कुमारसम्भव
॥१॥
अस्त्य् उत्तरस्यां
दिशि देवतात्मा
हिमालयो नाम नगाधिराजः
।
पूर्वापरौ
तोयनिधी विगाह्य
स्थितः पृथिव्या
इव मानदण्डः॥१.१॥
यं सर्वशैलाः
परिकल्प्य वत्सं
मेरौ स्थिते दोग्धरि
दोहदक्षे ।
भास्वन्ति
रत्नानि महौषधीश्
च पृथूपदिष्टां
दुदुहुर् धरित्रीम्॥१.२॥
अनन्तरत्नप्रभवस्य
यस्य हिमं न सौभाग्यविलोपि
जातम् ।
एको हि दोषो
गुणसंनिपाते निमज्जतीन्दोः
किरणेष्व् इवाङ्कः॥१.३॥
यश् चाप्सरोविभ्रममण्डनानां
संपादयित्रीं
शिखरैर् बिभर्ति
।
बलाहकच्छेदविभक्तरागाम्
अकालसंध्याम्
इव धातुमत्ताम्॥१.४॥
आमेखलं संचरतां
घनानां च्छायाम्
अधःसानुगतां निषेव्य
।
उद्वेजिता
वृष्टिभिर् आश्रयन्ते
शृङ्गाणि यस्यातपवन्ति
सिद्धाः॥१.५॥
पदं तुषारस्रुतिधौतरक्तं
यस्मिन्न् अदृष्ट्वापि
हतद्विपानाम्
।
विदन्ति मार्गं
नखरन्ध्रमुक्तैर्
मुक्ताफलैः केसरिणां
किराताः॥१.६॥
न्यस्ताक्षरा
धातुरसेन यत्र
भूर्जत्वचः कुञ्जरबिन्दुशोणाः
।
व्रजन्ति विद्याधरसुन्दरीणाम्
अनङ्गलेखक्रिययोपयोगम्॥१.७॥
यः पूरयन्
कीचकरन्ध्रभागान्
दरीमुखोत्थेन
समीरणेन ।
उद्गास्यताम्
इच्छति किंनराणां
तानप्रदायित्वम्
इवोपगन्तुम्॥१.८॥
कपोलकण्डूः
करिभिर् विनेतुं
विघट्टितानां
सरलद्रुमाणाम्
।
यत्र स्रुतक्षीरतया
प्रसूतः सानूनि
गन्धः सुरभीकरोति॥१.९॥
वनेचराणां
वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः
।
भवन्ति यत्रौषधयो
रजन्याम् अतैलपूराः
सुरतप्रदीपाः॥१.१०॥
उद्वेजयत्य्
अङ्गुलिपार्ष्णिभागान्
मार्गे शिलीभूतहिमे
ऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता
भिन्दन्ति मन्दां
गतिम् अश्वमुख्यः॥१.११॥
दिवाकराद्
रक्षति यो गुहासु
लीनं दिवा भीतम्
इवान्धकारम् ।
क्षुद्रे ऽपि
नूनं शरणं प्रपन्ने
ममत्वम् उच्चैःशिरसां
सतीव॥१.१२॥
लाङ्गूलविक्षेपविसर्पिशोभैर्
इतस् ततश् चन्द्रमरीचिगौरैः
।
यस्यार्थयुक्तं
गिरिराजशब्दं
कुर्वन्ति वालव्यजनैश्
चमर्यः॥१.१३॥
यत्रांशुकाक्षेपविलज्जितानां
यदृच्छया किंपुरुषाङ्गनानाम्
।
दरीगृहद्वारविलम्बिबिम्बास्
तिरस्करिण्यो
जलदा भवन्ति॥१.१४॥
भागीरथीनिर्झरसीकराणां
वोढा मुहुः कम्पितदेवदारुः
।
यद् वायुर्
अन्विष्टमृगैः
किरातैर् आसेव्यते
भिन्नशिखण्डिबर्हः॥१.१५॥
सप्तर्षिहस्तावचितावशेषाण्य्
अधो विवस्वान्
परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि
प्रबोधयत्य् ऊर्ध्वमुखैर्
मयूखैः॥१.१६॥
यज्ञाङ्गयोनित्वम्
अवेक्ष्य यस्य
सारं धरित्रीधरणक्षमं
च ।
प्रजापतिः
कल्पितयज्ञभागं
शैलाधिपत्यं स्वयम्
अन्वतिष्ठत्॥१.१७॥
स मानसीं मेरुसखः
पित्ṝ्णां कन्यां
कुलस्य स्थितये
स्थितिज्ञः ।
मेनां मुनीनाम्
अपि माननीयाम्
आत्मानुर्ऊपां
विधिनोपयेमे॥१.१८॥
कालक्रमेणाथ
तयोः प्रवृत्ते
स्वर्ऊपयोग्ये
सुरतप्रसङ्गे
।
मनोरमं यौवनम्
उद्वहन्त्या गर्भो
ऽभवद् भूधरराजपत्न्याः॥१.१९॥
असूत सा नागवधूपभोग्यं
मैनाकम् अम्भोनिधिबद्धसख्यम्
।
क्रुद्धे ऽपि
पक्षच्छिदि वृत्रशत्राव्
अवेदनाज्ञं कुलिशक्षतानाम्॥१.२०॥
अथावमानेन
पितुः प्रयुक्ता
दक्षस्य कन्या
भवपूर्वपत्नी
।
सती सती योगविसृष्टदेहा
तां जन्मने शैलवधूं
प्रपेदे॥१.२१॥
सा भूधराणाम्
अधिपेन तस्यां
समाधिमत्याम्
उदपादि भव्या ।
सम्यक्प्रयोगाद्
अपरिक्षतायां
नीताव् इवोत्साहगुणेन
संपत्॥१.२२॥
प्रसन्नदिक्
पांसुविविक्तवातं
शङ्खस्वनानन्तरपुष्पवृष्टि
।
शरीरिणां स्थावरजङ्गमानां
सुखाय तज्जन्मदिनं
बभूव॥१.२३॥
तया दुहित्रा
सुतरां सवित्री
स्फुरत्प्रभामण्डलया
चकासे ।
विदूरभूमिर्
नवमेघशब्दाद्
उद्भिन्नया रत्नशलाकयेव॥१.२४॥
दिने दिने
सा परिवर्धमाना
लब्धोदया चान्द्रमसीव
लेखा ।
पुपोष लावण्यमयान्
विशेषाञ् ज्योत्स्नान्तराणीव
कलान्तराणि॥१.२५॥
तां पार्वतीत्य्
आभिजनेन नाम्ना
बन्धुप्रियां
बन्धुजनो जुहाव
।
उ मेति मात्रा
तपसो निषिद्धा
पश्चाद् उमाख्यां
सुमुखी जगाम॥१.२६॥
महीभृतः पुत्रवतो
ऽपि दृष्टिस् तस्मिन्न्
अपत्ये न जगाम
तृप्तिम् ।
अनन्तपुष्पस्य
मधोर् हि चूते
द्विरेफमाला सविशेषसङ्गा॥१.२७॥
प्रभामहत्या
शिखयेव दीपस् त्रिमार्गयेव
त्रिदिवस्य मार्गः
।
संस्कारवत्येव
गिरा मनीषी तया
स पूतश् च विभूषितश्
च॥१.२८॥
मन्दाकिनीसैकतवेदिकाभिः
सा कन्दुकैः कृत्रिमपुत्रकैश्
च ।
रेमे मुहुर्
मध्यगता सखीनां
क्रीडारसं निर्विशतीव
बाल्ये॥१.२९॥
तां हंसमालाः
शरदीव गङ्गां महौषधिं
नक्तम् इवात्मभासः
।
स्थिरोपदेशाम्
उपदेशकाले प्रपेदिरे
प्राक्तनजन्मविद्याः॥१.३०॥
असंभृतं मण्डनम्
अङ्गयष्टेर् अनासवाख्यं
करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तम्
अस्त्रं बाल्यात्
परं साथ वयः प्रपेदे॥१.३१॥
उन्मीलितं
तूलिकयेव चित्रं
सूर्यांशुभिर्
भिन्नम् इवारविन्दम्
।
बभूव तस्याश्
चतुरस्रशोभि वपुर्
विभक्तं नवयौवनेन॥१.३२॥
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्
निक्षेपणाद् रागम्
इवोद्गिरन्तौ
।
आजह्रतुस्
तच्चरणौ पृथिव्यां
स्थलारविन्दश्रियम्
अव्यवस्थाम्॥१.३३॥
सा राजहंसैर्
इव संनताङ्गी गतेषु
लीलाञ्चितविक्रमेषु
।
व्यनीयत प्रत्युपदेशलुब्धैर्
आदित्सुभिर् नूपुरसिञ्जितानि॥१.३४॥
वृत्तानुपूर्वे
च न चातिदीर्घे
जङ्घे शुभे सृष्टवतस्
तदीये ।
शेषाङ्गनिर्माणविधौ
विधातुर् लावण्य
उत्पाद्य इवास
यत्नः॥१.३५॥
नागेन्द्रहस्तास्
त्वचि कर्कशत्वाद्
एकान्तशैत्यात्
कदलीविशेषाः ।
लब्ध्वापि
लोके परिणाहि र्ऊपं
जातास् तदूर्वोर्
उपमानबाह्याः॥१.३६॥
एतावता नन्व्
अनुमेयशोभं काञ्चीगुणस्थानम्
अनिन्दितायाः
।
आरोपितं यद्
गिरिशेन पश्चाद्
अनन्यनारीकमनीयम्
अङ्कम्॥१.३७॥
तस्याः प्रविष्टा
नतनाभिरन्ध्रं
रराज तन्वी नवलोमराजिः
।
नीवीम् अतिक्रम्य
सितेतरस्य तन्मेखलामध्यमणेर्
इवार्चिः॥१.३८॥
मध्येन सा
वेदिविलग्नमध्या
वलित्रयं चारु
बभार बाला ।
आरोहणार्थं
नवयौवनेन कामस्य
सोपानम् इव प्रयुक्तम्॥१.३९॥
अन्योन्यम्
उत्पीडयद् उत्पलाक्ष्याः
स्तनद्वयं पाण्डु
तथा प्रवृद्धम्
।
मध्ये यथा
श्याममुखस्य तस्य
मृणालसूत्रान्तरम्
अप्य् अलभ्यम्॥१.४०॥
शिरीषपुष्पाधिकसौकुमार्यौ
बाहू तदीयाव् इति
मे वितर्कः ।
पराजितेनापि
कृतौ हरस्य यौ
कण्ठपाशौ मकरध्वजेन॥१.४१॥
कण्ठस्य तस्याः
स्तनबन्धुरस्य
मुक्ताकलापस्य
च निस्तलस्य ।
अन्योन्यशोभाजननाद्
बभूव साधारणो भूषणभूष्यभावः॥१.४२॥
चन्द्रं गता
पद्मगुणान् न भुङ्क्ते
पद्माश्रिता चान्द्रमसीम्
अभिख्याम् ।
उमामुखं तु
प्रतिपद्य लोला
द्विसंश्रयां
प्रीतिम् अवाप
लक्ष्मीः॥१.४३॥
पुष्पं प्रवालोपहितं
यदि स्यान् मुक्ताफलं
वा स्फुटविद्रुमस्थम्
।
ततो ऽनुकुर्याद्
विशदस्य तस्यास्
ताम्रौष्ठपर्यस्तरुचः
स्मितस्य॥१.४४॥
स्वरेण तस्याम्
अमृतस्रुतेव प्रजल्पितायाम्
अभिजातवाचि ।
अप्य् अन्यपुष्टा
प्रतिकूलशब्दा
श्रोतुर् वितन्त्रीर्
इव ताड्यमाना॥१.४५॥
प्रवातनीलोत्पलनिर्विशेषम्
अधीरविप्रेक्षितम्
आयताक्ष्या ।
तया गृहीतं
नु मृगाङ्गनाभ्यस्
ततो गृहीतं नु
मृगाङ्गनाभिः॥१.४६॥
तस्याः शलाकाञ्जननिर्मितेव
कान्तिर् भ्रुवोर्
आनतलेखयोर् या
।
तां वीक्ष्य
लीलाचतुराम् अनङ्गः
स्वचापसौन्दर्यमदं
मुमोच॥१.४७॥
लज्जा तिरश्चां
यदि चेतसि स्याद्
असंशयं पर्वतराजपुत्र्याः
।
तं केशपाशं
प्रसमीक्ष्य कुर्युर्
वालप्रियत्वं
शिथिलं चमर्यः॥१.४८॥
सर्वोपमाद्रव्यसमुच्चयेन
यथाप्रदेशं विनिवेशितेन
।
सा निर्मिता
विश्वसृजा प्रयत्नाद्
एकस्थसौन्दर्यदिदृक्षयेव॥१.४९॥
तां नारदः
कामचरः कदा चित्
कन्यां किल प्रेक्ष्य
पितुः समीपे ।
समादिदेशैकवधूं
भवित्रीं प्रेम्णा
शरीरार्धहरां
हरस्य॥१.५०॥
गुरुः प्रगल्भे
ऽपि वयस्य् अतो
ऽस्यास् तस्थौ
निवृत्तान्यवराभिलाषः
।
ऋते कृशानोर्
न हि मन्त्रपूतम्
अर्हन्ति तेजांस्य्
अपराणि हव्यम्॥१.५१॥
अयाचितारं
न हि देवदेवम्
अद्रिः सुतां ग्राहयितुं
शशाक ।
अभ्यर्थनाभङ्गभयेन
साधुर् माध्यस्थ्यम्
इष्टे ऽप्य् अवलम्बते
ऽर्थे॥१.५२॥
यदैव पूर्वे
जनने शरीरं सा
दक्षरोषात् सुदती
ससर्ज ।
तदाप्रभृत्य्
एव विमुक्तसङ्गः
पतिः पशूनाम् अपरिग्रहो
ऽभूत्॥१.५३॥
स कृत्तिवासास्
तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु
।
प्रस्थं हिमाद्रेर्
मृगनाभिगन्धि
किं चित् क्वणत्किंनरम्
अध्युवास॥१.५४॥
गणा नमेरुप्रसवावतंसा
भूर्जत्वचः स्पर्शवतीर्
दधानाः ।
मनःशिलाविच्छुरिता
निषेदुः शैलेयनद्धेषु
शिलातलेषु॥१.५५॥
तुषारसंघातशिलाः
खुराग्रैः समुल्लिखन्
दर्पकलः ककुद्मान्
।
दृष्टः कथं
चिद् गवयैर् विविग्नैर्
असोढसिंहध्वनिर्
उन्ननाद॥१.५६॥
तत्राग्निम्
आधाय समित्समिद्धं
स्वम् एव मूर्त्यन्तरम्
अष्टमूर्तिः ।
स्वयं विधाता
तपसः फलानाम् केनापि
कामेन तपश् चचार॥१.५७॥
अनर्घ्यम्
अर्घ्येण तम् अद्रिनाथः
स्वर्गौकसाम्
अर्चितम् अर्चयित्वा
।
आराधनायास्य
सखीसमेतां समादिदेश
प्रयतां तनूजाम्॥१.५८॥
प्रत्यर्थिभूताम्
अपि तां समाधेः
शुश्र्ऊषमाणां
गिरिशो ऽनुमेने
।
विकारहेतौ
सति विक्रियन्ते
येषां न चेतांसि
त एव धीराः॥१.५९॥
अवचितबलिपुष्पा
वेदिसंमार्गदक्षा
नियमविधिजलानां
बर्हिषां चोपनेत्री
।
गिरिशम् उपचचार
प्रत्यहं सा सुकेशी
नियमितपरिखेदा
तच्छिरश्चन्द्रपादैः॥१.६०॥
॥२॥
तस्मिन् विप्रकृताः
काले तारकेण दिवौकसः
।
तुरासाहं पुरोधाय
धाम स्वायंभुवं
ययुः॥२.१॥
तेषाम् आविर्
अभूद् ब्रह्मा
परिम्लानमुखश्रियाम्
।
सरसां सुप्तपद्मानां
प्रातर् दीधितिमान्
इव॥२.२,॥
अथ सर्वस्य
धातारं ते सर्वे
सर्वतोमुखम् ।
वागीशं वाग्भिर्
अर्थ्याभिः प्रणिपत्योपतस्थिरे॥२.३॥
नमस् त्रिमूर्तये
तुभ्यं प्राक्
सृष्टेः केवलात्मने
।
गुणत्रयविभागाय
पश्चाद् भेदम्
उपेयुषे॥२.४॥
यद् अमोघम्
अपाम् अन्तर् उप्तं
बीजम् अज त्वया
।
अतश् चराचरं
विश्वं प्रभवस्
तस्य गीयसे॥२.५॥
तिसृभिस् त्वम्
अवस्थाभिर् महिमानम्
उदीरयन् ।
प्रलयस्थितिसर्गाणाम्
एकः कारणतां गतः॥२.६॥
स्त्रीपुंसाव्
आत्मभागौ ते भिन्नमूर्तेः
सिसृक्षया ।
प्रसूतिभाजः
सर्गस्य ताव् एव
पितरौ स्मृतौ॥२.७॥
स्वकालपरिमाणेन
व्यस्तरात्रिंदिवस्य
ते ।
यौ तु स्वप्नावबोधौ
तौ भूतानां प्रलयोदयौ॥२.८॥
जगद्योनिर्
अयोनिस् त्वं जगदन्तो
निरन्तकः ।
जगदादिर् अनादिस्
त्वं जगदीशो निरीश्वरः॥२.९॥
आत्मानम् आत्मना
वेत्सि सृजस्य्
आत्मानम् आत्मना
।
आत्मना कृतिना
च त्वम् आत्मन्य्
एव प्रलीयसे॥२.१०॥
द्रवः संघातकठिनः
स्थूलः सूक्ष्मो
लघुर् गुरुः ।
व्यक्तो व्यक्तेतरश्
चासि प्राकाम्यं
ते विभूतिषु॥२.११॥
उद्घातः प्रणवो
यासां न्यायैस्
त्रिभिर् उदीरणम्
।
कर्म यज्ञः
फलं स्वर्गस् तासां
त्वं प्रभवो गिराम्॥२.१२॥
त्वाम् आमनन्ति
प्रकृतिं पुरुषार्थप्रवर्तिनीम्
।
तद्दर्शिनम्
उदासीनं त्वाम्
एव पुरुषं विदुः॥२.१३॥
त्वं पित्ṝ्णाम् अपि
पिता देवानाम्
अपि देवता ।
परतो ऽपि परश्
चासि विधाता वेधसाम्
अपि॥२.१४॥
त्वम् एव हव्यं
होता च भोज्यं
भोक्ता च शाश्वतः
।
वेद्यं च वेदिता
चासि ध्याता ध्येयं
च यत् परम्॥२.१५॥
इति तेभ्यः
स्तुतीः श्रुत्वा
यथार्था हृदयंगमाः
।
प्रसादाभिमुखो
वेधाः प्रत्युवाच
दिवौकसः॥२.१६॥
पुराणस्य कवेस्
तस्य चतुर्मुखसमीरिता
।
प्रवृत्तिर्
आसीच् छब्दानां
चरितार्था चतुष्टयी॥२.१७॥
स्वागतं स्वान्
अधीकारान् प्रभावैर्
अवलम्ब्य वः ।
युगपद् युगबाहुभ्यः
प्राप्तेभ्यः
प्राज्यविक्रमाः॥२.१८॥
किम् इदं द्युतिम्
आत्मीयां न बिभ्रति
यथा पुरा ।
हिमक्लिष्टप्रकाशानि
ज्योतींषीव मुखानि
वः॥२.१९॥
प्रशमाद् अर्चिषाम्
एतद् अनुद्गीर्णसुरायुधम्
।
वृत्रस्य हन्तुः
कुलिशं कुण्ठिताश्रीव
लक्ष्यते॥२.२०॥
किं चायम्
अरिदुर्वारः पाणौ
पाशः प्रचेतसः
।
मन्त्रेण हतवीर्यस्य
फणिनो दैन्यम्
आश्रितः॥२.२१॥
कुबेरस्य मनःशल्यं
शंसतीव पराभवम्
।
अपविद्धगदो
बाहुर् भग्नशाख
इव द्रुमः॥२.२२॥
यमो ऽपि विलिखन्
भूमिं दण्डेनास्तमितत्विषा
।
कुरुते ऽस्मिन्न्
अमोघे ऽपि निर्वाणालातलाघवम्॥२.२३॥
अमी च कथम्
आदित्याः प्रतापक्षतिशीतलाः
।
चित्रन्यस्ता
इव गताः प्रकामालोकनीयताम्॥२.२४॥
पर्याकुलत्वान्
मरुतां वेगभङ्गो
ऽनुमीयते ।
अम्भसाम् ओघसंरोधः
प्रतीपगमनाद्
इव॥२.२५॥
आवर्जितजटामौलि-
विलम्बिशशिकोटयः
।
रुद्राणाम्
अपि मूर्धानः क्षतहुंकारशंसिनः॥२.२६॥
लब्धप्रतिष्ठाः
प्रथमं यूयं किं
बलवत्तरैः ।
अपवादैर् इवोत्सर्गाः
कृतव्यावृत्तयः
परैः॥२.२७॥
तद् ब्र्ऊत
वत्साः किम् इतः
प्रार्थयध्वे
समागताः ।
मयि सृष्टिर्
हि लोकानां रक्षा
युष्मास्व् अवस्थिता॥२.२८॥
ततो मन्दानिलोद्धूत-
कमलाकरशोभिना
।
गुरुं नेत्रसहस्रेण
चोदयाम् आस वासवः॥२.२९॥
स द्विनेत्रो
हरेश् चक्षुः सहस्रनयनाधिकम्
।
वाचस्पतिर्
उवाचेदं प्राञ्जलिर्
जलजासनम्॥२.३०॥
एवं यद् आत्थ
भगवन्न् आमृष्टं
नः परैः पदम् ।
प्रत्येकं
विनियुक्तात्मा
कथं न ज्ञास्यसि
प्रभो॥२.३१॥
भवल्लब्धवरोदीर्णस्
तारकाख्यो महासुरः
।
उपप्लवाय लोकानां
धूमकेतुर् इवोत्थितः॥२.३२॥
पुरे तावन्तम्
एवास्य तनोति रविर्
आतपम् ।
दीर्घिकाकमलोन्मेषो
यावन्मात्रेण
साध्यते॥२.३३॥
सर्वाभिः सर्वदा
चन्द्रस् तं कलाभिर्
निषेवते ।
नादत्ते केवलां
लेखां हरचूडामणीकृताम्॥२.३४॥
व्यावृत्तगतिर्
उद्याने कुसुमस्तेयसाध्वसात्
।
न वाति वायुस्
तत्पार्श्वे तालवृन्तानिलाधिकम्॥२.३५॥
पर्यायसेवाम्
उत्सृज्य पुष्पसंभारतत्पराः
।
उद्यानपालसामान्यम्
ऋतवस् तम् उपासते॥२.३६॥
तस्योपायनयोग्यानि
रत्नानि सरितां
पतिः ।
कथम् अप्य्
अम्भसाम् अन्तर्
आ निष्पत्तेः प्रतीक्षते॥२.३७॥
ज्वलन्मणिशिखाश्
चैनं वासुकिप्रमुखा
निशि ।
स्थिरप्रदीपताम्
एत्य भुजंगाः पर्युपासते॥२.३८॥
ग्Qर्जोVइQVप्च् RCQCओfUL।।प्ज्NEच्\\\\ मुहुर्
दूतहारितैः ।??
