॥१॥ १.०१.००१ \ वृद्धिरादैच् \ वृद्-धिर् आत्=ऐच् १.०१.००२ \ अदेङ गुणः \ अत्=एङ् गुणः १.०१.००३ \ इको गुणवृद्धी \ इको गुण-वृद्-धी १.०१.००४ \ न धातुलोप आर्धधातुके \ न धातुलोपे=आर्धधातुके १.०१.००५ \ क्ङिति च \ क्-ङ्-इति च १.०१.००६ \ दीधीवेवीटाम् \दीधी-वेवी=इटाम् १.०१.००७ \ हलः=अनन्तराः संयोगः १.०१.००८ \ मुख-नासिका-वचनः=अनुनासिकः १.०१.००९ \ तुल्य=आस्य-प्रयत्नम् सवर्णम् १.०१.०१० \ न=अच्=हलौ १.०१.०११ \ ईत्=ऊत्-एत्=द्विवचनम् प्रगृह्यम् १.०१.०१२ \ अदसो मात् १.०१.०१३ \ शे १.०१.०१४ \ निपात एक=अच्=अन्-आङ् १.०१.०१५ \ ओत् १.०१.०१६ \ सम्बुद्धौ शाकल्यस्य इतौ=अन्-आर्षे १.०१.०१७ \ उञः १.०१.०१८ \ ओं १.०१.०१९ \ ईत्=ऊत्-औ च सप्तम्य्-अर्थे १.०१.०२० \ दा-धा घु=अ-दाप् १.०१.०२१ \ आद्य्-अन्तवत्=एकस्मिन् १.०१.०२२ \ तरप्-तमपौ घः १.०१.०२३ \ बहु-गण-वतु-डति संख्या १.०१.०२४ \ ष्-ण=अन्ता षट् १.०१.०२५ \ डति च १.०१.०२६ \ क्त-क्तवतू निष्ठा १.०१.०२७ \ सर्व-आदीनि सर्वनामानि १.०१.०२८ \ विभाषा दिक्-समासे बहुव्रीहौ १.०१.०२९ \ न बहुव्रीहौ १.०१.०३० \ तृतीया-समासे १.०१.०३१ \ द्वंद्वे च १.०१.०३२ \ विभाष जसि १.०१.०३३ \ प्रथम-चरम-तय=अल्प=अर्ध-कतिपय-नेमाश् च १.०१.०३४ \ पूर्व-पर=अवर=दक्षिण=उत्तर=अपर=अधराणि व्यवस्थायाम् अ-संज्ञायाम् १.०१.०३५ \ स्वम् अ-ज्ञाति-धन=आख्यायाम् १.०१.०३६ \ अन्तरम् बहिर्योग=उपसंव्यानयोः १.०१.०३७ \ स्वर्-आदि-निपातम् अव्ययम् १.०१.०३८ \ तद्धितश् च अ-सर्व-विभक्तिः १.०१.०३९ \ कृत्=म्=एच्=अन्तः १.०१.०४० \ क्त्वा-तोसुन्-कसुनाः १.०१.०४१ \ अवयीभावस्=च १.०१.०४२ \ शि सर्वनाम-स्थानम् १.०१.०४३ \ सुट् अ-नपुंसकस्य १.०१.०४४ \ न वा=इति विभाषा १.०१.०४५ \ इक्=यणः सम्प्रसारणम् १.०१.०४६ \ आद्य्-अन्तौ ट-क्-इतौ १.०१.०४७ \ म्-इत्=अचः=अन्त्यात् परः १.०१.०४८ \ एच इक्=ह्रस्व=आदेशे १.०१.०४९ \ षष्ठी स्थाने-योगा १.०१.०५० \ स्थाने=अन्तर-तमः १.०१.०५१ \ उर् अण् र~-परः १.०१.०५२ \ अलः=अन्त्यस्य १.०१.०५३ \ ङ्-इत्च १.०१.०५४ \ आदेः परस्य १.०१.०५५ \ अनेक=अल् शित् सर्वस्य १.०१.