ह्रीमान् अभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।

पूर्वं महिम्ना स हि तस्य दूरम् आवर्जितं नात्मशिरो विवेद॥७.५४॥

 

स प्रीतियोगाद् विकसन्मुखश्रीर् जामातुर् अग्रेसरताम् उपेत्य ।

प्रावेशयन् मन्दिरम् ऋद्धम् एनम् आगुल्फकीर्णापणमार्गपुष्पम्॥७.५५॥

 

तस्मिन् मुहूर्ते पुरसुन्दरीणाम् ईशानसंदर्शनलालसानाम् ।

प्रासादमालासु बभूवुर् इत्थं त्यक्तान्यकार्याणि विचेष्टितानि॥७.५६॥

 

आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः ।

बन्धुं न संभावित एव तावत् करेण रुद्धो ऽपि न केशपाशः॥७.५७॥

 

प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव ।

उत्सृष्टलीलागतिर् आगवाक्षाद् अलक्तकाङ्कां पदवीं ततान॥७.५८॥

 

विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।

तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती॥७.५९॥

 

जालान्तरप्रेषितदृष्तिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।

नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाव् अवलम्ब्य वासः॥७.६०॥

 

अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती ।

कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा॥७.६१॥

 

तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम् ।

विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्राभरणा इवासन्॥७.६२॥

 

तावत् पताकाकुलम् इन्दुमौलिर् उत्तोरणं राजपथं प्रपेदे ।

प्रासादशृङ्गाणि दिवापि कुर्वञ् ज्योत्स्नाभिषेकद्विगुणद्युतीनि॥७.६३॥

 

तम् एकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि ।

तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा॥७.६४॥

 

स्थाने तपो दुश्चरम् एतदर्थम् अपर्णया पेलवयापि तप्तम् ।

या दास्यम् अप्य् अस्य लभेत नारी सा स्यात् कृतार्था किम् उताङ्कशय्याम्॥७.६५॥

 

परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत् ।

अस्मिन् द्वये र्ऊपविधानयत्नः पत्युः प्रजानां विफलो ऽभविश्यत्॥७.६६॥

 

न नूनम् आर्ऊढरुषा शरीरम् अनेन दग्धं कुसुमायुधस्य ।

व्रीडाद् अमुं देवम् उदीक्ष्य मन्ये संन्यस्तदेहः स्वयम् एव कामः॥७.६७॥

 

अनेन संबन्धम् उपेत्य दिष्ट्या मनोरथप्रार्थितम् ईश्वरेण ।

मूर्धानम् आलि क्षितिधारणोच्चम् उच्चैस्तरां वक्ष्यति शैलराजः॥७.६८॥

 

इत्य् ओषधिप्रस्थविलासिनीनां शृण्वन् कथाः श्रोत्रसुखास् त्रिनेत्रः ।

केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयम् आससाद॥७.६९॥

 

तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद् दीधितिमान् इवोक्ष्णः ।

क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्य् अद्रिपतेर् विवेश॥७.७०॥

 

तम् अन्वग् इन्द्रप्रमुखाश् च देवाः सप्तर्षिपूर्वाः परमर्षयश् च ।

गणाश् च गिर्यालयम् अभ्यगच्छन् प्रशस्तम् आरम्भम् इवोत्तमार्थाः॥७.७१॥

 

तत्रेश्वरो विष्टरभाग् यथावत् सरत्नम् अर्घ्यं मधुमच् च गव्यम् ।

नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्वम् अमन्त्रवर्जम्॥७.७२॥

 

दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः ।

वेलासमीपं स्फुटफेनराजिर् नवैर् उदन्वान् इव चन्द्रपादैः॥७.७३॥

 

तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।

प्रसन्नचेतःसलिलः शिवो ऽभूत् संसृज्यमानः शरदेव लोकः॥७.७४॥

 

तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि ।

ह्रीयन्त्रणां तत्क्षणम् अन्वभूवन्न् अन्योन्यलोलानि विलोचनानि॥७.७५॥

 