अनुकूलयतीन्द्रो
ऽपि कल्पद्रुमविभूषणैः॥२.३९॥
इत्थम् आराध्यमानो
ऽपि क्लिश्नाति
भुवनत्रयम् ।
शाम्येत् प्रत्यपकारेण
नोपकारेण दुर्जनः॥२.४०॥
तेनामरवधूहस्तैः
सदयालूनपल्लवाः
।
अभिज्ञाश्
छेदपातानां क्रियन्ते
नन्दनद्रुमाः॥२.४१॥
वीज्यते स
हि संसुप्तः श्वाससाधारणानिलैः
।
चामरैः सुरबन्दीनां
बाष्पशीकरवर्षिभिः॥२.४२॥
उत्पाट्य मेरुशृङ्गाणि
क्षुण्णानि हरितां
खुरैः ।
आक्रीडपर्वतास्
तेन कल्पिताः स्वेषु
वेश्मसु॥२.४३॥
मन्दाकिन्याः
पयःशेषं दिग्वारणमदाविलम्
।
हेमाम्भोरुहसस्यानां
तद्वाप्यो धाम
सांप्रतम्॥२.४४॥
भुवनालोकनप्रीतिः
स्वर्गिभिर् नानुभूयते
।
खिलीभूते विमानानां
तदापातभयात् पथि॥२.४५॥
यज्वभिः संभृतं
हव्यं विततेष्व्
अध्वरेषु सः ।
जातवेदोमुखान्
मायी मिषताम् आच्छिनत्ति
नः॥२.४६॥
उच्चैर् उच्चैःश्रवास्
तेन हयरत्नम् अहारि
च ।
देहबद्धम्
इवेन्द्रस्य चिरकालार्जितं
यशः॥२.४७॥
तस्मिन्न्
उपायाः सर्वे नः
क्र्ऊरे प्रतिहतक्रियाः
।
वीर्यवत्य्
औषधानीव विकारे
सांनिपातिके॥२.४८॥
जयाशा यत्र
चास्माकं प्रतिघातोत्थितार्चिषा
।
हरिचक्रेण
तेनास्य कण्ठे
निष्क इवार्पितः॥२.४९॥
तदीयास् तोयदेष्व्
अद्य पुष्करावर्तकादिषु
।
अभ्यस्यन्ति
तटाघातं निर्जितैरावता
गजाः॥२.५०॥
तद् इच्छामो
विभो सृष्टं सेनान्यं
तस्य शान्तये ।
कर्मबन्धच्छिदं
धर्मं भवस्येव
मुमुक्षवः॥२.५१॥
गोप्तारं सुरसैन्यानां
यं पुरस्कृत्य
गोत्रभित् ।
प्रत्यानेष्यति
शत्रुभ्यो बन्दीम्
इव जयश्रियम्॥२.५२॥
वचस्य् अवसिते
तस्मिन् ससर्ज
गिरम् आत्मभूः
।
गर्जितानन्तरां
वृष्टिं सौभाग्येन
जिगाय या॥२.५३॥
संपत्स्यते
वः कामो यं कालः
कश्चित् प्रतीक्ष्यताम्
।
न त्व् अस्य
सिद्धौ यास्यामि
सर्गव्यापारम्
आत्मना॥२.५४॥
इतः स दैत्यः
प्राप्तश्रीर्
नेत एवार्हति क्षयम्
।
विषवृक्षो
ऽपि संवर्ध्य स्वयं
छेत्तुम् असांप्रतम्॥२.५५॥
वृतं तेनेदम्
एव प्राङ् मया
चास्मै प्रतिश्रुतम्
।
वरेण शमितं
लोकान् अलं दग्धुं
हि तत्तपः॥२.५६॥
संयुगे सांयुगीनं
तम् उद्यतं प्रसहेत
कः ।
अंशाद् ऋते
निषिक्तस्य नीललोहितरेतसः॥२.५७॥
स हि देवः परं
ज्योतिस् तमःपारे
व्यवस्थितम् ।
परिच्छिन्नप्रभावर्द्धिर्
न मया न च विष्णुना॥२.५८॥
उमार्ऊपेण
ते यूयं संयमस्तिमितं
मनः ।
शंभोर् यतध्वम्
आक्रष्टुम् अयस्कान्तेन
लोहवत्॥२.५९॥
उभे एव क्षमे
वोढुम् उभयोर्
वीर्यम् आहितनसंनिकृष्टम्
इतो निषीदेति विसृष्टभूमिः
।अ॥२.६०॥
तस्यात्मा
शितिकण्ठस्य सैनापत्यम्
उपेत्य वः ।
मोक्ष्यते
सुरबन्दीनां वेणीर्
वीर्यविभूतिभिः॥२.६१॥
इति व्याहृत्य
विबुधान् विश्वयोनिस्
तिरोदधे ।
मनस्य् आहितकर्तव्यास्
ते ऽपि प्रतिययुर्
दिवम्॥२.६२॥
तत्र निश्चित्य
कन्दर्पम् अगमत्
पाकशासनः ।
मनसा कार्यसंसिद्धि-
त्वराद्विगुणरंहसा॥२.६३॥
अथ स ललितयोषिद्भ्र्ऊलताचारुशृङ्गं
रतिवलयपदाङ्के
चापम् आसज्य कण्ठे
।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखम् उपतस्थे
प्राञ्जलिः पुष्पधन्वा॥२.६४॥
॥३॥
तस्मिन् मघोनस्
त्रिदशान् विहाय
सहस्रम् अक्ष्णां
युगपत् पपात ।
प्रयोजनापेक्षितया
प्रभूणां प्रायश्
चलं गौरवम् आश्रितेषु॥३.१॥
स वासवेनासनसंनिकृष्टम्
इतो निषीदेति विसृष्टभूमिः
।
भर्तुः प्रसादं
प्रतिनन्द्य मूर्ध्ना
वक्तुं मिथः प्राक्रमतैवम्
एनम्॥३.२॥
आज्ञापय ज्ञातविशेष
पुंसां लोकेषु
यत् ते करणीयम्
अस्ति ।
अनुग्रहं संस्मरणप्रवृत्तम्
इच्छामि संवर्धितम्
आज्ञया ते॥३.३॥
केनाभ्यसूया
पदकाङ्क्षिणा
ते नितान्तदीर्घैर्
जनिता तपोभिः ।
यावद् भवत्य्
आहितसायकस्य मत्कार्मुकस्यास्य
निदेशवर्ती॥३.४॥
असंमतः कस्
तव मुक्तिमार्गं
पुनर्भवक्लेशभयात्
प्रपन्नः ।
बद्धश् चिरं
तिष्ठतु सुन्दरीणाम्
आरेचितभ्र्ऊचतुरैः
कटाक्षैः॥३.५॥
अध्यापितस्योशनसापि
नीतिं प्रयुक्तरागप्रणिधिर्
द्विषस् ते ।
कस्यार्थधर्मौ
वद पीडयामि सिन्धोस्
तटाव् ओघ इव प्रवृद्धः॥३.६॥
काम् एकपत्नीव्रतदुःखशीलां
लोलं मनश् चारुतया
प्रविष्टाम् ।
नितम्बिनीम्
इच्छसि मुक्तलज्जां
कण्ट्ःए स्वयंग्राहनिषक्तबाहुम्॥३.७॥??
कयासि कामिन्
सुरतापराधात्
पादानतः कोपनयावधूतः
।
यस्याः करिष्यामि
दृढानुतापं प्रवालशय्याशरणं
शरीरम्॥३.८॥
प्रसीद विश्राम्यतु
वीर वज्रं शरैर्
मदीयैः कतमः सुरारिः
।
बिभेतु मोघीकृतबाहुवीर्यः
स्त्रीभ्यो ऽपि
कोपस्फुरिताधराभ्यः॥३.९॥
तव प्रसादात्
कुसुमायुधो ऽपि
सहायम् एकं मधुम्
एव लब्ध्वा ।
कुर्यां हरस्यापि
पिनाकपाणेर् धैर्यच्युतिं
के मम धन्विनो
ऽन्ये॥३.१०॥
अथोरुदेशाद्
अवतार्य पादम्
आक्रान्तिसंभावितपादपीठम्
।
संकल्पिथार्थे
विवृतात्मशक्तिम्
आखण्डलः कामम्
इदं बभाषे॥३.११॥
सर्वं सखे
त्वय्य् उपपन्नम्
एतद् उभे ममास्त्रे
कुलिशं भवांश्
च ।
वज्रं तपोवीर्यमहत्सु
कुण्ट्ःअं त्वं
सर्वतोगामि च साधकं
च॥३.१२॥??