०५६ \ स्थानिवद् आदेशः=अन्-अल्-विधौ १.०१.०५७ \ अचः परस्मिन् पूर्व-विधौ १.०१.०५८ \ न पद=अन्त-द्विर्-वचन-वरे-य-लोप-स्वर-सवर्ण=अनुस्वार-दीर्घ-जस्=चर्-विधिषु १.०१.०५९ \ द्विर्-वचने=अचि १.०१.०६० \ अ-दर्शनं लोपः १.०१.०६१ \ प्रत्ययस्य लुक्-श्लु-लुपः १.०१.०६२ \ प्रत्यय-लोपे प्रत्यय-लक्षणम् १.०१.०६३ \ न लुमता=अऋगस्य १.०१.०६४ \ अचः=अन्त्य=आदि टि १.०१.०६५ \ अलः=अन्त्यात् पूर्व उपधा १.०१.०६६ \ तस्मिन्=इति निर्दिष्टे पूर्वस्य १.०१.०६७ \ तस्माद् इत्य् उत्तरस्य १.०१.०६८ \ स्वं रूपं शब्दस्य=अ-शब्द-संज्ञा १.०१.०६९ \ अण् उत्=इत् सवर्णस्य च=अ-प्रत्ययः १.०१.०७० \ त-परस् तत्-कालस्य १.०१.०७१ \ आदिर् अन्त्येन सह=इता १.०१.०७२ \ येन विधिस् तद्-अन्तस्य १.०१.०७३ \ वृद्-धि-र् यस्य=अचाम् आदिस् तद् वृद्-धम् १.०१.०७४ \ त्यद्-आदीनि च १.०१.०७५ \ एङ् प्राचाम् देशे १.०२.००१ \ गाङ्-कुटादिभ्यः=अ-ञ्-ण्-इत्=ङ्-इत् १.०२.००२ \ विज इट् १.०२.००३ \ विभाषा=ऊर्णोः १.०२.००४ \ सार्वधातुकम् अ-प्-इत् १.०२.००५ \ अ-संयोगात्=लिट् क्-इत् १.०२.००६ \ इन्धि-भवतिभ्यां च १.०२.००७ \ मृडः-मृदः-गुधः-कुषः-क्लिश-वदः-वसः क्त्वा १.०२.००८ \ रुद-विदः-मुषः-ग्रहि-स्वपि-प्रच्छः सन्=च १.०२.००९ \ इको झल् १.०२.०१० \ हल्-अन्तात्=च १.०२.०११ \ लिङ्-सिचौ=आत्मनेपदेषु १.०२.०१२ \ उस् च १.०२.०१३ \ वा गमः १.०२.०१४ \ हनः सिच् १.०२.०१५ \ यमो गन्धने १.०२.०१६ \ विभाषा=उपयमने १.०२.०१७ \ स्था-घ्वोर् इत्=च १.०२.०१८ \ न क्त्वा स=इट् १.०२.०१९ \ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः १.०२.०२० \ मृषस् तितिक्षायाम् १.०२.०२१ \ उत्=उपधात्=भाव=आदिकर्मणोर् अन्यतरस्याम् १.०२.०२२ \ पूङः क्त्वा च १.०२.०२३ \ न=उपधात् थ-फ=अन्तात्=वा १.०२.०२४ \ वन्चि=लुन्चि=ऋतस् च १.०२.०२५ \ तृषि-मृषि-कृशेः काश्यपस्य १.०२.०२६ \ रलो उ=इ=उपधात्=हल्-आदेः सन्=च १.०२.०२७ \ ऊ-कालः=अच्=ह्रस्व-दीर्घ-प्लुतः १.०२.०२८ \ अचश् च १.०२.०२९ \ उच्चैर् उदात्तः १.०२.०३० \ नीचैर् अनुदात्तः १.०२.०३१ \ समाहारः स्वरितः १.०२.०३२ \ तस्य=आदित उदात्तम् अर्ध-ह्रस्वम् १.