तस्याः करं शैलगुर्ऊपनीतं जग्राह ताम्राङ्गुलिम् अष्टमूर्त्तिः ।

उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वम् इव प्ररोहम्॥७.७६॥

 

रोमोद्गमः प्रादुर् अभूद् उमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुर् आसीत् ।

वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य॥७.७७॥

 

प्रयुक्तपाणिग्रहणं यद् अन्यद् वधूवरं पुष्यति कान्तिम् अग्र्याम् ।

सान्निध्ययोगाद् अनयोस् तदानीं किं कथ्यते श्रीर् उभयस्य तस्य॥७.७८॥

 

प्रदक्षिणप्रक्रमणात् कृशानोर् उदर्चिषस् तन् मिथुनं चकासे ।

मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम्॥७.७९॥

 

तौ दम्पती त्रिः परिणीय वह्निम् कराग्रसंस्पर्शनिमीलिताक्षीम् ।

तां कारयाम् आस वधूं पुरोधास् तस्मिन् समिद्धार्चिषि लाजमोक्षम्॥७.८०॥

 

सा लाजधूमाञ्जलिम् इष्टगन्धं गुर्ऊपदेशाद् वदनं निनाय ।

कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे॥७.८१॥

 

तद् ईषदार्द्रारुणगण्डलेखम् उच्छ्वासिकालाञ्जनरागम् अक्ष्णोः ।

वधूमुखं क्लान्तयवावतंसम् आचारधूमग्रहणाद् बभूव॥७.८२॥

 

वधूं द्विजः प्राह तवैष वत्से वह्निर् विवाहं प्रति पूर्वसाक्षी ।

शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति॥७.८३॥

 

आलोचनान्तं श्रवणे वितत्य पीतं गुरोस् तद्वचनं भवान्या ।

निदाघकालोल्बणतापयेव माहेन्द्रम् अम्भः प्रथमं पृथिव्या॥७.८४॥

 

ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।

सा दृष्ट इत्य् आननम् उन्नमय्य ह्रीसन्नकण्ठी कथम् अप्य् उवाच॥७.८५॥

 

इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।

प्रणेमतुस् तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय॥७.८६॥

 

वधूर् विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति ।

वाचस्पतिः सन्न् अपि सो ऽष्टमूर्त्तव् आशास्य चिन्तास्तिमितो बभूव॥७.८७॥

 

कॢप्तोपचारां चतुरस्रवेदीं ताव् एत्य पश्चाट् कनकासनस्थौ ।

जायापती लौकिकम् एषितव्यम् आर्द्राक्षतारोपणम् अन्वभूताम्॥७.८८॥

 

पत्रान्तलग्नैर् जलबिन्दुजालैर् आकृष्टमुक्ताफलजालशोभम् ।

तयोर् उपर्य् आयतनालदण्डम् आधत्त लक्ष्मीः कमलातपत्रम्॥७.८९॥

 

द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन् मिथुनं नुनाव ।

संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन॥७.९०॥

 

तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।

अपश्यताम् अप्सरसां मुहूर्तं प्रयोगम् आद्यं ललिताङ्गहारम्॥७.९१॥

 

देवास् तदन्ते हरम् ऊढभार्यं किरीटबद्धाञ्जलयो निपत्य ।

शापावसाने प्रतिपन्नमूर्त्तेर् ययाचिरे पञ्चशरस्य सेवाम्॥७.९२॥

 

तस्यानुमेने भगवान् विमन्युर् व्यापारम् आत्मन्य् अपि सायकानाम् ।

काले प्रयुक्ता खलु कार्यविद्भिर् विज्णापना भर्तृषु सिद्धिम् एति॥७.९३॥

 

अथ विबुधगणांस् तान् इन्दुमौलिर् विसृज्य क्षितिधरपतिकन्याम् आददानः करेण ।

कनककलशरकśाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारम् आगात्॥७.९४॥

 

नवपरिणयलज्जाभूषणां तत्र गौरीं वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् ईशः ।