अवैमि ते सारम्
अतः खलु त्वां
कार्ये गुरुण्य्
आत्मसमं नियोक्ष्ये
।
व्यादिश्यते
भूधरताम् अवेक्ष्य
कृष्णेन देहोद्वहनाय
शेषः॥३.१३॥
आशंसता बाणगतिं
वृषाङ्के कार्यं
त्वया नः प्रतिपन्नकल्पम्
।
निबोध यज्ञांशभुजाम्
इदानीम् उच्चैर्द्विषाम्
ईप्सितम् एतद्
एव॥३.१४॥
अमी हि वीर्यप्रभवं
भवस्य जयाय सेनान्यम्
उशन्ति देवाः ।
स च त्वदेकेषुनिपातसाध्यो
ब्रह्माङ्गभूर्
ब्रह्मणि योजितात्मा॥३.१५॥
तस्मै हिमाद्रेः
प्रयतां तनूजां
यतात्मने रोचयितुं
यतस्व ।
योषित्सु तद्वीर्यनिषेकभूमिः
सैव क्षमेत्य्
आत्मभुवोपदिष्टम्॥३.१६॥
गुरोर् नियोगाच्
च नगेन्द्रकन्या
स्थाणुं तपस्यन्तम्
अधित्यकायाम्
।
अन्वास्त इत्य्
अप्सरसां मुखेभ्यः
श्रुतं मया मत्प्रणिधिः
स वर्गः॥३.१७॥
तद् गच्छ सिद्ध्यै
कुरु देवकार्यम्
अर्थो ऽयम् अर्थान्तरभाव्य
एव ।
अपेक्षते प्रत्ययम्
उत्तमं त्वां बीजाङ्कुरः
प्राग् उदयाद्
इवाम्भः॥३.१८॥
तस्मिन् सुराणां
विजयाभ्युपाये
तवैव नामास्त्रगतिः
कृती त्वम् ।
अप्य् अप्रसिद्धं
यशसे हि पुंसाम्
अनन्यसाधारणम्
एव कर्म॥३.१९॥
सुराः समभ्यर्थयितार
एते कार्यं त्रयाणाम्
अपि विष्टपानाम्
।
चापेन ते कर्म
न चातिहिंस्रम्
अहो बतासि स्पृहणीयवीर्यः॥३.२०॥
मधुश् च ते
मन्मथ साहचर्याद्
आसव् अनुक्तो ऽपि
सहाय एव ।
समीरणो नोदयिता
भवेति व्यादिश्यते
केन हुताशनस्य॥३.२१॥
तथेति शेषाम्
इव भर्तुर् आज्ञाम्
आदाय मूर्ध्ना
मदनः प्रतस्थे
।
ऐरावतास्फालनकर्कशेन
हस्तेन पस्पर्श
तदङ्गम् इन्द्रः॥३.२२॥
स माधवेनाभिमतेन
सख्या रत्या च
साशङ्कम् अनुप्रयातः
।
अङ्गव्ययप्रार्थितकार्यसिद्धिः
स्थाण्वाश्रमं
हैमवतं जगाम॥३.२३॥
तस्मिन् वने
संयमिनां मुनीनां
तपःसमाधेः प्रतिकूलवर्ती
।
संकल्पयोनेर्
अभिमानभूतम् आत्मानम्
आधाय मधुर् जजृम्भे॥३.२४॥
कुबेरगुप्तां
दिशम् उष्णरश्मौ
गन्तुं प्रवृत्ते
समयं विलङ्घ्य
।
दिग् दक्षिणा
गन्धवहं मुखेन
व्यलीकनिःश्वासम्
इवोत्ससर्ज॥३.२५॥
असूत सद्यः
कुसुमान्य् अशोकः
स्कन्धात् प्रभृत्य्
एव सपल्लवानि ।
पादेन नापैक्षत
सुन्दरीणां संपर्कम्
आसिञ्जितनूपुरेण॥३.२६॥
सद्यः प्रवालोद्गमचारुपत्रे
नीते समाप्तिं
नवचूतबाणे ।
निवेशयाम्
आस मधुर् द्विरेफान्
नामाक्षराणीव
मनोभवस्य॥३.२७॥
वर्णप्रकर्षे
सति कर्णिकारं
दुनोति निर्गन्धतया
स्म चेतः ।
प्रायेण सामग्र्यविधौ
गुणानां पराङ्मुखी
विश्वसृजः प्रवृत्तिः॥३.२८॥
बालेन्दुवक्राण्य्
अविकासभावाद्
बभुः पलाशान्य्
अतिलोहितानि ।
सद्यो वसन्तेन
समागतानां नखक्षतानीव
वनस्थलीनाम्॥३.२९॥
लग्नद्विरेफाञ्जनभक्तिचित्रम्
मुखे मधुश्रीस्
तिलकं प्रकाश्य
।
रागेण बालारुणकोमलेन
चूतप्रवालोष्ठम्
अलंचकार॥३.३०॥
मृगाः प्रियालद्रुममञ्जरीणां
रजःकणैर् विघ्नितदृष्टिपाताः
।
मदोद्धताः
प्रत्यनिलं विचेरुर्
वनस्थलीर् मर्मरपत्रमोक्षाः॥३.३१॥
चूताङ्कुरास्वादकषायकण्ठः
पुंस्कोकिलो यन्
मधुरं चुकूज ।
मनस्विनीमानविघातदक्षं
तद् एव जातं वचनं
स्मरस्य॥३.३२॥
हिमव्यपायाद्
विशदाधराणाम्
आपाण्डुरीभूतमुखच्छवीनाम्
।
स्वेदोद्गमः
किंपुरुषाङ्गनानां
चक्रे पदं पत्रविशेषकेषु॥३.३३॥
तपस्विनः स्थाणुवनौकसस्
ताम् आकालिकीं
वीक्ष्य मधुप्रवृत्तिम्
।
प्रयत्नसंस्तम्भितविक्रियाणां
कथं चिद् ईशा मनसां
बभूवुः॥३.३४॥
तं देशम् आरोपितपुष्पचापे
रतिद्वितीये मदने
प्रपन्ने ।
काष्ठागतस्नेहरसानुविद्धं
द्वन्द्वानि भावं
क्रियया विवव्रुः॥३.३५॥
मधु द्विरेफः
कुसुमैकपात्रे
पपौ प्रियां स्वाम्
अनुवर्तमानः ।
शृङ्गेण च
स्पर्शनिमीलिताक्षीं
मृगीम् अकण्डूयत
कृष्णसारः॥३.३६॥
ददौ रसात्
पङ्कजरेणुगन्धि
गजाय गण्डूषजलं
करेणुः ।
अर्धोपभुक्तेन
बिसेन जायां संभावयाम्
आस रथाङ्गनामा॥३.३७॥
गीतान्तरेषु
श्रमवारिलेशैः
किंचित्समुच्छ्वासितपत्रलेखम्
।
पुष्पासवाघूर्णितनेत्रशोभि
प्रियामुखं किंपुरुषश्
चुचुम्बे॥३.३८॥
पर्याप्तपुष्पस्तबकस्तनाभ्यः
स्फुरत्प्रवालौष्ठमनोहराभ्यः
।
लतावधूभ्यस्
तरवो ऽप्य् अवापुर्
विनम्रशाखाभुजबन्धनानि॥३.३९॥
श्रुताप्सरोगीतिर्
अपि क्षणे ऽस्मिन्
हरः प्रसंख्यानपरो
बभूव ।
आत्मेश्वराणां
न हि जातु विघ्नाः
समाधिभेदप्रभवो
भवन्ति॥३.४०॥
लतागृहद्वारगतो
ऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः
।
मुखार्पितैकाङ्गुलिसंज्ञयैव
मा चापलायेति गणान्
व्यनैषीत्॥३.४१॥
निष्कम्पवृक्षं
निभृतद्विरेफं
मूकाण्डजं शान्तमृगप्रचारम्
।
तच्छासनात्
काननम् एव सर्वं
चित्रार्पितारम्भम्
इवावतस्थे॥३.४२॥
दृष्टिप्रपातं
परिहृत्य तस्य
कामः पुरःशुक्रम्
इव प्रयाणे ।
प्रान्तेषु
संसक्तनमेरुशाखं
ध्यानास्पदं भूतपतेर्
विवेश॥३.४३॥
स देवदारुद्रुमवेदिकायां
शार्दूलचर्मव्यवधानवत्याम्
।
आसीनम् आसन्नशरीरपातस्
त्र्यम्बकं संयमिनं
ददर्श॥३.४४॥
पर्यङ्कबन्धस्थिरपूर्वकायम्
ऋज्वायतं संनमितोभयांसम्
।
उत्तानपाणिद्वयसंनिवेशात्
प्रफुल्लराजीवम्
इवाङ्कमध्ये॥३.४५॥
भुजंगमोन्नद्धजटाकलापं
कर्णावसक्तद्विगुणाक्षसूत्रम्
।
कण्ठप्रभासङ्गविशेषनीलां
कृष्णत्वचं ग्रन्थिमतीं
दधानम्॥३.४६॥
किंचित्प्रकाशस्तिमितोग्रतारैर्
भ्र्ऊविक्रियायां
विरतप्रसङ्गैः
।
नेत्रैर् अविस्पन्दितपक्ष्ममालैर्
लक्ष्यीकृतघ्राणम्
अधोमयूखैः॥३.४७॥
अवृष्टिसंरम्भम्
इवाम्बुवाहम्
अपाम् इवाधारम्
अनुत्तरङ्गम्
।
अन्तश्चराणां
मरुतां निरोधान्
निवातनिष्कम्पम्
इव प्रदीपम्॥३.४८॥
कपालनेत्रान्तरलब्धमार्गैर्
ज्योतिःप्ररोहैर्
उदितैः शिरस्तः
।
मृणालसूत्राधिकसौकुमार्यां
बालस्य लक्ष्मीं
ग्लपयन्तम् इन्दोः॥३.४९॥
मनो नवद्वारनिषिद्धवृत्ति
हृदि व्यवस्थाप्य
समाधिवश्यम् ।
यम् अक्षरं
क्षेत्रविदो विदुस्
तम् आत्मानम् आत्मन्य्
अवलोकयन्तम्॥३.५०॥
स्मरस् तथाभूतम्
अयुग्मनेत्रं
पश्यन्न् अदूरान्
मनसाप्य् अधृष्यम्
।
नालक्षयत्
साध्वससन्नहस्तः
स्रस्तं शरं चापम्
अपि स्वहस्तात्॥३.५१॥
निर्वाणभूयिष्ठम्
अथास्य वीर्यं
संधुक्षयन्तीव
वपुर्गुणेन ।
अनुप्रयाता
वनदेवताभ्याम्
अदृश्यत स्थावरराजकन्या॥३.५२॥
अशोकनिर्भर्त्सितपद्मरागम्
आकृष्टहेमद्युतिकर्णिकारम्
।
मुक्ताकलापीकृतसिन्दुवारं
वसन्तपुष्पाभरणं
वहन्ती॥३.५३॥
आवर्जिता किं
चिद् इव स्तनाभ्यां
वासो वसाना तरुणार्करागम्
।
पर्याप्तपुष्पस्तबकावनम्रा
संचारिणी पल्लविनी
लतेव॥३.५४॥
स्रस्तां नितम्बाद्
अवलम्बमाना पुनः-पुनः
केसरदामकाञ्चीम्
।
न्यासीकृतां
स्थानविदा स्मरेण
मौर्वीं द्वितीयाम्
इव कार्मुकस्य॥३.५५॥
सुगन्धिनिःश्वासविवृद्धतृष्णं
बिम्बाधरासन्नचरं
द्विरेफम् ।
प्रतिक्षणं
संभ्रमलोलदृष्टिर्
लीलारविन्देन
निवारयन्ती॥३.५६॥
तां वीक्ष्य
सर्वावयवानवद्यां
रतेर् अपि ह्रीपदम्
आदधानाम् ।
जितेन्द्रिये
शूलिनि पुष्पचापः
स्वकार्यसिद्धिं
पुनर् आशशंसे॥३.५७॥
भविष्यतः पत्युर्
उमा च शंभोः समाससाद
प्रतिहारभूमिम्
।
योगात् स चान्तः
परमात्मसंज्ञं
दृष्ट्वा परं ज्योतिर्
उपारराम॥३.५८॥
ततो भुजंगाधिपतेः
फणाग्रैर् अधः
कथं चिद् धृतभूमिभागः
।
शनैः कृतप्राणविमुक्तिर्
ईशः पर्यङ्कबन्धं
निबिडं बिभेद॥३.५९॥
तस्मै शशंस
प्रणिपत्य नन्दी
शुश्र्ऊषया शैलसुताम्
उपेताम् ।
प्रवेशयाम्
आस च भर्तुर् एनां
भ्र्ऊक्षेपमात्रानुमतप्रवेशाम्॥३.६०॥
तस्याः सखीभ्यां
प्रणिपातपूर्वं
स्वहस्तलूनः शिशिरात्ययस्य
।
व्यकीर्यत
त्र्यम्बकपादमूले
पुष्पोच्चयः पल्लवभङ्गभिन्नः॥३.६१॥
उमापि नीलालकमध्यशोभि
विस्रंसयन्ती
नवकर्णिकारम्
।
चकार कर्णच्युतपल्लवेन
मूर्ध्ना प्रणामं
वृषभध्वजाय॥३.६२॥
अनन्यभाजं
पतिम् आप्नुहीति
सा तथ्यम् एवाभिहिता
भवेन ।
न हीश्वरव्याहृतयः
कदा चित् पुष्यन्ति
लोके विपरीतम्
अर्थम्॥३.६३॥
कामस् तु बाणावसरं
प्रतीक्ष्य पतङ्गवद्
वह्निमुखं विविक्षुः
।
उमासमक्षं
हरबद्धलक्ष्यः
शरासनज्यां मुहुर्
आममर्श॥३.६४॥
अथोपनिन्ये
गिरिशाय गौरी तपस्विने
ताम्ररुचा करेण
।
विशोषितां
भानुमतो मयूखैर्
मन्दाकिनीपुष्करबीजमालाम्॥३.६५॥
प्रतिग्रहीतुं
प्रणयिप्रियत्वात्
त्रिलोचनस् ताम्
उपचक्रमे च ।
संमोहनं नाम
च पुष्पधन्वा धनुष्य्
अमोघं समधत्त बाणम्॥३.६६॥
हरस् तु किंचित्परिलुप्तधैर्यश्
चन्द्रोदयारम्भ
इवाम्बुराशिः
।
उमामुखे बिम्बफलाधरोष्ठे
व्यापारयाम् आस
विलोचनानि॥३.६७॥
विवृण्वती
शैलसुतापि भावम्
अङ्गैः स्फुरद्बालकदम्बकल्पैः
।
साचीकृता चारुतरेण
तस्थौ मुखेन पर्यस्तविलोचनेन॥३.६८॥
अथेन्द्रियक्षोभम्
अयुग्मनेत्रः
पुनर् वशित्वाद्
बलवन् निगृह्य
।
हेतुं स्वचेतोविकृतेर्
दिदृक्षुर् दिशाम्
उपान्तेषु ससर्ज
दृष्टिम्॥३.६९॥
स दक्षिणापाङ्गनिविष्टमुष्टिं
नतांसम् आकुञ्चितसव्यपादम्
।
ददर्श चक्रीकृतचारुचापं
प्रहर्तुम् अभ्युद्यतम्
आत्मयोनिम्॥३.७०॥
तपःपरामर्शविवृद्धमन्योर्
भ्र्ऊभङ्गदुष्प्रेक्ष्यमुखस्य
तस्य ।
स्फुरन्न्
उदर्चिः सहसा तृतीयाद्
अक्ष्णः कृशानुः
किल निष्पपात॥३.७१॥
क्रोधं प्रभो
संहर संहरेति यावद्
गिरः खे मरुतां
चरन्ति ।
तावत् स वह्निर्
भवनेत्रजन्मा
भस्मावशेषं मदनं
चकार॥३.७२॥
तीव्राभिषङ्गप्रभवेण
वृत्तिम् मोहेन
संस्तम्भयतेन्द्रियाणाम्
।
अज्ञातभर्तृव्यसना
मुहूर्तं कृतोपकारेव
रतिर् बभूव॥३.७३॥
तम् आशु विघ्नं
तपसस् तपस्वी वनस्पतिं
वज्र इवावभज्य
।
स्त्रीसंनिकर्षं
परिहर्तुम् इच्छन्न्
अन्तर्दधे भूतपतिः
सभूतः॥३.७४॥
शैलात्मजापि
पितुर् उच्छिरसो
ऽभिलाषं व्यर्थं
समर्थ्य ललितं
वपुर् आत्मनश्
च ।
सख्योः समक्षम्
इति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी
कथं चित्॥३.७५॥
सपदि मुकुलिताक्षीं
रुद्रसंरम्भभीत्या
दुहितरम् अनुकम्प्याम्
अद्रिर् आदाय दोर्भ्याम्
।
सुरगज इव बिभ्रत्
पद्मिनीं दन्तलग्नां
प्रतिपथगतिर्
आसीद् वेगदीर्घीकृताङ्गः॥३.७६॥
॥४॥
अथ मोहपरायणा
सती विवशा कामवधूर्
विबोधिता ।
विधिना प्रतिपादयिष्यता
नववैधव्यम् असह्यवेदनम्॥४.१॥
अवधानपरे चकार
सा प्रलयान्तोन्मिषिते
विलोचने ।
न विवेद तयोर्
अतृप्तयोः प्रियम्
अत्यन्तविलुप्तदर्शनम्॥४.२॥
अयि जीवितनाथ
जीवसीत्य् अभिधायोत्थितया
तया पुरः ।
ददृशे पुरुषाकृति
क्षितौ हरकोपानलभस्म
केवलम्॥४.३॥
अथ सा पुनर्
एव विह्वला वसुधालिङ्गनधूसरस्तनी
।
विललाप विकीर्णमूर्धजा
समदुःखाम् इव कुर्वती
स्थलीम्॥४.४॥
उपमानम् अभूद्
विलासिनां करणं
यत् तव कान्तिमत्तया
।
तद् इदं गतम्
ईदृशीं दशां न
विदीर्ये कठिनाः
खलु स्त्रियः॥४.५॥
क्व नु मां
त्वदधीनजीवितां
विनिकीर्य क्षणभिन्नसौहृदः
।
नलिनीं क्षतसेतुबन्धनो
जलसंघात इवासि
विद्रुतः॥४.६॥
कृतवान् असि
विप्रियं न मे
प्रतिकूलं न च
ते मया कृतम् ।
किम् अकारणम्
एव दर्शनं विलपन्त्यै
रतये न दीयते॥४.७॥
स्मरसि स्मर
मेखलागुणैर् उत
गोत्रस्खलितेषु
बन्धनम् ।
च्युतकेशरदूषितेक्षणान्य्
अवतंसोत्पलताडनानि
वा॥४.८॥
हृदये वससीति
मत्प्रियं यद्
अवोचस् तद् अवैमि
कैतवम् ।
उपचारपदं न
चेद् इदं त्वम्
अनङ्गः कथम् अक्षता
रतिः॥४.९॥
परलोकनवप्रवासिनः
प्रतिपत्स्ये
पदवीम् अहं तव
।
विधिना जन
एष वञ्चितस् त्वदधीनं
खलु देहिनां सुखम्॥४.१०॥
रजनीतिमिरावगुण्ठिते
पुरमार्गे घनशब्दविक्लवाः
।
वसतिं प्रिय
कामिनां प्रियास्
त्वद् ऋते प्रापयितुं