०२.०३३ \ एक-श्रुति दूरात् सम्बुद्धौ १.०२.०३४ \ यज्ञ-कर्मणि=अ-जप-न्यूऋख-सामसु १.०२.०३५ \ उच्चैस्तरां वा वषट्कारः १.०२.०३६ \ विभाषा छन्दसि १.०२.०३७ \ न सुब्रह्मण्यायाम् स्वरितस्य तु=उदात्तः १.०२.०३८ \ देव-ब्रह्मणोर् अनुदात्तः १.०२.०३९ \ स्वरितात् संहितायाम् अनुदात्तानाम् १.०२.०४० \ उदात्त-स्वरित-परस्य सन्नतरः १.०२.०४१ \ अपृक्त एक=अल् प्रत्ययः १.०२.०४२ \ तत्पुरुषः समान=अधिकरणः कर्मधारयः १.०२.०४३ \ प्रथमा-निर्दिष्टं समास उपसर्जनम् १.०२.०४४ \ एक-विभक्ति च=अ-ऊर्व-निपाते १.०२.०४५ \ अर्थवद् अ-धातुर् अ-प्रत्ययः प्रातिपदिकम् १.०२.०४६ \ कृत्-तद्धित-समासाश् च १.०२.०४७ \ ह्रस्वो नपुंसके प्रातिपदिकस्य १.०२.०४८ \ गो-स्त्रियोर् उपसर्जनस्य १.०२.०४९ \ लुक् तद्धित-लुकि १.०२.०५० \ इत्=गोण्याः १.०२.०५१ \ लुपि युक्तवत्=व्यक्ति-वचने १.०२.०५२ \ विशेषणानां च=अ-जातेः १.०२.०५३ \ तद् अशिष्यं संज्ञा-प्रमाणत्वात् १.०२.०५४ \ लुप्=योग=अ-प्रख्यानात् १.०२.०५५ \ योग-प्रमाणे च तद्-अभावे=अ-दर्शनं स्यात् १.०२.०५६ \ प्रधान-प्रत्यय=अर्थ-वचनम् अर्थस्य=अन्य-प्रमाणत्वात् १.०२.०५७ \ काल=उपसर्जने च तुल्यम् १.०२.०५८ \ जात्य्-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् १.०२.०५९ \ अस्मदो द्वायोश् च १.०२.०६० \ फल्गुनी-प्रोष्ठपदानां च नक्षत्रे १.०२.०६१ \ छन्दसि पुनर्वस्वोर् एकवचनम् १.०२.०६२ \ विसाखयोस् च १.०२.०६३ \ तिष्य-पुनर्वस्वोर् नक्षत्र-द्वंद्वे बहुवचनस्य द्विवचनम् नित्यम् १.०२.०६४ \ सरूपाणाम् एकशेष एक-विभक्तौ १.०२.०६५ \ वृद्धो यूना तद्=लक्षणश् चेद्-एव विशेषः १.०२.०६६ \ स्त्री पुंवत्=च १.०२.०६७ \ पुमान् स्त्रिया १.०२.०६८ \ भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम् १.०२.०६९ \ नपुंसकम् अ-नपुंसकेन=एकवत्=अ=अस्य=न्यतरस्याम् १.०२.०७० \ पिता मात्रा १.०२.०७१ \ श्वशुरः श्वश्र्वा १.०२.०७२ \ त्यद्-आदीनि सर्वैर् नित्यम् १.०२.०७३ \ ग्राम्य-पशु-संघेषु=अ-तरुणेषु स्त्री १.०३.००१ \ भूवादयो धातवः १.०३.००२ \ उपदेशे=अच्=अनुनासिक इत् १.०३.