अपि शयनसखीभ्यो दत्तवाचं कथंचित् प्रमथमुखविकारैर् हासयाम् आस गूढम्॥७.९५॥

 

 

॥८॥

पाणिपीडनविधेर् अनन्तरं शैलराजदुहितुर् हरं प्रति ।

भावसाध्वसपरिग्रहाद् अभूत् कामदोहदमनोहरं वपुः॥८.१॥

 

व्याहृता प्रतिवचो न सन्दधे गन्तुम् ऐच्छद् अवलम्बितांशुका ।

सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥८.२॥

 

कैतवेन शयिते कुतूहलात् पार्वती प्रतिमुखं निपातितम् ।

चक्षुर् उन्मिषति सस्मितं प्रिये विद्युदाहतम् इव न्यमीलयत्॥८.३॥

 

नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।

तद्दुकूलम् अथ चाभवत् स्वयं दूरम् उच्छ्वसितनीविबन्धनम्॥८.४॥

 

एवम् आलि निगृहीतसाध्वसं शङ्करो रहसि सेव्यताम् इति ।

सा सखीभिर् उपदिष्टम् आकुला नास्मरत् प्रमुखवर्तिनि प्रिये॥८.५॥

 

अप्य् अवस्तुनि कथाप्रवृत्तये प्रश्नतत्परम् अनङ्गशासनम् ।

वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयम् उत्तरं ददौ॥८.६॥

 

शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।

तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्य् अभूत्॥८.७॥

 

चुम्बनेष्व् अधरदानवर्जितं सन्नहस्तम् अदयोपगूहने ।

क्लिष्टमन्मथम् अपि प्रियं प्रभोर् दुर्लभप्रतिकृतं वधूरतम्॥८.८॥

 

यन् मुखग्रहणम् अक्षताधरं दत्तम् अव्रणपदं नखं च यत् ।

यद् रतं च सदयं प्रियस्य तत् पार्वती विषहते स्म नेतरत्॥८.९॥

 

रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सा विभातसमये सखीजनम् ।

नाकरोद् अपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे॥८.१०॥

 

दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।

प्रेक्ष्य बिम्बम् अनु बिम्बम् आत्मनः कानि कानि न चकार लज्जया॥८.११॥

 

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् ।

भर्तृवल्लभतया हि मानसीं मातुर् अस्यति शुचं वधूजनः॥८.१२॥

 

वासराणि कतिचित् कथञ्चन स्थाणुना रतम् अकारि चानया ।

ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम्॥८.१३॥

 

सस्वजे प्रियम् उरोनिपीडिता प्रार्थितं मुखम् अनेन नाहरत् ।

मेखलापणयलोलतां गतं हस्तम् अस्य शिथिलं रुरोध सा॥८.१४॥

 

भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरम् ।

कैश्चिद् एव दिवसैस् तदा तयोः प्रेम र्ऊढम् इतरेतराश्रयम्॥८.१५॥

 

तं यथात्मसदृशं वरं वधूर् अन्वरज्यत वरस् तथैव ताम् ।

सागराद् अनपगा हि जाह्नवी सो ऽपि तन्मुखरसैकनिर्वृतिः॥८.१६॥

 

शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया ।

शिक्षितं युवतिनैपुणं तया यत् तद् एव गुरुदक्षिणीकृतम्॥८.१७॥

 

दष्टमुक्तम् अधरोष्ठम् आम्बिका वेदनाविधुतहस्तपल्लवा ।

शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः॥८.१८॥

 

चुम्बनादलकचूर्णदूषितं शङ्करो ऽपि नयनं ललाटजम् ।

उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने॥८.१९॥

 

एवम् इन्द्रियसुखस्य वर्त्मनः सेवनाद् अनुगृहीतमन्मथः ।

शैलराजभवने सहोमया मासमात्रम् अवसद् वृषध्वजः॥८.२०॥

 

सो ऽनुमान्य हिमवन्तम् आत्मभूर् आत्मजाविरहदुःखखेदितम् ।

तत्र तत्र विजहार संपतन्न् अप्रमेयगतिना ककुद्मता॥८.२१॥

 