क ईश्वरः॥४.११॥
नयनान्य् अरुणानि
घूर्णयन् वचनानि
स्खलयन् पदे-पदे
।
असति त्वयि
वारुणीमदः प्रमदानाम्
अधुना विडम्बना॥४.१२॥
अवगम्य कथीकृतं
वपुः प्रियबन्धोस्
तव निष्फलोदयः
।
बहुले ऽपि
गते निशाकरस् तनुतां
दुःखम् अनङ्ग मोक्ष्यति॥४.१३॥
हरितारुणचारुबन्धनः
कलपुंस्कोकिलशब्दसूचितः
।
वद संप्रति
कस्य बाणतां नवचूतप्रसवो
गमिष्यति॥४.१४॥
अलिपङ्क्तिर्
अनेकशस् त्वया
गुणकृत्ये धनुषो
नियोजिता ।
विरुतैः करुणस्वनैर्
इयं गुरुशोकाम्
अनुरोदितीव माम्॥४.१५॥
प्रतिपद्य
मनोहरं वपुः पुनर्
अप्य् आदिश तावद्
उत्थितः ।
रतिदूतिपदेषु
कोकिलां मधुरालापनिसर्गपण्डिताम्॥४.१६॥
शिरसा प्रणिपत्य
याचितान्य् उपगूढानि
सवेपथूनि च ।
सुरतानि च
तानि ते रहः स्मर
संस्मृत्य न शान्तिर्
अस्ति मे॥४.१७॥
रचितं रतिपण्डित
त्वया स्वयम् अङ्गेषु
ममेदम् आर्तवम्
।
ध्रियते कुसुमप्रसाधनं
तव तच् चारु वपुर्
न दृश्यते॥४.१८॥
विबुधैर् असि
यस्य दारुणैर्
असमाप्ते परिकर्मणि
स्मृतः ।
तम् इमं कुरु
दक्षिणेतरं चरणं
निर्मितरागम्
एहि मे॥४.१९॥
अहम् एत्य
पतङ्गवर्त्मना
पुनर् अङ्काश्रयिणी
भवामि ते ।
चतुरैः सुरकामिनीजनैः
प्रिय यावन् न
विलोभ्यसे दिवि॥४.२०॥
मदनेन विनाकृता
रतिः क्षणमात्रं
किल जीवितेति मे
।
वचनीयम् इदं
व्यवस्थितं रमण
त्वाम् अनुयामि
यद्य् अपि॥४.२१॥
क्रियतां कथम्
अन्त्यमण्डनं
परलोकान्तरितस्य
ते मया ।
समम् एव गतो
ऽस्य् अतर्कितां
गतिम् अङ्गेन च
जीवितेन च॥४.२२॥
ऋजुतां नयतः
स्मरामि ते शरम्
उत्सङ्गनिषण्णधन्वनः
।
मधुना सह सस्मितं
कथां नयनोपान्तविलोकितं
च यत्॥४.२३॥
क्व नु ते हृदयंगमः
सखा कुसुमायोजितकार्मुको
मधुः ।
न खलूग्ररुषा
पिनाकिना गमितः
सो ऽपि सुहृद्गतां
गतिम्॥४.२४॥
अथ तैः परिदेविताक्षरैर्
हृदये दिग्धशरैर्
इवार्दितः ।
रतिम् अभ्युपपत्तुम्
आतुरां मधुर् आत्मानम्
अदर्शयत् पुरः॥४.२५॥
तम् अवेक्ष्य
रुरोद सा भृशं
स्तनसंबाधम् उरो
जघान च ।
स्वजनस्य हि
दुःखम् अग्रतो
विवृतद्वारम्
इवोपजायते॥४.२६॥
इति चैनम्
उवाच दुःखिता सुहृदः
पश्य वसन्त किं
स्थितम् ।
यद् इदं कणशः
प्रकीर्यते पवनैर्
भस्म कपोतकर्बुरम्॥४.२७॥
अयि संप्रति
देहि दर्शनं स्मर
पर्युत्सुक एष
माधवः ।
दयितास्व्
अनवस्थितं नृणां
न खलु प्रेम चलं
सुहृज्जने॥४.२८॥
अमुना ननु
पार्श्ववर्तिना
जगद् आज्ञां ससुरासुरं
तव ।
बिसतन्तुगुणस्य
कारितं धनुषः पेलवपुष्पपत्रिणः॥४.२९॥
गत एव न ते निवर्तते
स सखा दीप इवानिलाहतः
।
अहम् अस्य
दशेव पश्य माम्
अविषह्यव्यसनप्रधूषिताम्॥४.३०॥
विधिना कृतम्
अर्धवैशसं ननु
माम् कामवधे विमुञ्चता
।
अनघापि हि
संश्रयद्रुमे
गजभग्ने पतनाय
वल्लरी॥४.३१॥
तद् इदं क्रियताम्
अनन्तरं भवता बन्धुजनप्रयोजनम्
।
विधुरां ज्वलनातिसर्जनान्
ननु मां प्रापय
पत्युर् अन्तिकम्॥४.३२॥
शशिना सह याति
कौमुदी सह मेघेन
तडित् प्रलीयते
।
प्रमदाः पतिवर्त्मगा
इति प्रतिपन्नं
हि विचेतनैर् अपि॥४.३३॥
अमुनैव कषायितस्तनी
सुभगेन प्रियगात्रभस्मना
।
नवपल्लवसंस्तरे
यथा रचयिष्यामि
तनुं विभावसौ॥४.३४॥
कुसुमास्तरणे
सहायतां बहुशः
सौम्य गतस् त्वम्
आवयोः ।
कुरु संप्रति
तावद् आशु मे प्रणिपाताञ्जलियाचितश्
चिताम्॥४.३५॥
तद् अनु ज्वलनं
मदर्पितं त्वरयेर्
दक्षिणवातवीजनैः
।
विदितं खलु
ते यथा स्मरः क्षणम्
अप्य् उत्सहते
न मां विना॥४.३६॥
इति चापि विधाय
दीयतां सलिलस्याञ्जलिर्
एक एव नौ ।
अविभज्य परत्र
तं मया सहितः पास्यति
ते स बान्धवः॥४.३७॥
परलोकविधौ
च माधव स्मरम्
उद्दिश्य विलोलपल्लवाः
।
निवपेः सहकारमञ्जरीः
प्रियचूतप्रसवो
हि ते सखा॥४.३८॥
इति देवविमुक्तये
स्थितां रतिम्
आकाशभवा सरस्वती
।
शफरीं ह्रदशोषविक्लवां
प्रथमा वृष्टिर्
इवान्वकम्पत॥४.३९॥
कुसुमायुधपत्नि
दुर्लभस् तव भर्ता
न चिराद् भविष्यति
।
शृणु येन स
कर्मणा गतः शलभत्वं
हरलोचनार्चिषि॥४.४०॥
अभिलाषम् उदीरितेन्द्रियः
स्वसुतायाम् अकरोत्
प्रजापतिः ।
अथ तेन निगृह्य
विक्रियाम् अभिशप्तः
फलम् एतद् अन्वभूत्॥४.४१॥
परिणेष्यति
पार्वतीं यदा तपसा
तत्प्रवणीकृतो
हरः ।
उपलब्धसुखस्
तदा स्मरं वपुषा
स्वेन नियोजयिष्यति॥४.४२॥
इति चाह स धर्मयाचितः
स्मरशापावधिदां
सरस्वतीम् ।
अशनेर् अमृतस्य
चोभयोर् वशिनश्
चाम्बुधराश् च
योनयः॥४.४३॥
तद् इदं परिरक्ष
शोभने भवितव्यप्रियसंगमं
वपुः ।
रविपीतजला
तपात्यये पुनर्
ओघेन हि युज्यते
नदी॥४.४४॥
इत्थं रतेः
किम् अपि भूतम्
अदृश्यर्ऊपं मन्दीचकार
मरणव्यवसायबुद्धिम्
।
तत्प्रत्ययाच्
च कुसुमायुधबन्धुर्
एनाम् आश्वासयत्
सुचरितार्थपदैर्
वचोभिः॥४.४५॥
अथ मदनवधूर्
उपप्लवान्तं व्यसनकृशा
परिपालयां बभूव
।
शशिन इव दिवातनस्य
लेखा किरणपरिक्षयधूसरा
प्रदोषम्॥४.४६॥
॥५॥
तथा समक्षं
दहता मनोभवं पिनाकिना
भग्नमनोरथा सती
।
निनिन्द र्ऊपं
हृदयेन पार्वती
प्रियेषु सौभाग्यफला
हि चारुता॥५.१॥
इयेष सा कर्तुम्
अवन्ध्यर्ऊपतां
समाधिम् आस्थाय
तपोभिर् आत्मनः
।
अवाप्यते वा
कथम् अन्यथा द्वयं
तथाविधं प्रेम
पतिश् च तादृशः॥५.२॥
निशम्य चैनां
तपसे कृतोद्यमां
सुतां गिरीशप्रतिसक्तमानसाम्
।
उवाच मेना
परिरभ्य वक्षसा
निवारयन्ती महतो
मुनिव्रतात्॥५.३॥
मनीषिताः सन्ति
गृहे ऽपि देवतास्
तपः क्व वत्से
क्व च तावकं वपुः
।
पदं सहेत भ्रमरस्य
पेलवं शिरीशपुष्पं
न पुनः पतत्रिणः॥५.४॥
इति ध्रुवेच्छाम्
अनुशासती सुतां
शशाक मेना न नियन्तुम्
उद्यमात् ।
क ईप्सितार्थस्थिरनिश्चयं
मनः पयश् च निम्नाभिमुखं
प्रतीपयेत्॥५.५॥
कदा चिद् आसन्नसखीमुखेन
सा मनोरथज्ञं पितरं
मनस्विनी ।
अयाचतारण्यनिवासम्
आत्मनः फलोदयान्ताय
तपःसमाधये॥५.६॥
अथानुर्ऊपाभिनिवेशतोषिणा
कृताभ्यनुज्ञा
गुरुणा गरीयसा
।
प्रजासु पश्चात्
प्रथितं तदाख्यया
जगाम गौरी शिखरं
शिखण्डिमत्॥५.७॥
विमुच्य सा
हारम् अहार्यनिश्चया
विलोलयष्टिप्रविलुप्तचन्दनम्
।
बबन्ध बालारुणबभ्रु
वल्कलं पयोधरोत्सेधविशीर्णसंहति॥५.८॥
यथा प्रसिद्धैर्
मधुरं शिरोरुहैर्
जटाभिर् अप्य्
एवम् अभूत् तदाननम्
।
न शट्पदश्रेणिभिर्
एव पङ्कजं सशैवलासङ्गम्
अपि प्रकाशते॥५.९॥
प्रतिक्षणं
सा कृतरोमविक्रियां
व्रताय मौञ्जीं
त्रिगुणां बभार
याम् ।
अकारि तत्पूर्वनिबद्धया
तया सरागम् अस्या
रसनागुणास्पदम्॥५.१०॥
विसृष्टरागाद्
अधरान् निवर्तितः
स्तनाङ्गरागारुणिताच्
च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः
कृतो ऽक्षसूत्रप्रणयी
तया करः॥५.११॥
महार्हशय्यापरिवर्तनच्युतैः
स्वकेशपुष्पैर्
अपि या स्म दूयते
।
अशेत सा बाहुलतोपधायिनी
निषेदुषी स्थण्डिल
एव केवले॥५.१२॥
पुनर् ग्रहीतुं
नियमस्थया तया
द्वये ऽपि निक्षेप
इवार्पितम् द्वयम्
।
लतासु तन्वीषु
विलासचेष्टितं
विलोलदृष्टं हरिणाङ्गनासु
च॥५.१३॥
अतन्द्रिता
सा स्वयम् एव वृक्षकान्
घटस्तनप्रस्रवणैर्
व्यवर्धयत् ।
गुहो ऽपि येषां
प्रथमाप्तजन्मनां
न पुत्रवात्सल्यम्
अपाकरिष्यति॥५.१४॥
अरण्यबीजाञ्जलिदानलालितास्
तथा च तस्यां हरिणा
विशश्वसुः ।
यथा तदीयैर्
नयनैः कुतूहलात्
पुरः सखीनाम् अमिमीत
लोचने॥५.१५॥
कृताभिशेकां
हुतजातवेदसं त्वगुत्तरासङ्गवतीम्
अधीतिनीम् ।
दिग्दृक्षवस्
ताम् ऋषयो ऽभ्युपागमन्
न धर्मवृद्धेषु
वयः समीक्ष्यते॥५.१६॥
विरोधिसत्त्वोज्झितपूर्वमत्सरं
द्रुमैर् अभीष्टप्रसवार्चितातिथि
।
नवोटजाभ्यन्तरसंभृतानलं
तपोवनं तच् च बभूव
पावनम्॥५.१७॥
यदा फलं पूर्वतपःसमाधिना
न तावता लभ्यम्
अमंस्त काङ्क्षितम्
।
तदानपेक्ष्य
स्वशरीरमार्दवं
तपो महत् सा चरितुं
प्रचक्रमे॥५.१८॥
क्लमं ययौ
कन्दुकलीलयापि
या तया मुनीनां
चरितं व्यगाह्यत
।
ध्रुवं वपुः
काञ्चनपद्मनिर्मितं
मृदु प्रकृत्या
च ससारम् एव च॥५.१९॥
शुचौ चतुर्णां
ज्वलतां हविर्भुजां
शुचिस्मिता मध्यगता
सुमध्यमा ।
विजित्य नेत्रप्रतिघातिनीं
प्रभाम् अनन्यदृष्टिः
सवितारम् ऐक्षत॥५.२०॥
तथाभितप्तं
सवितुर् गभस्तिभिर्
मुखं तदीयं कमलश्रियं
दधौ ।
अपाङ्गयोः
केवलम् अस्य दीर्घयोः
शनैः-शनैः श्यामिकया
कृतं पदम्॥५.२१॥
अयाचितोपस्थितम्
अम्बु केवलं रसात्मकस्योडुपतेश्
च रश्मयः ।
बभूव तस्याः
किल पारणाविधिर्
न वृक्षवृत्तिव्यतिरिक्तसाधनः॥५.२२॥
निकामतप्ता
विविधेन वह्निना
नभश्चरेणेन्धनसंभृतेन
च ।
तपात्यये वारिभिर्
उक्षिता नवैर्
भुवा सहोष्माणम्
अमुञ्चद् ऊर्ध्वगम्॥५.२३॥
स्थिताः क्षणं
पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपातचूर्णिताः
।
वलीषु तस्याः
स्खलिताः प्रपेदिरे
चिरेण नाभिं प्रथमोदबिन्दवः॥५.२४॥
शिलाशयां ताम्
अनिकेतवासिनीं
निरन्तरास्व्
अन्तरवातवृष्टिषु
।
व्यलोकयन्न्
उन्मिषितैस् तडिन्मयैर्
महातपःसाक्ष्य
इव स्थिताः क्षपाः॥५.२५॥
निनाय सात्यन्तहिमोत्किरानिलाः
सहस्यरात्रीर्
उदवासतत्परा ।
परस्पराक्रन्दिनि
चक्रवाकयोः पुरो
वियुक्ते मिथुने
कृपावती॥५.२६॥
मुखेन सा पद्मसुगन्धिना
निशि प्रवेपमानाधरपत्रशोभिना
।
तुषारवृष्टिक्षतपद्मसंपदां
सरोजसंधानम् इवाकरोद्
अपाम्॥५.२७॥
स्वयंविशीर्णद्रुमपर्णवृत्तिता
परा हि काष्ठा
तपसस् तया पुनः
।
तद् अप्य्
अपाकीर्णम् अतः
प्रियंवदां वदन्त्य्
अपर्णेति च तां
पुराविदः॥५.२८॥
मृणालिकापेलवम्
एवमादिभिर् व्रतैः
स्वम् अङ्गं ग्लपयन्त्य्
अहर्निशम् ।
तपः शरीरैः
कठिनैर् उपार्जितं
तपस्विनां दूरम्
अधश् चकार सा॥५.२९॥
अथाजिनाषाढधरः
प्रगल्भवाग् ज्वलन्न्
इव ब्रह्ममयेन
तेजसा ।
विवेश कश्चिज्
जटिलस् तपोवनं
शरीरबद्धः प्रथमाश्रमो
यथा॥५.३०॥
तम् आतिथेयी
बहुमानपूर्वया
सपर्यया प्रत्युदियाय
पार्वती ।
भवन्ति साम्ये
ऽपि निविष्टचेतसां
वपुर्विशेषेष्व्
अतिगौरवाः क्रियाः॥५.३१॥
विधिप्रयुक्तां
परिगृह्य सत्क्रियां
परिश्रमं नाम विनीय
च क्षणम् ।
उमां स पश्यन्न्
ऋजुनैव चक्षुषा
प्रचक्रमे वक्तुम्
अनुज्झितक्रमः॥५.३२॥
अपि क्रियार्थं
सुलभं समित्कुशं
जलान्य् अपि स्नानविधिक्षमाणि
ते ।
अपि स्वशक्त्या
तपसि प्रवर्तसे
शरीरम् आद्यं खलु
धर्मसाधनम्॥५.३३॥
अपि त्वदावर्जितवारिसंभृतं
प्रवालम् आसाम्
अनुबन्धि वीरुधाम्
।
चिरोज्झितालक्तकपाटलेन
ते तुलां यद् आरोहति
दन्तवाससा॥५.३४॥
अपि प्रसन्नं
हरिणेषु ते मनः
करस्थदर्भप्रणयापहारिषु
।
य उत्पलाक्षि
प्रचलैर् विलोचनैस्
तवाक्षिसादृश्यम्
इव प्रयुञ्जते॥५.३५॥
यद् उच्यते
पार्वति पापवृत्तये
न र्ऊपम् इत्य्
अव्यभिचारि तद्
वचः ।
तथा हि ते शीलम्
उदारदर्शने तपस्विनाम्
अप्य् उपदेशतां
गतम्॥५.३६॥
विकीर्णसप्तर्षिबलिप्रहासिभिस्
तथा न गाङ्गैः
सलिलैर् दिवश्
च्युतैः ।
यथा त्वदीयैश्
चरितैर् अनाविलैर्
महीधरः पावित एष
सान्वयः॥५.३७॥
अनेन धर्मः
सविशेषम् अद्य
मे त्रिवर्गसारः
प्रतिभाति भाविनि
।
त्वया मनोनिर्विषयार्थकामया
यद् एक एव प्रतिगृह्य
सेव्यते॥५.३८॥
प्रयुक्तसत्कारविशेषम्
आत्मना न मां परं
संप्रतिपत्तुम्
अर्हसि ।
यतः सतां संनतगात्रि
संगतं मनीषिभिः
साप्तपदीनम् उच्यते॥५.३९॥
अतो ऽत्र किंचिद्
भवतीं बहुक्षमां
द्विजातिभावाद्
उपपन्नचापलः ।
अयं जनः प्रष्टुमनास्
तपोधने न चेद्
रहस्यं प्रतिवक्तुम्
अर्हसि॥५.४०॥
कुले प्रसूतिः
प्रथमस्य वेधसस्
त्रिलोकसौन्दर्यम्
इवोदितं वपुः ।