००३ \ हल् अन्त्यम् १.०३.००४ \ न विभक्तौ तु-स्-माः १.०३.००५ \ आदिर् ञि-टु-डव्-अः १.०३.००६ \ षः प्रत्ययस्य १.०३.००७ \ चु-टू १.०३.००८ \ ल-श-कु=अ-तद्धिते १.०३.००९ \ तस्य लोपः १.०३.०१० \ यथा-संख्यम् अनुदेशः समानाम् १.०३.०११ \ स्वरितेन=अधिकारः १.०३.०१२ \ अनुदात्त-ङ्-इत आत्मनेपदम् १.०३.०१३ \ भाव-कर्मणोः १.०३.०१४ \ कर्तरि कर्म-व्यतिअरे १.०३.०१५ \ न गति-हिंसा=अर्थेभ्यः १.०३.०१६ \ इतरेतर=अन्योन्य=उपपदात्=च १.०३.०१७ \ नेर् विशः १.०३.०१८ \ परि-वि=अवेभ्यः क्रियः १.०३.०१९ \ वि-परा-भ्यां जेः? १.०३.०२० \ आङो दः=अन्-आस्य-विहरणे १.०३.०२१ \ क्रीडः=अनु-सम्-परिभ्यश् च १.०३.०२२ \ सम्=अव-प्र-विभ्यः स्ह्तः १.०३.०२३ \ प्रकाशन=स्थेय=आख्ययोः १.०३.०२४ \ उदः=अन्-ऊर्ध्व-कर्मणि १.०३.०२५ \ उपात्=मन्त्र-करणे १.०३.०२६ \ अ-कर्मकात्=च १.०३.०२७ \ उद्-विभ्याम् तपः १.०३.०२८ \ आङो यम-हनः १.०३.०२९ \ समो गमि=ऋच्छि-प्रच्छि-स्वरति=अर्ति-श्रु-विदिभ्यः १.०३.०३० \ नि-सम्-उप-विह्ह्यो ह्वः १.०३.०३१ \ स्पर्धायाम् आङः १.०३.०३२ \ गन्धन=अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन=उपयोगेषु कृञः १.०३.०३३ \ अधेः प्रसहने १.०३.०३४ \ वेः शब्द-कर्मणः १.०३.०३५ \ अकर्मकात्=च १.०३.०३६ \ सम्मानन=उत्सञ्जन=आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः १.०३.०३७ \ कर्तृस्थे च=अ-शरीरे कर्मणि १.०३.०३८ \ वृत्ति-सर्ग-तात्यनेषु क्रमः १.०३.०३९ \ उप-पराभ्याम् १.०३.०४० \ आङ उद्गमने १.०३.०४१ \ वेः पाद-विहरणे १.०३.०४२ \ प्र=उपाभ्याम् सम्-अर्था-भ्याम् १.०३.०४३ \ अन्-उपसर्गाद् वा १.०३.०४४ \ अपह्नवे ज्ञः १.०३.०४५ \ अ-कर्मका=च १.०३.०४६ \ सम्-प्रतिभ्याम् अन्-आ-ध्याने १.०३.०४७ \ भासन=उपसम्भाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु वदः १.०३.०४८ \ व्यक्तवाचाम् समुच्चारणे १.०३.०४९ \ अनोर् अ-कर्मकात् १.०३.०५० \ विभाषा वि-प्र-लापे १.०३.०५१ \ अवाद् ग्रः १.०३.०५२ \ समः प्रतिज्ञाने १.०३.०५३ \ उदश् चरः स-कर्मकात् १.०३.०५४ \ समस् तृतीया-युक्तात् १.०३.०५५ \ दाणस् च सा चेत्=चतुर्त्य्-अर्थे १.