मेरुम् एत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान् कृती ।

हेमपल्लवविभङ्गसंस्तरान् अन्वभूत् सुरतमर्दनक्षमान्॥८.२२॥

 

पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्व् अमृतविप्रुषो नवाः ।

मन्दरस्य कटकेषु चावसत् पार्वतीवदनपद्मषट्पदः॥८.२३॥

 

वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः ।

एकपिङ्गलगिरौ जगद्गुरुर् निर्विवेश विशदाः शशिप्रभाः॥८.२४॥

 

तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।

आचचाम सलवङ्गकेसरश् चाटुकार इव दक्षिणानिलः॥८.२५॥

 

हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।

खे व्यगाहत तरङ्गिणीम् उमा मीनपङ्क्तिपुनरुक्तमेखला॥८.२६॥

 

तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।

नन्दने चिरम् अयुग्मलोचनः सस्पृहं सुरवधूभिर् ईक्षितः॥८.२७॥

 

इत्य् अभौमम् अनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् ।

लोहितायति कदाचिद् आतपे गन्धमादनगिरिं व्यगाहत॥८.२८॥

 

तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यम् अवलोक्य भास्करम् ।

दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम्॥८.२९॥

 

पद्मकान्तिम् अरुणत्रिभागयोः संक्रमय्य तव नेत्रयोर् इव ।

संक्षये जगद् इव प्रजेश्वरः संहरत्य् अहर् असाव् अहर्पतिः॥८.३०॥

 

सीकरव्यतिकरं मरीचिभिर् दूरयत्य् अवनते विवस्वति ।

इन्द्रचापपरिवेषशून्यतां निर्झरास् तव पितुर् व्रजन्त्य् अमी॥८.३१॥

 

दष्टतामरसकेसरस्रजोः क्रन्दतोर् विपरिवृत्तकण्ठयोः ।

निघ्नयोः सरसि चक्रवाकयोर् अल्पम् अन्तरम् अनल्पतां गतम्॥८.३२॥

 

स्थानम् आह्निकम् अपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।

आविभातचरणाय गृह्णाते वारि वारिरुहबद्धषट्पदम्॥८.३३॥

 

पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।

दीर्घया प्रतिमया सरो ऽम्भसां तापनीयम् इव सेतुबन्धनम्॥८.३४॥

 

उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्क्तम् अतिवाहितातपाः ।

दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव॥८.३५॥

 

एष वृक्षशिखरे कृतास्पदो जातर्ऊपरसगौरमण्डलः ।

हीयमानम् अहर् अत्ययातपं पीवरोरु पिबतीव बर्हिणः॥८.३६॥

 

पूर्वभागतिमिरप्रवृत्तिभिर् व्यक्तपङ्कम् इव जातम् एकतः ।

खं हृतातपजलं विवस्वता भाति किञ्चिद् इव शेषवत् सरः॥८.३७॥

 

आविशद्भिर् उटजाङ्गणं मृगैर् मूलसेकसरसैश् च वृक्षकैः ।

आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियम् उदीरिताग्नयः॥८.३८॥

 

बद्धकोशम् अपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।

षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वम् इव दातुम् अन्तरम्॥८.३९॥

 

दूरमग्रपरिमेयरश्मिना वारुणी दिग् अरुणेन भानुना ।

भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका॥८.४०॥

 

सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः ।

भानुम् अग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः॥८.४१॥

 

सो ऽयम् आनतशिरोधरैर् हयैः कर्णचामरविघट्टितेक्षणैः ।

अस्तम् एति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ॥८.४२॥

 

खं प्रसुप्तम् इव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।

तत् प्रकाशयति यावद् उद्गतं मीलनाय खलु तावतश् च्युतम्॥८.४३॥

 

संध्ययाप्य् अनुगतं रवेर् वपुर् वन्द्यम् अस्तशिखरे समर्पितम् ।

येन पूर्वम् उदये पुरस्कृता नानुयास्यति कथं तम् आपदि॥८.४४॥

 

रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्य् अमूः ।

द्रक्ष्यसि त्वम् इति संध्ययानया वर्तिकाभिर् इव साधुमण्डिताः॥८.४५॥

 

सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।

पश्य धातुशिखरेषु भानुना संविभक्तम् इव सांध्यम् आतपम्॥८.४६॥

 

अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः ।

ब्रह्म गूढम् अभिसंध्यम् आदृताः शुद्धये विधिविदो गृणन्त्य् अमी॥८.४७॥

 

तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि प्रस्तुताय नियमाय माम् अपि ।

त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति॥८.४८॥

 

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुर् अवधीरणापरा ।

शैलराजतनया समीपगाम् आललाप विजयाम् अहेतुकम्॥८.४९॥

 

ईश्वरो ऽपि दिवसात्ययोचितं मन्त्रपूर्वम् अनुतस्थिवान् विधिम् ।

पार्वतीम् अवचनाम् असूयया प्रत्युपेत्य पुनर् आह सस्मितम्॥८.५०॥

 

मुञ्च कोपम् अनिमित्तकोपने संध्यया प्रणमितो ऽस्मि नान्यया ।

किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिम् आत्मनः॥८.५१॥

 

निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु पूर्वम् उज्झिता ।

सेयम् अस्तम् उदयं च सेवते तेन मानिनि ममात्र गौरवम्॥८.५२॥

 

ताम् इमां तिमिरवृद्धिपीडितां शैलराजतनये ऽधुना स्थिताम् ।

एकतस् तटतमालमालिनीं पश्य धातुरसनिम्नगाम् इव॥८.५३॥

 

सान्ध्यम् अस्तमितशेषम् आतपं रक्तलेखम् अपरा बिभर्ति दिक् ।

सांपरायवसुधा सशोणितं मण्डलाग्रम् इव तिर्यगुज्झितम्॥८.५४॥

 

यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा ।

एतद् अन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते॥८.५५॥

 

नोर्ध्वम् ईक्षणगतिर् न चाप्य् अधो नाभितो न पुरतो न पृष्ठतः ।

लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि॥८.५६॥

 

शुद्धम् आविलम् अवस्थितं चलं वक्रम् आर्जवगुणान्वितं च यत् ।

सर्वम् एव तमसा समीकृतं धिङ् महत्त्वम् असतां हृतान्तरम्॥८.५७॥

 

नूनम् उन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।

पुण्डरीकमुखि पूर्वदिङ्मुखं कैतकैर् इव रजोभिर् आवृतम्॥८.५८॥

 

मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।

त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः॥८.५९॥

 

रुद्धनिर्गमनम् आ दिनक्षयात् पूर्वदृष्टतनुचन्द्रिकास्मितम् ।

एतद् उद्गिरति चन्द्रमण्डलं दिग्रहस्यम् इव रात्रिचोदितम्॥८.६०॥

 

पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरो ऽम्भसा ।

विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते॥८.६१॥

 

शक्यम् ओषधिपतेर् नवोदयाः कर्णपूररचनाकृते तव ।

अप्रगल्भयवसूचिकोमलाश् छेत्तुम् अग्रनखसंपुटैः कराः॥८.६२॥

 

अङ्गुलीभिर् इव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः ।

कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥८.६३॥

 

पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् ।

लक्ष्यते द्विरदभोगदूषितं संप्रसीदद् इव मानसं सरः॥८.६४॥

 

रक्तभावम् अपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।

विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया॥८.६५॥

 

उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।

नूनम् आत्मसदृशी प्रकल्पिता वेधसेह गुणदोषयोर् गतिः॥८.६६॥

 

चन्द्रपादजनितप्रवृत्तिभिश् चन्द्रकान्तजलबिन्दुभिर् गिरिः ।

मेखलातरुषु निद्रितान् अमून् बोधयत्य् असमये शिखण्डिनः॥८.६७॥

 

कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिर् इव पश्य सुन्दरि ।

हारयष्टिगणनाम् इवांशुभिः कर्तुम् आगतकुतूहलः शशी॥८.६८॥

 

उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेर् इयम् ।

भक्तिभिर् बहुविधाभिर् अर्पिता भाति भूतिर् इव मत्तदन्तिनः॥८.६९॥

 

एतद् उच्छ्वसितपीतम् ऐन्दवं वोढुम् अक्षमम् इव प्रभारसम् ।

मुक्तषट्पदविरावम् अञ्जसा भिद्यते कुमुदम् आ निबन्धनात्॥८.७०॥

 

पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितर्ऊपसंशयम् ।

मारुते चलति चण्डि केवलं व्यज्यते विपरिवृत्तम् अंशुकम्॥८.७१॥

 

शक्यम् अङ्गुलिभिर् उद्धृतैर् अधः शाखिनां पतितपुष्पपेशलैः ।

पत्रजर्जरशशिप्रभालवैर् एभिर् उत्कचयितुं तवालकान्॥८.७२॥

 

एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।

साध्वसाद् उपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥८.७३॥

 

पाकभिन्नशरकाण्डगौरयोर् उल्लसत्प्रतिकृतिप्रसन्नयोः ।

रोहतीव तव गण्डलेखयोश् चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका॥८.७४॥

 

लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।

त्वाम् इयं स्थितिमतीम् उपस्थिता गन्धमादनवनाधिदेवता॥८.७५॥

 

आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।

अत्र लब्धवसतिर् गुणान्तरं किं विलासिनि मदः करिष्यति॥८.७६॥

 

मान्यभक्तिर् अथवा सखीजनः सेव्यताम् इदम् अनङ्गदीपनम् ।

इत्य् उदारम् अभिधाय शङ्करस् ताम् अपाययत पानम् अम्बिकाम्॥८.७७॥

 

पार्वती तदुपयोगसम्भवां विक्रियाम् अपि सतां मनोहराम् ।

अप्रतर्क्यविधियोगनिर्मिताम् आम्रतेव सहकारतां ययौ॥८.७८॥

 

तत्क्षणं विपरिवर्तितह्रियोर् नेष्यतोः शयनम् इद्धरागयोः ।

सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च॥८.७९॥

 

घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमद् अकारणस्मितम् ।

आननेन न तु तावद् ईश्वरश् चक्षुषा चिरम् उमामुखं पपौ॥८.८०॥

 

तां विलम्बितपनीयमेखलाम् उद्वहञ् जघनभारदुर्वहाम् ।

ध्यानसंभृतविभूतिर् ईश्वरः प्राविशन् मणिशिलागृहं रहः॥८.८१॥

 

तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।

अध्यशेत शयनं प्रियासखः शारदाभ्रम् इव रोहिणीपतिः॥८.८२॥

 

क्लिष्टकेशम् अवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।

तस्य तच् छिदुरमेखलागुणं पार्वतीरतम् अभून् न तृप्तये॥८.८३॥

 

केवलं प्रियतमादयालुना ज्योतिषाम् अवनतासु पङ्क्तिषु ।

तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम्॥८.८४॥

 

स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् ।

मूर्च्छनापरिगृहीतकैशिकैः किन्नरैर् उषसि गीतमङ्गलः॥८.८५॥

 

तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर् मयः ।

पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः॥८.८६॥

 

ऊरुमूलनखमार्गराजिभिस् तत्क्षणं हृतविलोचनो हरः ।

वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमाम् अवारयत्॥८.८७॥

 

स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् ।

आकुलालकम् अरंस्त रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम्॥८.८८॥

 

तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।

निर्मले ऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम्॥८.८९॥

 

स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।

दर्शनप्रणयिनाम् अदृश्यताम् आजगाम विजयानिवेदनात्॥८.९०॥

 

समदिवसनिशीथं सङ्गिनस् तत्र शम्भोः शतम् अगमद् ऋतूनां साग्रम् एका निशेव ।

न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस् तज्जलेषु॥८.९१॥