अमृग्यम् ऐश्वर्यसुखं
नवं वयस् तपःफलं
स्यात् किम् अतः
परं वद॥५.४१॥
भवत्य् अनिष्टाद्
अपि नाम दुःसहान्
मनस्विनीनां प्रतिपत्तिर्
ईदृशी ।
विचारमार्गप्रहितेन
चेतसा न दृश्यते
तच् च कृशोदरि
त्वयि॥५.४२॥
अलभ्यशोकाभिभवेयम्
आकृतिर् विमानना
सुभ्रु कुतः पितुर्
गृहे ।
पराभिमर्शो
न तवास्ति कः करं
प्रसारयेत् पन्नगरत्नसूचये॥५.४३॥
किम् इत्य्
अपास्याभरणानि
यौवने धृतं त्वया
वार्द्धकशोभि
वल्कलम् ।
वद प्रदोषे
स्फुटचन्द्रतारके
विभावरी यद्य्
अरुणाय कल्पते॥५.४४॥
दिवं यदि प्रार्थयसे
वृथा श्रमः पितुः
प्रदेशास् तव देवभूमयः
।
अथोपयन्तारम्
अलं समाधिना न
रत्नम् अन्विष्यति
मृग्यते हि तत्॥५.४५॥
निवेदितं निश्वसितेन
सोष्मणा मनस् तु
मे संशयम् एव गाहते
।
न दृश्यते
प्रार्थयितव्य
एव ते भविष्यति
प्रार्थितदुर्लभः
कथम्॥५.४६॥
अहो स्थिरः
को ऽपि तवेप्सितो
युवा चिराय कर्णोत्पलशून्यतां
गते ।
उपेक्षते यः
श्लथलम्बिनीर्
जटाः कपोलदेशे
कलमाग्रपिङ्गलाः॥५.४७॥
मुनिव्रतैस्
त्वाम् अतिमात्रकर्शितां
दिवाकराप्लुष्टविभूषणास्पदाम्
।
शशाङ्कलेखाम्
इव पश्यतो दिवा
सचेतसः कस्य मनो
न दूयते॥५.४८॥
अवैमि सौभाग्यमदेन
वञ्चितं तव प्रियं
यश् चतुरावलोकिनः
।
करोति लक्ष्यं
चिरम् अस्य चक्षुषो
न वक्त्रम् आत्मीयम्
अरालपक्ष्मणः॥५.४९॥
कियच् चिरं
श्राम्यसि गौरि
विद्यते ममापि
पूर्वाश्रमसंचितं
तपः ।
तदर्धभागेन
लभस्व काङ्क्षितं
वरं तम् इच्छामि
च साधु वेदितुम्॥५.५०॥
इति प्रविश्याभिहिता
द्विजन्मना मनोगतं
सा न शशाक शंसितुम्
।
अथो वयस्यां
परिपार्श्ववर्तिनीं
विवर्तितानञ्जननेत्रम्
ऐक्षत॥५.५१॥
सखी तदीया
तम् उवाच वर्णिनं
निबोध साधो तव
चेत् कुतूहलम्
।
यदर्थम् अम्भोजम्
इवोष्णवारणं कृतं
तपःसाधनम् एतया
वपुः॥५.५२॥
इयं महेन्द्रप्रभृतीन्
अधिश्रियश् चतुर्दिगीशान्
अवमत्य मानिनी
।
अर्ऊपहार्यं
मदनस्य निग्रहात्
पिनाकपाणिं पतिम्
आप्तुम् इच्छति॥५.५३॥
असह्यहुंकारनिवर्तितः
पुरा पुरारिम्
अप्राप्तमुखः
शिलीमुखः ।
इमां हृदि
व्यायतपातम् अक्षणोद्
विशीर्णमूर्तेर्
अपि पुष्पधन्वनः॥५.५४॥
तदाप्रभृत्य्
उन्मदना पितुर्
गृहे ललाटिकाचन्दनधूसरालका
।
न जातु बाला
लभते स्म निर्वृतिं
तुषारसंघातशिलातलेष्व्
अपि॥५.५५॥
उपात्तवर्णे
चरिते पिनाकिनः
सबाष्पकण्ठस्खलितैः
पदैर् इयम् ।
अनेकशः किन्नरराजकन्यका
वनान्तसंगीतसखीर्
अरोदयत्॥५.५६॥
त्रिभागशेषासु
निशासु च क्षणम्
निमील्य नेत्रे
सहसा व्यबुध्यत
।
क्व नीलकण्ठ
व्रजसीत्य् अलक्ष्यवाग्
असत्यकण्ठार्पितबाहुबन्धना॥५.५७॥
यदा बुधैः
सर्वगतस् त्वम्
उच्यसे न वेत्सि
भावस्थम् इमं जनं
कथम् ।
इति स्वहस्ताल्लिखितश्
च मुग्धया रहस्य्
उपालभ्यत चन्द्रशेखरः॥५.५८॥
यदा च तस्याधिगमे
जगत्पतेर् अपश्यद्
अन्यं न विधिं
विचिन्वती ।
तदा सहास्माभिर्
अनुज्ञया गुरोर्
इयं प्रपन्ना तपसे
तपोवनम्॥५.५९॥
द्रुमेषु सख्या
कृतजन्मसु स्वयं
फलं तपःसाक्षिषु
दृष्टम् एष्व्
अपि ।
न च प्ररोहाभिमुखो
ऽपि दृश्यते मनोरथो
ऽस्याः शशिमौलिसंश्रयः॥५.६०॥
न वेद्मि स
प्रार्थितदुर्लभः
कदा सखीभिर् अस्रोत्तरम्
ईक्षिताम् इमाम्
।
तपःकृशाम्
अभ्युपपत्स्यते
सखीं वृषेव सीतां
तदवग्रहक्षताम्॥५.६१॥
अगूढसद्भावम्
इतीङ्गितज्ञया
निवेदितो नैष्ठिकसुन्दरस्
तया ।
अयीदम् एवं
परिहास इत्य् उमाम्
अपृच्छद् अव्यञ्जितहर्षलक्षणः॥५.६२॥
अथाग्रहस्ते
मुकुलीकृताङ्गुलौ
समर्पयन्ती स्फटिकाक्षमालिकाम्
।
कथं चिद् अद्रेस्
तनया मिताक्षरं
चिरव्यवस्थापितवाग्
अभाषत॥५.६३॥
यथा श्रुतं
वेदविदां वर त्वया
जनो ऽयम् उच्चैःपदलङ्घनोत्सुकः
।
तपः किलेदं
तदवाप्तिसाधनं
मनोरथानाम् अगतिर्
न विद्यते॥५.६४॥
अथाह वर्णी
विदितो महेश्वरस्
तदर्थिनी त्वं
पुनर् एव वर्तसे
।
अमङ्गलाभ्यासरतिं
विचिन्त्य तं तवानुवृत्तिं
न च कर्तुम् उत्सहे॥५.६५॥
अवस्तुनिर्बन्धपरे
कथं नु ते करो ऽयम्
आमुक्तविवाहकौतुकः
।
करेण शंभोर्
वलयीकृताहिना
सहिष्यते तत्प्रथमावलम्बनम्॥५.६६॥
त्वम् एव तावत्
परिचिन्तय स्वयं
कदा चिद् एते यदि
योगम् अर्हतः ।
वधूदुकूलं
कलहंसलक्षणं गजाजिनं
शोणितबिन्दुवर्षि
च॥५.६७॥
चतुष्कपुष्पप्रकराविकीर्णयोः
परो ऽपि को नाम
तवानुमन्यते ।
अलक्तकाङ्कानि
पदानि पादयोर्
विकीर्णकेशासु
परेतभूमिषु॥५.६८॥
अयुक्तर्ऊपं
किम् अतः परं वद
त्रिनेत्रवक्षः
सुलभं तवापि यत्
।
स्तनद्वये
ऽस्मिन् हरिचन्दनास्पदे
पदं चिताभस्मरजः
करिष्यति॥५.६९॥
इयं च ते ऽन्या
पुरतो विडम्बना
यद् ऊढया वारणराजहार्यया
।
विलोक्य वृद्धोक्षम्
अधिष्ठितं त्वया
महाजनः स्मेरमुखो
भविष्यति॥५.७०॥
द्वयं गतं
संप्रति शोचनीयतां
समागमप्रार्थनया
कपालिनः ।
कला च सा कान्तिमती
कलावतस् त्वम्
अस्य लोकस्य च
नेत्रकौमुदी॥५.७१॥
वपुर् विर्ऊपाक्षम्
अलक्ष्यजन्मता
दिगम्बरत्वेन
निवेदितं वसु ।
वरेषु यद्
बालमृगाक्षि मृग्यते
तद् अस्ति किं
व्यस्तम् अपि त्रिलोचने॥५.७२॥
निवर्तयास्माद्
असदीप्सितान्
मनः क्व तद्विधस्
त्वं क्व च पुण्यलक्षणा
।
अपेक्ष्यते
साधुजनेन वैदिकी
श्मशानशूलस्य
न यूपसत्क्रिया॥५.७३॥
इति द्विजातौ
प्रतिकूलवादिनि
प्रवेपमानाधरलक्ष्यकोपया
।
विकुञ्चितभ्र्ऊलतम्
आहिते तया विलोचने
तिर्यग् उपान्तलोहिते॥५.७४॥
उवाच चैनं
परमार्थतो हरं
न वेत्सि नूनं
यत एवम् आत्थ माम्
।
अलोकसामान्यम्
अचिन्त्यहेतुकं
द्विषन्ति मन्दाश्
चरितं महात्मनाम्॥५.७५॥
विपत्प्रतीकारपरेण
मङ्गलं निषेव्यते
भूतिसमुत्सुकेन
वा ।
जगच्छरण्यस्य
निराशिषः सतः किम्
एभिर् आशोपहतात्मवृत्तिभिः॥५.७६॥
अकिञ्चनः सन्
प्रभवः स संपदां
त्रिलोकनाथः पितृसद्मगोचरः
।
स भीमर्ऊपः
शिव इत्य् उदीर्यते
न सन्ति याथार्थ्यविदः
पिनाकिनः॥५.७७॥
विभूषणोद्भासि
पिनद्धभोगि वा
गजाजिनालम्बि
दुकूलधारि वा ।
कपालि वा स्याद्
अथ वेन्दुशेखरं
न विश्वमूर्तेर्
अवधार्यते वपुः॥५.७८॥
तदङ्गसंसर्गम्
अवाप्य कल्पते
ध्रुवं चिताभस्मरजो
विशुद्धये ।
तथा हि नृत्याभिनयक्रियाच्युतं
विलिप्यते मौलिभिर्
अम्बरौकसां॥५.७९॥
असंपदस् तस्य
वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो
वृषा ।
करोति पादाव्
उपगम्य मौलिना
विनिद्रमन्दाररजोरुणाङ्गुली॥५.८०॥
विवक्षता दोषम्
अपि च्युतात्मना
त्वयैकम् ईशं प्रति
साधु भाषितम् ।
यम् आमनन्त्य्
आत्मभुवो ऽपि कारणं
कथं स लक्ष्यप्रभवो
भविष्यति॥५.८१॥
अलं विवादेन
यथा श्रुतस् त्वया
तथाविधस् तावद्
अशेषम् अस्तु सः
।
ममात्र भावैकरसं
मनः स्थितं न कामवृत्तिर्
वचनीयम् ईक्षते॥५.८२॥
निवार्यताम्
आलि किम् अप्य्
अयं बटुः पुनर्
विवक्षुः स्फुरितोत्तराधरः
।
न केवलं यो
महतो ऽपभाषते शृणोति
तस्माद् अपि यः
स पापभाक्॥५.८३॥
इतो गमिश्याम्य्
अथवेति वादिनी
चचाल बाला स्तनभिन्नवल्कला
।
स्वर्ऊपम्
आस्थाय च तां कृतस्मितः
समाललम्बे वृषराजकेतनः॥५.८४॥
तं वीक्ष्य
वेपथुमती सरसाङ्गयष्टिर्
निक्षेपणाय पदम्
उद्धृतम् उद्वहन्ती
।
मार्गाचलव्यतिकराकुलितेव
सिन्धुः शैलाधिराजतनया
न ययौ न तस्थौ॥५.८५॥
अद्यप्रभृत्य्
अवनताङ्गि तवास्मि
दासः क्रीतस् तपोभिर्
इति वादिनि चन्द्रमौलौ
।
अह्नाय सा
नियमजं क्लमम्
उत्ससर्ज क्लेशः
फलेन हि पुनर्
नवतां विधत्ते॥५.८६॥
॥६॥
अथ विश्वात्मने
गौरी संदिदेश मिथः
सखीम् ।
दाता मे भूभृतां
नाथः प्रमाणीक्रियताम्
इति॥६.१॥
तया व्याहृतसंदेशा
सा बभौ निभृता
प्रिये ।
चूतयष्टिर्
इवाभ्याष्ये मधौ
परभृतामुखी॥६.२॥
स तथेति प्रतिज्ञाय
विसृज्य कथम् अप्य्
उमाम् ।
ऋषीञ् ज्योतिर्मयान्
सप्त सस्मार स्मरशासनः॥६.३॥
ते प्रभामण्डलैर्
व्योम द्योतयन्तस्
तपोधनाः ।
सारुन्धतीकाः
सपदि प्रादुर्
आसन् पुरः प्रभोः॥६.४॥
आप्लुतास्
तीरमन्दार- कुसुमोत्किरवीचिषु
।
आकाशगङ्गास्रोतस्सु
दिङ्नागमदगन्धिषु॥६.५॥
मुक्तायज्ञोपवीतानि
बिभ्रतो हैमवल्कलाः
।
रत्नाक्षसूत्राः
प्रव्रज्यां कल्पवृक्षा
इवाश्रिताः॥६.६॥
अधःप्रवर्त्तिताश्वेन
समावर्जितकेतुना
।
सहस्ररश्मिना
शश्वत् सप्रमाणम्
उदीक्षिताः॥६.७॥
आसक्तबाहुलतया
सार्धम् उद्धृतया
भुवा ।
महावराहदंष्ट्रायां
विश्रान्ताः प्रलयापदि॥६.८॥
सर्गशेषप्रणयनाद्
विश्वयोनेर् अनन्तरम्
।
पुरातनाः पुराविद्भिर्
धातार इति कीर्तिताः॥६.९॥
प्राक्तनानां
विशुद्धानां परिपाकम्
उपेयुषाम् ।
तपसाम् उपभुञ्जानाः
फलान्य् अपि तपस्विनः॥६.१०॥
तेषां मध्यगता
साध्वी पत्युः
पादार्पितेक्षणा
।
साक्षाद् इव
तपःसिद्धिर् बभासे
बह्व् अरुन्धती॥६.११॥
ताम् अगौरवभेदेन
मुनींश् चापश्यद्
ईश्वरः ।
स्त्री पुमान्
इत्य् अनास्थैषा
वृत्तं हि महितं
सताम्॥६.१२॥
तद्दर्शनाद्
अभूच् छम्भोर्
भूयान् दारार्थम्
आदरः ।
क्रियाणां
खलु धर्म्याणां
सत्पत्न्यो मूलसाधनम्॥६.१३॥
धर्मेणापि
पदं शर्वे कारिते
पार्वतीं प्रति
।
पूर्वापराधभीतस्य
कामस्योच्छ्वासितं
मनः॥६.१४॥
अथ ते मुनयः
सर्वे मानयित्वा
जगद्गुरुम् ।
इदम् ऊचुर्
अनूचानाः प्रीतिकण्टकितत्वचः॥६.१५॥
यद् ब्रह्म
सम्यग् आम्नातं
यद् अग्नौ विधिना
हुतम् ।
यच् च तप्तं
तपस् तस्य विपक्वं
फलम् अद्य नः॥६.१६॥
यद् अध्यक्षेण
जगतां वयम् आरोपितास्
त्वया ।
मनोरथस्याविषयं
मनोविषयम् आत्मनः॥६.१७॥
यस्य चेतसि
वर्तेथाः स तावत्
कृतिनां वरः ।
किं पुनर्
ब्रह्मयोनेर्
यस् तव चेतसि वर्तते॥६.१८॥
सत्यम् अर्काच्
च सोमाच् च परम्
अध्यास्महे पदम्
।
अद्य तूच्चैस्तरं
तस्मात् स्मरणानुग्रहात्
तव॥६.१९॥
त्वत्संभावितम्
आत्मानं बहु मन्यामहे
वयम् ।
प्रायः प्रत्ययम्
आधत्ते स्वगुणेषूत्तमादरः॥६.२०॥
या नः प्रीतिर्
विर्ऊपाक्ष त्वदनुध्यानसंभवा
।
सा किम् आवेद्यते
तुभ्यम् अन्तरात्मासि
देहिनाम्॥६.२१॥
साक्षाद् दृष्टो
ऽसि न पुनर् विद्मस्
त्वां वयम् अञ्जसा
।
प्रसीद कथयात्मानं
न धियां पथि वर्तसे॥६.२२॥
किं येन सृजसि
व्यक्तम् उत येन
बिभर्षि तत् ।
अथ विश्वस्य
संहर्ता भागः कतम
एष ते॥६.२३॥
अथवा सुमहत्य्
एषा प्रार्थना
देव तिष्ठतु ।
चिन्तितोपस्थितांस्
तावच् छाधि नः
करवाम किम्॥६.२४॥
अथ मौलिगतस्येन्दोर्
विशदैर् दशनांशुभिः
।
उपचिन्वन्
प्रभां तन्वीं
प्रत्याह परमेश्वरः॥६.२५॥
विदितं वो
यथा स्वार्था न
मे काश्चित् प्रवृत्तयः
।
ननु मूर्तिभिर्
अष्टाभिर् इत्थंभूतो
ऽस्मि सूचितः॥६.२६॥
सो ऽहं तृष्णातुरैर्
वृष्टिं विद्युत्वान्
इव चातकैः ।
अरिविप्रकृतैर्
देवैः प्रसूतिं
प्रति याचितः॥६.२७॥
अत आहर्तुम्
इच्छामि पार्वतीम्
आत्मजन्मने ।
उत्पत्तये
हविर्भोक्तुर्
यजमान इवारणिम्॥६.२८॥
ताम् अस्मदर्थे
युष्माभिर् याचितव्यो
हिमालयः ।
विक्रियायै
न कल्पन्ते संबन्धाः
सदनुष्ठिताः॥६.२९॥
उन्नतेन स्थितिमता
धुरम् उद्वहता
भुवः ।
तेन योजितसंबन्धं
वित्त माम् अप्य्
अवञ्चितम्॥६.३०॥
एवं वाच्यः
स कन्यार्थम् इति
वो नोपदिश्यते
।
भवत्प्रणीतम्
आचारम् आमनन्ति
हि साधवः॥६.३१॥
आर्याप्य्
अरुन्धती तत्र
व्यापारं कर्तुं
अर्हति ।
प्रायेणैवंविधे
कार्ये पुरन्ध्रीणां
प्रगल्भता॥६.३२॥
तत् प्रयातौषधिप्रस्थं
सिद्धये हिमवत्पुरम्
।
महाकोशीप्रपाते
ऽस्मिन् संगमः
पुनर् एव नः॥६.३३॥
तस्मिन् संयमिनाम्
आद्ये जाते परिणयोन्मुखे
।
जहुः परिग्रहव्रीडां