०३.०५६ \ उपाद् यमः स्व-करणे १.०३.०५७ \ ज्ञा-श्रु-स्मृ-दृशाम् सनः १.०३.०५८ \ न=अनोर् ज्ञः १.०३.०५९ \ प्रति=आङ्भ्याम् श्रुवः १.०३.०६० \ शदेः श्-इत्-अः १.०३.०६१ \ म्रियतेर् लुङ्-लिङोश् च १.०३.०६२ \ पूर्ववत् सनः १.०३.०६३ \ आम्-प्रत्ययवत् कृञः=अनुप्रयोगस्य १.०३.०६४ \ प्र=उपाभ्यां युजेर् अ-यज्ञ-पात्रेषु १.०३.०६५ \ समः क्ष्णुवः १.०३.०६६ \ भुजः=अन्-अवने १.०३.०६७ \ णेर् अणौ यत् कर्म णौ चेत् स कर्ता अनाध्याने १.०३.०६८ \ भी-स्म्योर् हेतु-भये १.०३.०६९ \ गृधि-वन्च्योह् प्रलम्भने १.०३.०७० \ लियः सम्-मानन-शालिनी-करणयोश् च १.०३.०७१ \ मिथ्योपपदात् कृञः=अभ्यासे १.०३.०७२ \ स्वरित-ञ्-इतः कर्त्र्=अभिप्राये क्रिया-फले १.०३.०७३ \ अपाद् वदः १.०३.०७४ \ णिचश् च १.०३.०७५ \ सम्-उद्=आङ्भ्यह्=अमः=अ-ग्रन्थे १.०३.०७६ \ अन्-उपसर्गात्=ज्ञः १.०३.०७७ \ विभाषा=उपपदेन प्रतीयमाने १.०३.०७८ \ शेषात् कर्तरि परस्मैपदम् १.०३.०७९ \ अनु-पराभ्यां कृञः १.०३.०८० \ अभि-प्रति=अतिभ्यः क्षिपः १.०३.०८१ \ प्राद् वहः १.०३.०८२ \ परेर् मृषः १.०३.०८३ \ वि-आङ्-परिभ्यः=रमः १.०३.०८४ \ उपात्=च १.०३.०८५ \ विभाषा=अ-कर्मकात् १.०३.०८६ \ बुधः-युध-नशः-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः १.०३.०८७ \ निगरण-चलन=अर्थेभ्यः १.०३.०८८ \ अणौ=अ-कर्मकात्=चित्तवत्-कर्तृकात् १.०३.०८९ \ न पा-दमि=आङ्-यम-आङ्-यस-परि-मुह-रुचि-नृति-वद-वसः १.०३.०९० \ वा क्यषः १.०३.०९१ \ द्युद्भ्यो लुङि १.०३.०९२ \ वृद्भ्यः स्य-सनोः १.०३.०९३ \ लुटि च कॢप्-अः १.०४.००१ \ आ कडारात्=एका संज्ञा १.०४.००२ \ विप्रतिषेधे परम् कार्यम् १.०४.००३ \ यू स्त्री=अख्यौ नदी १.०४.००४ \ न=इयङ्=उवङ्-स्थानौ=अ-स्त्री १.०४.००५ \ वा=आमि १.०४.००६ \ ङित्-इ ह्रस्वश् च १.०४.००७ \ शेषो घि=अ-सखि १.०४.००८ \ पतिः समासे=एव १.०४.००९ \ षष्ठी-युक्तश् छन्दसि वा १.०४.०१० \ ह्रस्वम् लघु १.०४.०११ \ संयोगे गुरु १.०४.०१२ \ दीर्घं च १.०४.०१३ \ यस्मात् प्रत्यय-विधिस् तद्-आदि प्रत्यये=अऋगम् १.०४.०१४ \ सुप्-तिङ्=अन्तम् पदम् १.०४.०१५ \ नः क्ये १.