प्राजापत्यास्
तपस्विनः॥६.३४॥
ततः परमम्
इत्य् उक्त्वा
प्रतस्थे मुनिमण्डलम्
।
भगवान् अपि
संप्राप्तः प्रथमोद्दिष्टम्
आस्पदम्॥६.३५॥
ते चाकाशम्
असिश्यामम् उत्पत्य
परमर्षयः ।
आसेदुर् ओषधिप्रस्थं
मनसा समरंहसः॥६.३६॥
अलकाम् अतिवाह्येव
वसतिं वसुसंपदाम्
।
स्वर्गाभिष्यन्दवमनं
कृत्वेवोपनिवेशितम्॥६.३७॥
गङ्गास्रोतःपरिक्षिप्त-
वप्रान्तर्ज्वलितौषधि
।
बृहन्मणिशिलासालं
गुप्ताव् अपि मनोहरम्॥६.३८॥
जितसिंहभया
नागा यत्राश्वा
बिलयोनयः ।
यक्षाः किंपुरुषाः
पौरा योषितो वनदेवताः॥६.३९॥
शिखरासक्तमेघानां
व्यजन्ते यत्र
वेश्मनाम् ।
अनुगर्जितसंदिग्धाः
करणैर् मुरजस्वनाः॥६.४०॥
यत्र कल्पद्रुमैर्
एव विलोलविटपांशुकैः
।
गृहयन्त्रपताकाश्रीर्
अपौरादरनिर्मिता॥६.४१॥
यत्र स्फटिकहर्म्येषु
नक्तम् आपानभूमिषु
।
ज्योतिषां
प्रतिबिम्बानि
प्राप्नुवन्त्य्
उपहारताम्॥६.४२॥
यत्रौषधिप्रकाशेन
नक्तं दर्शितसंचराः
।
अनभिज्ञास्
तमिस्राणां दुर्दिनेष्व्
अभिसारिकाः॥६.४३॥
यौवनान्तं
वयो यस्मिन्न्
आतङ्कः कुसुमायुधः
।
रतिखेदसमुत्पन्ना
निद्रा संज्ञाविपर्ययः॥६.४४॥
भ्र्ऊभेदिभिः
सकम्पोष्ठैर्
ललिताङ्गुलितर्जनैः
।
यत्र कोपैः
कृताः स्त्रीणाम्
आप्रसादार्थिनः
प्रियाः॥६.४५॥
संतानकतरुच्छाया-
सुप्तविद्याधराध्वगम्
।
यस्य चोपवनं
बाह्यं सुगन्धिर्
गन्धमादनः॥६.४६॥
अथ ते मुनयो
दिव्याः प्रेक्ष्य
हैमवतं पुरम् ।
स्वर्गाभिसंधिसुकृतं
वञ्चनाम् इव मेनिरे॥६.४७॥
ते सद्मनि
गिरेर् वेगाद्
उन्मुखद्वाःस्थवीक्षिताः
।
अवतेरुर् जटाभारैर्
लिखितानलनिश्चलैः॥६.४८॥
गगनाद् अवतीर्णा
सा यथावृद्धपुरस्सरा
।
तोयान्तर्
भास्करालीव रेजे
मुनिपरम्परा॥६.४९॥
तान् अर्घ्यान्
अर्घ्यम् आदाय
दूरात् प्रत्युद्ययौ
गिरिः ।
नमयन् सारगुरुभिः
पादन्यासैर् वसुन्धराम्॥६.५०॥
धातुताम्राधरः
प्रांशुर् देवदारुबृहद्भुजः
।
प्रकृत्यैव
शिलोरस्कः सुव्यक्तो
हिमवान् इति॥६.५१॥
विधिप्रयुक्तसत्कारैः
स्वयं मार्गस्य
दर्शकः ।
स तैर् आक्रमयाम्
आस शुद्धान्तं
शुद्धकर्मभिः॥६.५२॥
तत्र वेत्रासनासीनान्
कृतासनपरिग्रहः
।
इत्य् उवाचेश्वरान्
वाचं प्राञ्जलिः
पृथिवीधरः॥६.५३॥
अपमेघोदयं
वर्षम् अदृष्टकुसुमं
फलम् ।
अतर्कितोपपन्नं
वो दर्शनं प्रतिभाति
मे॥६.५४॥
मूढं बुद्धम्
इवात्मानं हैमीभूतम्
इवायसम् ।
भूमेर् दिवम्
इवार्ऊढं मन्ये
भवदनुग्रहात्॥६.५५॥
अद्यप्रभृति
भूतानाम् अधिगम्यो
ऽस्मि शुद्धये
।
यद् अध्यासितम्
अर्हद्भिस् तद्
धि तीर्थं प्रचक्षते॥६.५६॥
अवैमि पूतम्
आत्मानं द्वयेनैव
द्विजोत्तमाः
।
मूर्ध्नि गङ्गाप्रपातेन
धौतपादाम्भसा
च वः॥६.५७॥
जङ्गमं प्रैष्यभावे
वः स्थावरं चरणाङ्कितम्
।
विभक्तानुग्रहं
मन्ये द्विर्ऊपम्
अपि मे वपुः॥६.५८॥
भवत्संभावनोत्थाय
परितोषाय मूर्च्छते
।
अपि व्याप्तदिगन्तानि
नाङ्गानि प्रभवन्ति
मे॥६.५९॥
न केवलं दरीसंस्थं
भास्वतां दर्शनेन
वः ।
अन्तर्गतम्
अपास्तं मे रजसो
ऽपि परं तमः॥६.६०॥
कर्तव्यं वो
न पश्यामि स्याच्
चेत् किं नोपपद्यते
।
शङ्के मत्पावनायैव
प्रस्थानं भवताम्
इह॥६.६१॥
तथापि तावत्
कस्मिंश् चिद्
आज्ञां मे दातुम्
अर्हथ ।
विनियोगप्रसादा
हि किङ्कराः प्रभविष्णुषु॥६.६२॥
एते वयम् अमी
दाराः कन्येयं
कुलजीवितम् ।
ब्र्ऊत येनात्र
वः कार्यम् अनास्था
बाह्यवस्तुषु॥६.६३॥
इत्य् ऊचिवांस्
तम् एवार्थं दरीमुखविसर्पिणा
।
द्विर् इव
प्रतिशब्देन व्याजहार
हिमालयः॥६.६४॥
अथाङ्गिरसम्
अग्रण्यम् उदाहरणवस्तुषु
।
ऋषयश् चोदयाम्
आसुः प्रत्युवाच
स भूधरम्॥६.६५॥
उपपन्नम् इदं
सर्वम् अतः परम्
अपि त्वयि ।
मनसः शिखराणां
च सदृशी ते समुन्नतिः॥६.६६॥
स्थाने त्वां
स्थावरात्मानं
विष्णुम् आहुस्
तथा हि ते ।
चराचराणां
भूतानां कुक्षिर्
आधारतां गतः॥६.६७॥
गाम् अधास्यत्
कथं नागो मृणालमृदुभिः
फणैः ।
आ रसातलमूलात्
त्वम् अवालम्बिष्यथा
न चेत्॥६.६८॥
अच्छिन्नामलसंतानाः
समुद्रोर्म्यनिवारिताः
।
पुनन्ति लोकान्
पुण्यत्वात् कीर्तयः
सरितश् च ते॥६.६९॥
यथैव श्लाघ्यते
गङ्गा पादेन परमेष्ठिनः
।
प्रभवेण द्वितीयेन
तथैवोच्छिरसा
त्वया॥६.७०॥
तिर्यग् ऊर्ध्वम्
अधस्ताच् च व्यापको
महिमा हरेः ।
त्रिविक्रमोद्यतस्यासीत्
स च स्वाभाविकस्
तव॥६.७१॥
यज्ञभागभुजां
मध्ये पदम् आतस्थुषा
त्वया ।
उच्चैर् हिरण्मयं
शृङ्गं सुमेरोर्
वितथीकृतम्॥६.७२॥
काठिन्यं स्थावरे
काये भवता सर्वम्
अर्पितम् ।
इदं तु भक्तिनम्रं
ते सताम् आराधनं
वपुः॥६.७३॥
तद् आगमनकार्यं
नः शृणु कार्यं
तवैव तत् ।
श्रेयसाम्
उपदेशात् तु वयम्
अत्रांशभागिनः॥६.७४॥
अणिमादिगुणोपेतम्
अस्पृष्टपुरुषान्तरम्
।
शब्दम् ईश्वर
इत्य् उच्चैः सार्धचन्द्रं
बिभर्ति यः॥६.७५॥
कल्पितान्योन्यसामर्थ्यैः
पृथिव्यादिभिर्
आत्मनि ।
येनेदं ध्रियते
विश्वं धुर्यैर्
यानम् इवाध्वनि॥६.७६॥
योगिनो यं
विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम्
।
अनावृत्तिभयं
यस्य पदम् आहुर्
मनीषिणः॥६.७७॥
स ते दुहितरं
साक्षात् साक्षी
विश्वस्य कर्मणः
।
वृणुते वरदः
शंभुर् अस्मत्संक्रामितैः
पदैः॥६.७८॥
तम् अर्थम्
इव भारत्या सुतया
योक्तुम् अर्हसि
।
अशोच्या हि
पितुः कन्या सद्भर्त्रे
प्रतिपादिता॥६.७९॥
यावद् एतानि
भूतानि स्थावराणि
चराणि च ।
मातरं कल्पयन्त्य्
एनाम् ईशो हि जगतः
पिता॥६.८०॥
प्रणम्य शितिकण्ठाय
विबुधास् तदनन्तरम्
।
चरणौ रञ्जयन्त्य्
अस्याश् चूडामणिमरीचिभिः॥६.८१॥
उमा वधूर्
भवान् दाता याचितार
इमे वयम् ।
वरः शंभुर्
अलं ह्य् एष त्वत्कुलोद्भूतये
विधिः॥६.८२॥
अस्तोतुः स्तूयमानस्य
वन्द्यस्यानन्यवन्दिनः
।
सुतासंबन्धविधिना
भव विश्वगुरोर्
गुरुः॥६.८३॥
एवं वादिनि
देवर्षौ पार्श्वे
पितुर् अधोमुखी
।
लीलाकमलपत्राणि
गणयाम् आस पार्वती॥६.८४॥
शैलः संपूर्णकामो
ऽपि मेनामुखम्
उदैक्षत ।
प्रायेण गृहिणीनेत्राः
कन्यार्थे हि कुटुम्बिनः॥६.८५॥
मेने मेनापि
तत् सर्वं पत्युः
कार्यम् अभीप्सितम्
।
भवन्त्य् अव्यभिचारिण्यो
भर्तुर् इष्टे
पतिव्रताः॥६.८६॥
इदम् अत्रोत्तरं
न्याय्यम् इति
बुद्ध्या विमृश्य
सः ।
आददे वचसाम्
अन्ते मङ्गलालङ्कृतां
सुताम्॥६.८७॥
एहि विश्वात्मने
वत्से भिक्षासि
परिकल्पिता ।
अर्थिनो मुनयः
प्राप्तं गृहमेधिफलं
मया॥६.८८॥
एतावद् उक्त्वा
तनयाम् ऋषीन् आह
महीधरः ।
इयं नमति वः
सर्वांस् त्रिलोचनवधूर्
इति॥६.८९॥
ईप्सितार्थक्रियोदारं
ते ऽभिनन्द्य गिरेर्
वचः ।
आशीर्भिर्
एधयाम् आसुः पुरःपाकाभिर्
अम्बिकाम्॥६.९०॥
तां प्रणामादरस्रस्त-
जाम्बूनदवतंसकाम्
।
अङ्कम् आरोपयाम्
आस लज्जमानाम्
अरुन्धती॥६.९१॥
तन्मातरं चाश्रुमुखीं
दुहितृस्नेहविक्लवाम्
।
वरस्यानन्यपूर्वस्य
विशोकाम् अकरोद्
गुणैः॥६.९२॥
वैवाहिकीं
तिथिं पृष्टास्
तत्क्षणं हरबन्धुना
।
ते त्र्यहाद्
ऊर्ध्वम् आख्याय
चेलुश् चीरपरिग्रहाः॥६.९३॥
ते हिमालयम्
आमन्त्र्य पुनः
प्रेक्ष्य च शूलिनम्
।
सिद्धं चास्मै
निवेद्यार्थं
तद्विसृष्टाः
खम् उद्ययुः॥६.९४॥
पशुपतिर् अपि
तान्य् अहानि कृच्छ्राद्
अगमयद् अद्रिसुतासमागमोत्कः
।
कम् अपरम्
अवशं न विप्रकुर्युर्
विभुम् अपि तं
यद् अमी स्पृशन्ति
भावाः॥६.९५॥
॥७॥
अथौषधीनाम्
अधिपस्य वृद्धौ
तिथौ च जामित्रगुणान्वितायाम्
।
समेतबन्धुर्
हिमवान् सुताया
विवाहदीक्षाविधिम्
अन्वतिष्ठत्॥७.१॥
वैवाहिकैः
कौतुकसंविधानैर्
गृहे गृहे व्यग्रपुरंध्रिवर्गम्
।
आसीत् पुरं
सानुमतो ऽनुरागाद्
अन्तःपुरं चैककुलोपमेयम्॥७.२॥
संतानकाकीर्णमहापथं
तच् चीनांशुकैः
कल्पितकेतुमालम्
।
भासा ज्वलत्
काञ्चनतोरणानां
स्थानान्तरस्वर्ग
इवाबभासे॥७.३॥
एकैव सत्याम्
अपि पुत्रपङ्क्तौ
चिरस्य दृष्टेव
मृतोत्थितेव ।
आसन्नपाणिग्रहणेति
पित्रोर् उमा विशेषोच्छ्वसितं
बभूव॥७.४॥
अङ्काद् ययाव्
अङ्कम् उदीरिताशीः
सा मण्डनान् मण्डनम्
अन्वभुङ्क्त ।
संबन्धिभिन्नो
ऽपि गिरेः कुलस्य
स्नेहस् तदेकायतनं
जगाम॥७.५॥
मैत्रे मुहूर्ते
शशलाञ्छनेन योगं
गतासूत्तरफल्गुनीषु
।
तस्याः शरीरे
प्रतिकर्म चक्रुर्
बन्धुस्त्रियो
याः पतिपुत्रवत्यः॥७.६॥
सा गौरसिद्धार्थनिवेशवद्भिर्
दूर्वाप्रवालैः
प्रतिभिन्नरागम्
।
निर्नाभिकौशेयम्
उपात्तबाणम् अभ्यङ्गनेपथ्यम्
अलञ्चकार॥७.७॥
बभौ च संपर्कम्
उपेत्य बाला नवेन
दीक्षाविधिसायकेन
।
करेण भानोर्
बहुलावसाने संधुक्ष्यमाणेव
शशाङ्कलेखा॥७.८॥
तां लोध्रकल्केन
हृताङ्गतैलाम्
आश्यानकालेयकृताङ्गरागाम्
।
वासो वसानाम्
अभिषेकयोग्यं
नार्यश् चतुष्काभिमुखं
व्यनैषुः॥७.९॥
विन्यस्तवैदूर्यशिलातले
ऽस्मिन्न् अविद्धमुक्ताफलभक्तिचित्रे
।
आवर्जिताष्टापदकुम्भतोयाः
सतूर्यम् एनां
स्नपयां बभूवुः॥७.१०॥
सा मङ्गलस्नानविशुद्धगात्री
गृहीतपत्युद्गमनीयवस्त्रा
।
निर्वृत्तपर्जन्यजलाभिषेका
प्रफुल्लकाशा
वसुधेव रेजे॥७.११॥
तस्मात् प्रदेशाच्
च वितानवन्तं युक्तं
मणिस्तम्भचतुष्टयेन
।
पतिव्रताभिः
परिगृह्य निन्ये
कॢप्तासनं कौतुकवेदिमध्यम्॥७.१२॥
तां प्राङ्मुखीं
तत्र निवेश्य तन्वीं
क्षणं व्यलम्बन्त
पुरो निषण्णाः
।
भूतार्थशोभाह्रियमाणनेत्राः
प्रसाधने सन्निहिते
ऽपि नार्यः॥७.१३॥
धूपोष्मणा
त्याजितम् आर्द्रभावं
केशान्तम् अन्तःकुसुमं
तदीयम् ।
पर्याक्षिपत्
काचिद् उदारबन्धं
दूर्वावता पाण्डुमधूकदाम्ना॥७.१४॥
विन्यस्तशुक्लागुरु
चक्रुर् अस्या
गोरोचनापत्रविभङ्गम्
अङ्गम् ।
सा चक्रवाकाङ्कितसैकतायास्
त्रिस्रोतसः कान्तिम्
अतीत्य तस्थौ॥७.१५॥
लग्नद्विरेफं
परिभूय पद्मं समेघलेखं
शशिनश् च बिम्बम्
।
तदाननश्रीर्
अलकैः प्रसिद्धैश्
चिच्छेद सादृश्यकथाप्रसङ्गम्॥७.१६॥
कर्णार्पितो
लोध्रकषायर्ऊक्षे
गोरोचनाक्षेपनितान्तगौरे
।
तस्याः कपोले
परभागलाभाद् बबन्ध
चक्षूंषि यवप्ररोहः॥७.१७॥
रेखाबिभक्तश्
च विभक्तगात्र्याः
किंचिन्मधूच्छिष्टविमृष्टरागः
।
काम् अप्य्
अभिख्यां स्फुरितैर्
अपुष्यद् आसन्नलावण्यफलो
ऽध्ररोष्ठः॥७.१८॥
पत्युः शिरश्चन्द्रकलाम्
अनेन स्पृशेति
सख्या परिहासपूर्वम्
।
सा रञ्जयित्वा
चरणौ कृताशीर्
माल्येन तां निर्वचनं
जघान॥७.१९॥
तस्याः सुजातोत्पलपत्रकान्ते
प्रसाधिकाभिर्
नयने निरीक्ष्य
।
न चक्षुषोः
कान्तिविशेषबुद्ध्या
कालाञ्जनं मङ्गलम्
इत्य् उपात्तम्॥७.२०॥
सा संभवद्भिः
कुसुमैर् लतेव
ज्योतिर्भिर्
उद्यद्भिर् इव
त्रियामा ।
सरिद् विहङ्गैर्
इव लीयमानैर् आमुच्यमानाभरणा
चकासे॥७.२१॥
आत्मानम् आलोक्य
च शोभमानम् आदर्शबिम्बे
स्तिमितायताक्षी
।
हरोपयाने त्वरिता
बभूव स्त्रीणां
प्रियालोकफलो
हि वेषः॥७.२२॥
अथाङ्गुलिभ्यां
हरितालम् आर्द्रं
माङ्गल्यम् आदाय
मनःशिलां च ।
कर्णावसक्तामलदन्तपत्रं
माता तदीयं मुखम्
उन्नमय्य॥७.२३॥
उमास्तनोद्भेदम्
अनुप्रवृद्धो
मनोरथो यः प्रथमो
बभूव ।
तम् एव मेना
दुहितुः कथंचिद्
विवाहदीक्षातिलकं
चकार॥७.२४॥
बबन्ध चास्राकुलदृष्टिर्
अस्याः स्थानान्तरे
कल्पितसन्निवेशम्
।
धात्र्यङ्गुलीभिः
प्रतिसार्यमाणम्
ऊर्णमयं कौतुकहस्तसूत्रम्॥७.२५॥
क्षीरोदवेलेव
सफेनपुञ्जा पर्याप्तचन्द्रेव
शरत्त्रियामा
।
नवं नवक्षौमनिवासिनी
सा भूयो बभौ दर्पणम्
आदधाना॥७.२६॥
ताम् अर्चिताभ्यः
कुलदेवताभ्यः
कुलप्रतिष्ट्ःआं
प्रणमय्य माता
।??
अकारयत् कारयितव्यदक्षा
क्रमेण पादग्रहणं
सतीनाम्॥७.२७॥
अखण्डितं प्रेम
लभस्व पत्युर्
इत्य् उच्यते ताभिर्
उमा स्म नम्रा
।
तया तु तस्यार्धशरीरभाजा
पश्चात्कृताः
स्निग्धजनाशिषो
ऽ पि॥७.२८॥
इच्छाविभूत्योर्
अनुर्ऊपम् अद्रिस्
तस्याः कृती कृत्यम्
अशेषयित्वा ।
सभ्यः सभायां
सुहृदास्थितायां
तस्थौ वृषाङ्कागमनप्रतीक्षः॥७.२९॥
तावद् वरस्यापि
कुबेरशैले तत्पूर्वपाणिग्रहणानुर्ऊपम्
।
प्रसाधनं मातृभिर्
आदृताभिर् न्यस्तं
पुरस्तात् पुरशासनस्य॥७.३०॥
तद्गौरवान्
मङ्गलमण्डनश्रीः
सा पस्पृशे केवलम्
ईश्वरेण ।
स्व एव वेषः
परिणेतुर् इष्टं
भावान्तरं तस्य
विभोः प्रपेदे॥७.३१॥
बभूव भस्मैव
सिताङ्गरागः कपालम्
एवामलशेखरश्रीः
।
उपान्तभागेषु
च रोचनाङ्को गजाजिनस्यैव
दुकूलभावः॥७.३२॥
शङ्खान्तरद्योति
विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम्
।
सान्निध्यपक्षे
हरितालमय्यास्
तद् एव जातं तिलकक्रियायाः॥७.३३॥
यथाप्रदेशं
भुजगेश्वराणां
करिश्यताम् आभरणान्तरत्वम्
।
शरीरमात्रं
विकृतिं प्रपेदे
तथैव तस्थुः फणरत्नशोभाः॥७.३४॥
दिवापि निष्ठ्यूतमरीचिभासा
बाल्याद् अनाविष्कृतलाञ्छनेन
।
चन्द्रेण नित्यं
प्रतिभिन्नमौलेश्
चूडामणेः किं ग्रहणं
हरस्य॥७.३५॥
इत्य् अद्भुतैकप्रभवः
प्रभावात् प्रसिद्धनेपथ्यविधेर्
विधाता ।
आत्मानम् आसन्नगणोपनीते
खड्गे निषक्तप्रतिमं
ददर्श॥७.३६॥
स गोपतिं नन्दिभुजावलम्बी
शार्दूलचर्मान्तरितोरुपृष्ठम्
।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणम्
आरुह्य कैलासम्
इव प्रतस्थे॥७.३७॥
तं मातरो देवम्
अनुव्रजन्त्यः
स्ववाहनक्षोभचलावतंसाः
।
मुखैः प्रभामण्डलरेणुगौरैः
पद्माकरं चक्रुर्
इवान्तरीक्षम्॥७.३८॥
तासां च पश्चात्
कनकप्रभाणां काली
कपालाभरणा चकासे
।
बलाकिनी नीलपयोदराजी
दूरं पुरःक्षिप्तशतह्रदेव॥७.३९॥
ततो गणैः शूलभृतः
पुरोगैर् उदीरितो
मङ्गलतूर्यघोषः
।
विमानशृङ्गाण्य्
अवगाहमानः शशंस
सेवावसरं सुरेभ्यः॥७.४०॥
उपाददे तस्य
सहस्ररश्मिस्
त्वष्ट्रा नवं
निर्मितम् आतपत्रम्
।
स तद्दुकूलाद्
अविदूरमौलिर्
बभौ पतद्गङ्ग इवोत्तमाङ्गे॥७.४१॥
मूर्ते च गङ्गायमुने
तदानीं सचामरे
देवम् असेविषाताम्
।
समुद्रगार्ऊपविपर्यये
ऽपि सहंसपाते इव
लक्ष्यमाणे॥७.४२॥
तम् अन्वगच्छत्
प्रथमो विधाता
श्रीवत्सलक्ष्मा
पुरुषश् च साक्षात्
।
जयेति वाचा
महिमानम् अस्य
संवर्धयन्त्या
हविषेव वह्निम्॥७.४३॥
एकैव मूर्तिर्
बिभिदे त्रिधा
सा सामान्यम् एषां
प्रथमावरत्वम्
।
विष्णोर् हरस्
तस्य हरिः कदाचिद्
वेधास् तयोस् ताव्
अपि धातुर् आद्यौ॥७.४४॥
तं लोकपालाः
पुरुहूतमुख्याः
श्रीलक्षणोत्सर्गविनीतवेषाः
।
दृष्टिप्रदाने
कृतनन्दिसंज्ञास्
तद्दर्शिताः प्राञ्जलयः
प्रणेमुः॥७.४५॥
कम्पेन मूर्ध्नः
शतपत्रयोनिं वाचा
हरिं वृत्रहणं
स्मितेन ।
आलोकमात्रेण
सुरान् अशेषान्
संभावयाम् आस यथाप्रधानम्॥७.४६॥
तस्मै जयाशीः
ससृजे पुरस्तात्
सप्तर्षिभिस्
तान् स्मितपूर्वम्
आह ।
विवाहयज्ञे
वितते ऽत्र यूयम्
अध्वर्यवः पूर्ववृता
मयेति॥७.४७॥
विश्वावसुप्राग्रहरैः
प्रवीणैः संगीयमानत्रिपुरावदानः
।
अध्वानम् अध्वान्तविकारलङ्घ्यस्
ततार ताराधिपखण्डधारी॥७.४८॥
खे खेलगामी
तम् उवाह वाहः
सशब्दचामीकरकिङ्किणीकः
।
तटाभिघाताद्
इव लग्नपङ्के धुन्वन्
मुहुः प्रोतघने
विषाणे॥७.४९॥
स प्रापद्
अप्राप्तपराभियोगं
नगेन्द्रगुप्तं
नगरं मुहूर्तात्
।
पुरो विलग्नैर्
हरदृष्टिपातैः
सुवर्णसूत्रैर्
इव कृष्यमाणः॥७.५०॥
तस्योपकण्ठे
घननीलकण्ट्ःअः
कुतूहलाद् उन्मुखपौरदृष्टः
।
स्वबाणचिह्नाद्
अवतीर्य मार्गाद्
आसन्नभूपृष्ठम्
इयाय देवः॥७.५१॥
तम् ऋद्धिमद्बन्धुजनाधिर्ऊढैर्
वृन्दैर् गजानां
गिरिचक्रवर्ती
।
प्रत्युज्जगामागमनप्रतीतः
प्रफुल्लवृक्षैः
कटकैर् इव स्वैः॥७.५२॥
वर्गाव् उभौ
देवमहीधराणां
द्वारे पुरस्योद्घटितापिधाने
।
समीयतुर् दूरविसर्पिघोषौ
भिन्नैकसेतू पयसाम्
इवौघौ॥७.५३॥
ह्रीमान् अभूद्
भूमिधरो हरेण त्रैलोक्यवन्द्येन
कृतप्रणामः ।
पूर्वं महिम्ना
स हि तस्य दूरम्
आवर्जितं नात्मशिरो
विवेद॥७.५४॥
स प्रीतियोगाद्
विकसन्मुखश्रीर्
जामातुर् अग्रेसरताम्
उपेत्य ।
प्रावेशयन्
मन्दिरम् ऋद्धम्
एनम् आगुल्फकीर्णापणमार्गपुष्पम्॥७.५५॥
तस्मिन् मुहूर्ते
पुरसुन्दरीणाम्
ईशानसंदर्शनलालसानाम्
।
प्रासादमालासु
बभूवुर् इत्थं
त्यक्तान्यकार्याणि
विचेष्टितानि॥७.५६॥
आलोकमार्गं
सहसा व्रजन्त्या
कयाचिद् उद्वेष्टनवान्तमाल्यः
।
बन्धुं न संभावित
एव तावत् करेण
रुद्धो ऽपि न केशपाशः॥७.५७॥
प्रसाधिकालम्बितम्
अग्रपादम् आक्षिप्य
काचिद् द्रवरागम्
एव ।
उत्सृष्टलीलागतिर्
आगवाक्षाद् अलक्तकाङ्कां
पदवीं ततान॥७.५८॥
विलोचनं दक्षिणम्
अञ्जनेन संभाव्य
तद्वञ्चितवामनेत्रा
।
तथैव वातायनसंनिकर्षं
ययौ शलाकाम् अपरा
वहन्ती॥७.५९॥
जालान्तरप्रेषितदृष्तिर्
अन्या प्रस्थानभिन्नां
न बबन्ध नीवीम्
।
नाभिप्रविष्टाभरणप्रभेण
हस्तेन तस्थाव्
अवलम्ब्य वासः॥७.६०॥
अर्धाचिता
सत्वरम् उत्थितायाः
पदे पदे दुर्निमिते
गलन्ती ।
कस्याश्चिद्
आसीद् रशना तदानीम्
अङ्गुष्ठमूलार्पितसूत्रशेषा॥७.६१॥
तासां मुखैर्
आसवगन्धगर्भैर्
व्याप्तान्तराः
सान्द्रकुतूहलानाम्
।
विलोलनेत्रभ्रमरैर्
गवाक्षाः सहस्रपत्राभरणा
इवासन्॥७.६२॥
तावत् पताकाकुलम्
इन्दुमौलिर् उत्तोरणं
राजपथं प्रपेदे
।
प्रासादशृङ्गाणि
दिवापि कुर्वञ्
ज्योत्स्नाभिषेकद्विगुणद्युतीनि॥७.६३॥
तम् एकदृश्यं
नयनैः पिबन्त्यो
नार्यो न जग्मुर्
विषयान्तराणि
।
तथा हि शेषेन्द्रियवृत्तिर्
आसां सर्वात्मना
चक्षुर् इव प्रविष्टा॥७.६४॥
स्थाने तपो
दुश्चरम् एतदर्थम्
अपर्णया पेलवयापि
तप्तम् ।
या दास्यम्
अप्य् अस्य लभेत
नारी सा स्यात्
कृतार्था किम्
उताङ्कशय्याम्॥७.६५॥
परस्परेण स्पृहणीयशोभं
न चेद् इदं द्वन्द्वम्
अयोजयिष्यत् ।
अस्मिन् द्वये
र्ऊपविधानयत्नः
पत्युः प्रजानां
विफलो ऽभविश्यत्॥७.६६॥
न नूनम् आर्ऊढरुषा
शरीरम् अनेन दग्धं
कुसुमायुधस्य
।
व्रीडाद् अमुं
देवम् उदीक्ष्य
मन्ये संन्यस्तदेहः
स्वयम् एव कामः॥७.६७॥
अनेन संबन्धम्
उपेत्य दिष्ट्या
मनोरथप्रार्थितम्
ईश्वरेण ।
मूर्धानम्
आलि क्षितिधारणोच्चम्
उच्चैस्तरां वक्ष्यति
शैलराजः॥७.६८॥
इत्य् ओषधिप्रस्थविलासिनीनां
शृण्वन् कथाः श्रोत्रसुखास्
त्रिनेत्रः ।
केयूरचूर्णीकृतलाजमुष्टिं
हिमालयस्यालयम्
आससाद॥७.६९॥
तत्रावतीर्याच्युतदत्तहस्तः
शरद्घनाद् दीधितिमान्
इवोक्ष्णः ।
क्रान्तानि
पूर्वं कमलासनेन
कक्ष्यान्तराण्य्
अद्रिपतेर् विवेश॥७.७०॥
तम् अन्वग्
इन्द्रप्रमुखाश्
च देवाः सप्तर्षिपूर्वाः
परमर्षयश् च ।
गणाश् च गिर्यालयम्
अभ्यगच्छन् प्रशस्तम्
आरम्भम् इवोत्तमार्थाः॥७.७१॥
तत्रेश्वरो
विष्टरभाग् यथावत्
सरत्नम् अर्घ्यं
मधुमच् च गव्यम्
।
नवे दुकूले
च नगोपनीतं प्रत्यग्रहीत्
सर्वम् अमन्त्रवर्जम्॥७.७२॥
दुकूलवासाः
स वधूसमीपं निन्ये
विनीतैर् अवरोधरक्षैः
।
वेलासमीपं
स्फुटफेनराजिर्
नवैर् उदन्वान्
इव चन्द्रपादैः॥७.७३॥
तया प्रवृद्धाननचन्द्रकान्त्या
प्रफुल्लचक्षुःकुमुदः
कुमार्या ।
प्रसन्नचेतःसलिलः
शिवो ऽभूत् संसृज्यमानः
शरदेव लोकः॥७.७४॥
तयोः समापत्तिषु
कातराणि किंचिद्व्यवस्थापितसंहृतानि
।
ह्रीयन्त्रणां
तत्क्षणम् अन्वभूवन्न्
अन्योन्यलोलानि
विलोचनानि॥७.७५॥
तस्याः करं
शैलगुर्ऊपनीतं
जग्राह ताम्राङ्गुलिम्
अष्टमूर्त्तिः
।
उमातनौ गूढतनोः
स्मरस्य तच्छङ्किनः
पूर्वम् इव प्ररोहम्॥७.७६॥
रोमोद्गमः
प्रादुर् अभूद्
उमायाः स्विन्नाङ्गुलिः
पुङ्गवकेतुर्
आसीत् ।
वृत्तिस् तयोः
पाणिसमागमेन समं
विभक्तेव मनोभवस्य॥७.७७॥
प्रयुक्तपाणिग्रहणं
यद् अन्यद् वधूवरं
पुष्यति कान्तिम्
अग्र्याम् ।
सान्निध्ययोगाद्
अनयोस् तदानीं
किं कथ्यते श्रीर्
उभयस्य तस्य॥७.७८॥
प्रदक्षिणप्रक्रमणात्
कृशानोर् उदर्चिषस्
तन् मिथुनं चकासे
।
मेरोर् उपान्तेष्व्
इव वर्तमानम् अन्योन्यसंसक्तम्
अहस्त्रियामम्॥७.७९॥
तौ दम्पती
त्रिः परिणीय वह्निम्
कराग्रसंस्पर्शनिमीलिताक्षीम्
।
तां कारयाम्
आस वधूं पुरोधास्
तस्मिन् समिद्धार्चिषि
लाजमोक्षम्॥७.८०॥
सा लाजधूमाञ्जलिम्
इष्टगन्धं गुर्ऊपदेशाद्
वदनं निनाय ।
कपोलसंसर्पिशिखः
स तस्या मुहूर्तकर्णोत्पलतां
प्रपेदे॥७.८१॥
तद् ईषदार्द्रारुणगण्डलेखम्
उच्छ्वासिकालाञ्जनरागम्
अक्ष्णोः ।
वधूमुखं क्लान्तयवावतंसम्
आचारधूमग्रहणाद्
बभूव॥७.८२॥
वधूं द्विजः
प्राह तवैष वत्से
वह्निर् विवाहं
प्रति पूर्वसाक्षी
।
शिवेन भर्त्रा
सह धर्मचर्या कार्या
त्वया मुक्तविचारयेति॥७.८३॥
आलोचनान्तं
श्रवणे वितत्य
पीतं गुरोस् तद्वचनं
भवान्या ।
निदाघकालोल्बणतापयेव
माहेन्द्रम् अम्भः
प्रथमं पृथिव्या॥७.८४॥
ध्रुवेण भर्त्रा
ध्रुवदर्शनाय
प्रयुज्यमाना
प्रियदर्शनेन
।
सा दृष्ट इत्य्
आननम् उन्नमय्य
ह्रीसन्नकण्ठी
कथम् अप्य् उवाच॥७.८५॥
इत्थं विधिज्ञेन
पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ
।
प्रणेमतुस्
तौ पितरौ प्रजानां
पद्मासनस्थाय
पितामहाय॥७.८६॥
वधूर् विधात्रा
प्रतिनन्द्यते
स्म कल्याणि वीरप्रसवा
भवेति ।
वाचस्पतिः
सन्न् अपि सो ऽष्टमूर्त्तव्
आशास्य चिन्तास्तिमितो
बभूव॥७.८७॥
कॢप्तोपचारां
चतुरस्रवेदीं
ताव् एत्य पश्चाट्
कनकासनस्थौ ।
जायापती लौकिकम्
एषितव्यम् आर्द्राक्षतारोपणम्
अन्वभूताम्॥७.८८॥
पत्रान्तलग्नैर्
जलबिन्दुजालैर्
आकृष्टमुक्ताफलजालशोभम्
।
तयोर् उपर्य्
आयतनालदण्डम्
आधत्त लक्ष्मीः
कमलातपत्रम्॥७.८९॥
द्विधा प्रयुक्तेन
च वाङ्मयेन सरस्वती
तन् मिथुनं नुनाव
।
संस्कारपूतेन
वरं वरेण्यं वधूं
सुखग्राह्यनिबन्धनेन॥७.९०॥
तौ सन्धिषु
व्यञ्जितवृत्तिभेदं
रसान्तरेषु प्रतिबद्धरागम्
।
अपश्यताम्
अप्सरसां मुहूर्तं
प्रयोगम् आद्यं
ललिताङ्गहारम्॥७.९१॥
देवास् तदन्ते
हरम् ऊढभार्यं
किरीटबद्धाञ्जलयो
निपत्य ।
शापावसाने
प्रतिपन्नमूर्त्तेर्
ययाचिरे पञ्चशरस्य
सेवाम्॥७.९२॥
तस्यानुमेने
भगवान् विमन्युर्
व्यापारम् आत्मन्य्
अपि सायकानाम्
।
काले प्रयुक्ता
खलु कार्यविद्भिर्
विज्णापना भर्तृषु
सिद्धिम् एति॥७.९३॥
अथ विबुधगणांस्
तान् इन्दुमौलिर्
विसृज्य क्षितिधरपतिकन्याम्
आददानः करेण ।
कनककलशरकśाभक्तिशोभासनाथं
क्षितिविरचितशय्यं
कौतुकागारम् आगात्॥७.९४॥
नवपरिणयलज्जाभूषणां
तत्र गौरीं वदनम्
अपहरन्तीं तत्कृतोत्क्षेपम्
ईशः ।
अपि शयनसखीभ्यो
दत्तवाचं कथंचित्
प्रमथमुखविकारैर्
हासयाम् आस गूढम्॥७.९५॥
॥८॥
पाणिपीडनविधेर्
अनन्तरं शैलराजदुहितुर्
हरं प्रति ।
भावसाध्वसपरिग्रहाद्
अभूत् कामदोहदमनोहरं
वपुः॥८.१॥
व्याहृता प्रतिवचो
न सन्दधे गन्तुम्
ऐच्छद् अवलम्बितांशुका
।
सेवते स्म
शयनं पराङ्मुखी
सा तथापि रतये
पिनाकिनः॥८.२॥
कैतवेन शयिते
कुतूहलात् पार्वती
प्रतिमुखं निपातितम्
।
चक्षुर् उन्मिषति
सस्मितं प्रिये
विद्युदाहतम्
इव न्यमीलयत्॥८.३॥
नाभिदेशनिहितः
सकम्पया शङ्करस्य
रुरुधे तया करः
।
तद्दुकूलम्
अथ चाभवत् स्वयं
दूरम् उच्छ्वसितनीविबन्धनम्॥८.४॥
एवम् आलि निगृहीतसाध्वसं
शङ्करो रहसि सेव्यताम्
इति ।
सा सखीभिर्
उपदिष्टम् आकुला
नास्मरत् प्रमुखवर्तिनि
प्रिये॥८.५॥
अप्य् अवस्तुनि
कथाप्रवृत्तये
प्रश्नतत्परम्
अनङ्गशासनम् ।
वीक्षितेन
परिगृह्य पार्वती
मूर्धकम्पमयम्
उत्तरं ददौ॥८.६॥
शूलिनः करतलद्वयेन
सा संनिरुध्य नयने
हृतांशुका ।
तस्य पश्यति
ललाटलोचने मोघयत्नविधुरा
रहस्य् अभूत्॥८.७॥
चुम्बनेष्व्
अधरदानवर्जितं
सन्नहस्तम् अदयोपगूहने
।
क्लिष्टमन्मथम्
अपि प्रियं प्रभोर्
दुर्लभप्रतिकृतं
वधूरतम्॥८.८॥
यन् मुखग्रहणम्
अक्षताधरं दत्तम्
अव्रणपदं नखं च
यत् ।
यद् रतं च सदयं
प्रियस्य तत् पार्वती
विषहते स्म नेतरत्॥८.९॥
रात्रिवृत्तम्
अनुयोक्तुम् उद्यतं
सा विभातसमये सखीजनम्
।
नाकरोद् अपकुतूहलं
ह्रिया शंसितुं
च हृदयेन तत्वरे॥८.१०॥
दर्पणे च परिभोगदर्शिनी
पृष्ठतः प्रणयिनो
निषेदुषः ।
प्रेक्ष्य
बिम्बम् अनु बिम्बम्
आत्मनः कानि कानि
न चकार लज्जया॥८.११॥
नीलकण्ठपरिभुक्तयौवनां
तां विलोक्य जननी
समाश्वसत् ।
भर्तृवल्लभतया
हि मानसीं मातुर्
अस्यति शुचं वधूजनः॥८.१२॥
वासराणि कतिचित्
कथञ्चन स्थाणुना
रतम् अकारि चानया
।
ज्ञातमन्मथरसा
शनैः शनैः सा मुमोच
रतिदुःखशीलताम्॥८.१३॥
सस्वजे प्रियम्
उरोनिपीडिता प्रार्थितं
मुखम् अनेन नाहरत्
।
मेखलापणयलोलतां
गतं हस्तम् अस्य
शिथिलं रुरोध सा॥८.१४॥
भावसूचितम्
अदृष्टविप्रियं
चाटुमत् क्षणवियोगकातरम्
।
कैश्चिद् एव
दिवसैस् तदा तयोः
प्रेम र्ऊढम् इतरेतराश्रयम्॥८.१५॥
तं यथात्मसदृशं
वरं वधूर् अन्वरज्यत
वरस् तथैव ताम्
।
सागराद् अनपगा
हि जाह्नवी सो
ऽपि तन्मुखरसैकनिर्वृतिः॥८.१६॥
शिष्यतां निधुवनोपदेशिनः
शङ्करस्य रहसि
प्रपन्नया ।
शिक्षितं युवतिनैपुणं
तया यत् तद् एव
गुरुदक्षिणीकृतम्॥८.१७॥
दष्टमुक्तम्
अधरोष्ठम् आम्बिका
वेदनाविधुतहस्तपल्लवा
।
शीतलेन निरवापयत्
क्षणं मौलिचन्द्रशकलेन
शूलिनः॥८.१८॥
चुम्बनादलकचूर्णदूषितं
शङ्करो ऽपि नयनं
ललाटजम् ।
उच्छ्वसत्कमलगन्धये
ददौ पार्वतीवदनगन्धवाहिने॥८.१९॥
एवम् इन्द्रियसुखस्य
वर्त्मनः सेवनाद्
अनुगृहीतमन्मथः
।
शैलराजभवने
सहोमया मासमात्रम्
अवसद् वृषध्वजः॥८.२०॥
सो ऽनुमान्य
हिमवन्तम् आत्मभूर्
आत्मजाविरहदुःखखेदितम्
।
तत्र तत्र
विजहार संपतन्न्
अप्रमेयगतिना
ककुद्मता॥८.२१॥
मेरुम् एत्य
मरुदाशुगोक्षकः
पार्वतीस्तनपुरस्कृतान्
कृती ।
हेमपल्लवविभङ्गसंस्तरान्
अन्वभूत् सुरतमर्दनक्षमान्॥८.२२॥
पद्मनाभचरणाङ्किताश्मसु
प्राप्तवत्स्व्
अमृतविप्रुषो
नवाः ।
मन्दरस्य कटकेषु
चावसत् पार्वतीवदनपद्मषट्पदः॥८.२३॥
वारणध्वनितभीतया
तया कण्ठसक्तघनबाहुबन्धनः
।
एकपिङ्गलगिरौ
जगद्गुरुर् निर्विवेश
विशदाः शशिप्रभाः॥८.२४॥
तस्य जातु
मलयस्थलीरते धूतचन्दनलतः
प्रियाक्लमम्
।
आचचाम सलवङ्गकेसरश्
चाटुकार इव दक्षिणानिलः॥८.२५॥
हेमतामरसताडितप्रिया
तत्कराम्बुविनिमीलितेक्षणा
।
खे व्यगाहत
तरङ्गिणीम् उमा
मीनपङ्क्तिपुनरुक्तमेखला॥८.२६॥
तां पुलोमतनयालकोचितैः
पारिजातकुसुमैः
प्रसाधयन् ।
नन्दने चिरम्
अयुग्मलोचनः सस्पृहं
सुरवधूभिर् ईक्षितः॥८.२७॥
इत्य् अभौमम्
अनुभूय शङ्करः
पार्थिवं च दयितासखः
सुखम् ।
लोहितायति
कदाचिद् आतपे गन्धमादनगिरिं
व्यगाहत॥८.२८॥
तत्र काञ्चनशिलातलाश्रयो
नेत्रगम्यम् अवलोक्य
भास्करम् ।
दक्षिणेतरभुजव्यपाश्रयां
व्याजहार सहधर्मचारिणीम्॥८.२९॥
पद्मकान्तिम्
अरुणत्रिभागयोः
संक्रमय्य तव नेत्रयोर्
इव ।
संक्षये जगद्
इव प्रजेश्वरः
संहरत्य् अहर्
असाव् अहर्पतिः॥८.३०॥
सीकरव्यतिकरं
मरीचिभिर् दूरयत्य्
अवनते विवस्वति
।
इन्द्रचापपरिवेषशून्यतां
निर्झरास् तव पितुर्
व्रजन्त्य् अमी॥८.३१॥
दष्टतामरसकेसरस्रजोः
क्रन्दतोर् विपरिवृत्तकण्ठयोः
।
निघ्नयोः सरसि
चक्रवाकयोर् अल्पम्
अन्तरम् अनल्पतां
गतम्॥८.३२॥
स्थानम् आह्निकम्
अपास्य दन्तिनः
सल्लकीविटपभङ्गवासितम्
।
आविभातचरणाय
गृह्णाते वारि
वारिरुहबद्धषट्पदम्॥८.३३॥
पश्य पश्चिमदिगन्तलम्बिना
निर्मितं मितकथे
विवस्वता ।
दीर्घया प्रतिमया
सरो ऽम्भसां तापनीयम्
इव सेतुबन्धनम्॥८.३४॥
उत्तरन्ति
विनिकीर्य पल्वलं
गाढपङ्क्तम् अतिवाहितातपाः
।
दंष्ट्रिणो
वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा
इव॥८.३५॥
एष वृक्षशिखरे
कृतास्पदो जातर्ऊपरसगौरमण्डलः
।
हीयमानम् अहर्
अत्ययातपं पीवरोरु
पिबतीव बर्हिणः॥८.३६॥
पूर्वभागतिमिरप्रवृत्तिभिर्
व्यक्तपङ्कम्
इव जातम् एकतः
।
खं हृतातपजलं
विवस्वता भाति
किञ्चिद् इव शेषवत्
सरः॥८.३७॥
आविशद्भिर्
उटजाङ्गणं मृगैर्
मूलसेकसरसैश्
च वृक्षकैः ।
आश्रमाः प्रविशदग्निधेनवो
बिभ्रति श्रियम्
उदीरिताग्नयः॥८.३८॥
बद्धकोशम्
अपि तिष्ठति क्षणं
सावशेषविवरं कुशेशयम्
।
षट्पदाय वसतिं
ग्रहीष्यते प्रीतिपूर्वम्
इव दातुम् अन्तरम्॥८.३९॥
दूरमग्रपरिमेयरश्मिना
वारुणी दिग् अरुणेन
भानुना ।
भाति केसरवतेव
मण्डिता बन्धुजीवतिलकेन
कन्यका॥८.४०॥
सामभिः सहचराः
सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः
।
भानुम् अग्निपरिकीर्णतेजसं
संस्तुवन्ति किरणोष्मपायिनः॥८.४१॥
सो ऽयम् आनतशिरोधरैर्
हयैः कर्णचामरविघट्टितेक्षणैः
।
अस्तम् एति
युगभुग्नकेसरैः
संनिधाय दिवसं
महोदधौ॥८.४२॥
खं प्रसुप्तम्
इव संस्थिते रवौ
तेजसो महत ईदृशी
गतिः ।
तत् प्रकाशयति
यावद् उद्गतं मीलनाय
खलु तावतश् च्युतम्॥८.४३॥
संध्ययाप्य्
अनुगतं रवेर् वपुर्
वन्द्यम् अस्तशिखरे
समर्पितम् ।
येन पूर्वम्
उदये पुरस्कृता
नानुयास्यति कथं
तम् आपदि॥८.४४॥
रक्तपीतकपिशाः
पयोमुचां कोटयः
कुटिलकेशि भान्त्य्
अमूः ।
द्रक्ष्यसि
त्वम् इति संध्ययानया
वर्तिकाभिर् इव
साधुमण्डिताः॥८.४५॥
सिंहकेसरसटासु
भूभृतां पल्लवप्रसविषु
द्रुमेषु च ।
पश्य धातुशिखरेषु
भानुना संविभक्तम्
इव सांध्यम् आतपम्॥८.४६॥
अद्रिराजतनये
तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः
।
ब्रह्म गूढम्
अभिसंध्यम् आदृताः
शुद्धये विधिविदो
गृणन्त्य् अमी॥८.४७॥
तन् मुहूर्त्तम्
अनुमन्तुम् अर्हसि
प्रस्तुताय नियमाय
माम् अपि ।
त्वां विनोदनिपुणः
सखीजनो वल्गुवादिनि
विनोदयिष्यति॥८.४८॥
निर्विभुज्य
दशनच्छदं ततो वाचि
भर्तुर् अवधीरणापरा
।
शैलराजतनया
समीपगाम् आललाप
विजयाम् अहेतुकम्॥८.४९॥
ईश्वरो ऽपि
दिवसात्ययोचितं
मन्त्रपूर्वम्
अनुतस्थिवान्
विधिम् ।
पार्वतीम्
अवचनाम् असूयया
प्रत्युपेत्य
पुनर् आह सस्मितम्॥८.५०॥
मुञ्च कोपम्
अनिमित्तकोपने
संध्यया प्रणमितो
ऽस्मि नान्यया
।
किं न वेत्सि
सहधर्मचारिणं
चक्रवाकसमवृत्तिम्
आत्मनः॥८.५१॥
निर्मितेषु
पितृषु स्वयंभुवा
या तनुः सुतनु
पूर्वम् उज्झिता
।
सेयम् अस्तम्
उदयं च सेवते तेन
मानिनि ममात्र
गौरवम्॥८.५२॥
ताम् इमां
तिमिरवृद्धिपीडितां
शैलराजतनये ऽधुना
स्थिताम् ।
एकतस् तटतमालमालिनीं
पश्य धातुरसनिम्नगाम्
इव॥८.५३॥
सान्ध्यम्
अस्तमितशेषम्
आतपं रक्तलेखम्
अपरा बिभर्ति दिक्
।
सांपरायवसुधा
सशोणितं मण्डलाग्रम्
इव तिर्यगुज्झितम्॥८.५४॥
यामिनीदिवससन्धिसम्भवे
तेजसि व्यवहिते
सुमेरुणा ।
एतद् अन्धतमसं
निरङ्कुशं दिक्षु
दीर्घनयने विजृम्भते॥८.५५॥
नोर्ध्वम्
ईक्षणगतिर् न चाप्य्
अधो नाभितो न पुरतो
न पृष्ठतः ।
लोक एष तिमिरौघवेष्टितो
गर्भवास इव वर्तते
निशि॥८.५६॥
शुद्धम् आविलम्
अवस्थितं चलं वक्रम्
आर्जवगुणान्वितं
च यत् ।
सर्वम् एव
तमसा समीकृतं धिङ्
महत्त्वम् असतां
हृतान्तरम्॥८.५७॥
नूनम् उन्नमति
यज्वनां पतिः शार्वरस्य
तमसो निषिद्धये
।
पुण्डरीकमुखि
पूर्वदिङ्मुखं
कैतकैर् इव रजोभिर्
आवृतम्॥८.५८॥
मन्दरान्तरितमूर्तिना
निशा लक्ष्यते
शशभृता सतारका
।
त्वं मया प्रियसखीसमागता
श्रोष्यतेव वचनानि
पृष्ठतः॥८.५९॥
रुद्धनिर्गमनम्
आ दिनक्षयात् पूर्वदृष्टतनुचन्द्रिकास्मितम्
।
एतद् उद्गिरति
चन्द्रमण्डलं
दिग्रहस्यम् इव
रात्रिचोदितम्॥८.६०॥
पश्य पक्वफलिनीफलत्विषा
बिम्बलाञ्छितवियत्सरो
ऽम्भसा ।
विप्रकृष्टविवरं
हिमांशुना चक्रवाकमिथुनं
विडम्ब्यते॥८.६१॥
शक्यम् ओषधिपतेर्
नवोदयाः कर्णपूररचनाकृते
तव ।
अप्रगल्भयवसूचिकोमलाश्
छेत्तुम् अग्रनखसंपुटैः
कराः॥८.६२॥
अङ्गुलीभिर्
इव केशसंचयं सन्निगृह्य
तिमिरं मरीचिभिः
।
कुड्मलीकृतसरोजलोचनं
चुम्बतीव रजनीमुखं
शशी॥८.६३॥
पश्य पार्वति
नवेन्दुरश्मिभिः
सामिभिन्नतिमिरं
नभस्तलम् ।
लक्ष्यते द्विरदभोगदूषितं
संप्रसीदद् इव
मानसं सरः॥८.६४॥
रक्तभावम्
अपहाय चन्द्रमा
जात एष परिशुद्धमण्डलः
।
विक्रिया न
खलु कालदोषजा निर्मलप्रकृतिषु
स्थिरोदया॥८.६५॥
उन्नतेषु शशिनः
प्रभा स्थिता निम्नसंश्रयपरं
निशातमः ।
नूनम् आत्मसदृशी
प्रकल्पिता वेधसेह
गुणदोषयोर् गतिः॥८.६६॥
चन्द्रपादजनितप्रवृत्तिभिश्
चन्द्रकान्तजलबिन्दुभिर्
गिरिः ।
मेखलातरुषु
निद्रितान् अमून्
बोधयत्य् असमये
शिखण्डिनः॥८.६७॥
कल्पवृक्षशिखरेषु
संप्रति प्रस्फुरद्भिर्
इव पश्य सुन्दरि
।
हारयष्टिगणनाम्
इवांशुभिः कर्तुम्
आगतकुतूहलः शशी॥८.६८॥
उन्नतावनतभाववत्तया
चन्द्रिका सतिमिरा
गिरेर् इयम् ।
भक्तिभिर्
बहुविधाभिर् अर्पिता
भाति भूतिर् इव
मत्तदन्तिनः॥८.६९॥
एतद् उच्छ्वसितपीतम्
ऐन्दवं वोढुम्
अक्षमम् इव प्रभारसम्
।
मुक्तषट्पदविरावम्
अञ्जसा भिद्यते
कुमुदम् आ निबन्धनात्॥८.७०॥
पश्य कल्पतरुलम्बि
शुद्धया ज्योत्स्नया
जनितर्ऊपसंशयम्
।
मारुते चलति
चण्डि केवलं व्यज्यते
विपरिवृत्तम्
अंशुकम्॥८.७१॥
शक्यम् अङ्गुलिभिर्
उद्धृतैर् अधः
शाखिनां पतितपुष्पपेशलैः
।
पत्रजर्जरशशिप्रभालवैर्
एभिर् उत्कचयितुं
तवालकान्॥८.७२॥
एष चारुमुखि
योगतारया युज्यते
तरलबिम्बया शशी
।
साध्वसाद्
उपगतप्रकम्पया
कन्ययेव नवदीक्षया
वरः॥८.७३॥
पाकभिन्नशरकाण्डगौरयोर्
उल्लसत्प्रतिकृतिप्रसन्नयोः
।
रोहतीव तव
गण्डलेखयोश् चन्द्रबिम्बनिहिताक्ष्णि
चन्द्रिका॥८.७४॥
लोहितार्कमणिभाजनार्पितं
कल्पवृक्षमधु
बिभ्रती स्वयम्
।
त्वाम् इयं
स्थितिमतीम् उपस्थिता
गन्धमादनवनाधिदेवता॥८.७५॥
आर्द्रकेसरसुगन्धि
ते मुखं मत्तरक्तनयनं
स्वभावतः ।
अत्र लब्धवसतिर्
गुणान्तरं किं
विलासिनि मदः करिष्यति॥८.७६॥
मान्यभक्तिर्
अथवा सखीजनः सेव्यताम्
इदम् अनङ्गदीपनम्
।
इत्य् उदारम्
अभिधाय शङ्करस्
ताम् अपाययत पानम्
अम्बिकाम्॥८.७७॥
पार्वती तदुपयोगसम्भवां
विक्रियाम् अपि
सतां मनोहराम्
।
अप्रतर्क्यविधियोगनिर्मिताम्
आम्रतेव सहकारतां
ययौ॥८.७८॥
तत्क्षणं विपरिवर्तितह्रियोर्
नेष्यतोः शयनम्
इद्धरागयोः ।
सा बभूव वशवर्तिनी
द्वयोः शूलिनः
सुवदना मदस्य च॥८.७९॥
घूर्णमाननयनं
स्खलत्कथं स्वेदिबिन्दुमद्
अकारणस्मितम्
।
आननेन न तु
तावद् ईश्वरश्
चक्षुषा चिरम्
उमामुखं पपौ॥८.८०॥
तां विलम्बितपनीयमेखलाम्
उद्वहञ् जघनभारदुर्वहाम्
।
ध्यानसंभृतविभूतिर्
ईश्वरः प्राविशन्
मणिशिलागृहं रहः॥८.८१॥
तत्र हंसधवलोत्तरच्छदं
जाह्नवीपुलिनचारुदर्शनम्
।
अध्यशेत शयनं
प्रियासखः शारदाभ्रम्
इव रोहिणीपतिः॥८.८२॥
क्लिष्टकेशम्
अवलुप्तचन्दनं
व्यत्ययार्पितनखं
समत्सरम् ।
तस्य तच् छिदुरमेखलागुणं
पार्वतीरतम् अभून्
न तृप्तये॥८.८३॥
केवलं प्रियतमादयालुना
ज्योतिषाम् अवनतासु
पङ्क्तिषु ।
तेन तत्परिगृहीतवक्षसा
नेत्रमीलनकुतूहलं
कृतम्॥८.८४॥
स व्यबुध्यत
बुधस्तवोचितः
शतकुम्भकमलाकरैः
समम् ।
मूर्च्छनापरिगृहीतकैशिकैः
किन्नरैर् उषसि
गीतमङ्गलः॥८.८५॥
तौ क्षणं शिथिलितोपगूहनौ
दम्पती चलितमानसोर्
मयः ।
पद्मभेदपिशुनाः
सिषेविरे गन्धमादनवनान्तमारुताः॥८.८६॥
ऊरुमूलनखमार्गराजिभिस्
तत्क्षणं हृतविलोचनो
हरः ।
वाससः प्रशिथिलस्य
संयमं कुर्वतीं
प्रियतमाम् अवारयत्॥८.८७॥
स प्रजागरकषायलोचनं
गाढदन्तपदताडिताधरम्
।
आकुलालकम्
अरंस्त रागवान्
प्रेक्ष्य भिन्नतिलकं
प्रियामुखम्॥८.८८॥
तेन भङ्गिविषमोत्तरच्छदं
मध्यपिण्डितविसूत्रमेखलम्
।
निर्मले ऽपि
शयनं निशात्यये
नोज्झितं चरणरागलाञ्छितम्॥८.८९॥
स प्रियामुखरसं
दिवानिशं हर्षवृद्धिजननं
सिषेविषुः ।
दर्शनप्रणयिनाम्
अदृश्यताम् आजगाम
विजयानिवेदनात्॥८.९०॥
समदिवसनिशीथं
सङ्गिनस् तत्र
शम्भोः शतम् अगमद्
ऋतूनां साग्रम्
एका निशेव ।
न तु सुरतसुखेषु
छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गतस्
तज्जलेषु॥८.९१॥