०४.०१६ \ स्-इत्-इ च १.०४.०१७ \ सः=आदिषु=अ-सर्वनमस्थाने १.०४.०१८ \ य्-अचि ब्हम् १.०४.०१९ \ त-सौ मतु=अर्थे १.०४.०२० \ अयस्मय=आदीनि छन्दसि १.०४.०२१ \ बहुषु बहु-वचनम् १.०४.०२२ \ द्वि=एकयोर् द्वि-वचन=एक-वचने १.०४.०२३ \ कारके १.०४.०२४ \ ध्रुवम् अपाये=अपादानम् १.०४.०२५ \ भी-त्रा-अर्थानाम् भय-हेतुः १.०४.०२६ \ परा-जेर् अ-सोढः १.०४.०२७ \ वारण=अर्थानाम् ईप्सितः १.०४.०२८ \ अन्तर्धौ येन अ-दर्शनम् इच्छति १.०४.०२९ \ आख्याता=उपयोगे १.०४.०३० \ जनि-कर्तुः प्रकृतिः १.०४.०३१ \ भुवः प्रभवः १.०४.०३२ \ कर्मणा यम् अभि-प्रैति स सम्प्रदानम् १.०४.०३३ \ रुचि=अर्थानाम् प्रीयमाणः १.०४.०३४ \ श्लाघ-ह्नुङ्-स्था-शपाम् ज्ञीप्स्यमानः १.०४.०३५ \ धारेर् उत्तमर्णः १.०४.०३६ \ स्पृहेर् ईप्सितः १.०४.०३७ \ क्रुधः-द्रुहः-ईर्ष्यः=असूयान् आम् १.०४.०३८ \ क्रुधः-द्रुहोर् उपसृष्टयोः कर्म १.०४.०३९ \ राध्-ईक्ष्योर् यस्य विप्रश्नः १.०४.०४० \ प्रति=आङ्भ्यां श्रुवः पूर्वस्य कर्ता १.०४.०४१ \ अनु-प्रति-गृणश् च १.०४.०४२ \ साधकतमम् करणम् १.०४.०४३ \ दिवः कर्म च १.०४.०४४ \ परि-क्रयणे सम्प्रदानन् अन्यतरस्याम् १.०४.०४५ \ आधारः=अधिकरणम् १.०४.०४६ \ अधि-शीङ्-स्था=आसां कर्म १.०४.०४७ \ अभि-नि-विशश् च १.०४.०४८ \ उप=अनु=अधि-आङ्-असः १.०४.०४९ \ कर्तुर् ईप्सिततमम् कर्म १.०४.०५० \ तथा-युक्तं च=अन्-इप्सीतम् १.०४.०५१ \ अ-कथितं च १.०४.०५२ \ गति-बुद्धि-प्रत्यवसान=अर्थ-शब्द-कर्म=अ-कर्मकाणाम् अणि कर्ता स णौ १.०४.०५३ \ हृ-क्रोर् अन्यतरस्याम् १.०४.०५४ \ स्वतन्त्रः कर्ता १.०४.०५५ \ तत्-प्रयोजको हेतुश् च १.०४.०५६ \ प्राक्=इश्वरात्=निपा तः १.०४.०५७ \ च=आदयो=अ-सत्त्वे १.०४.०५८ \ प्र=आदयः १.०४.०५९ \ उपसर्गाः क्रिया-योगे १.०४.०६० \ गतिश् च १.०४.०६१ \ ऊरी=आदि-च्वि-डाचश् च १.०४.०६२ \ अनुकरणम् च=अन्=इति-परम् १.०४.०६३ \ आदर=अन्-आदरयोः सत्-असत्-ई १.०४.०६४ \ भूषणे=अलम् १.०४.०६५ \ अन्तर् अ-परिग्रहे १.०४.०६६ \ कणे-मनस्-ई श्रद्धा-प्रतीघाते १.०४.०६७ \ पुरस्=अव्ययम् १.०४.०६८ \ अस्तं च १.०४.०६९ \ अच्छ गति=अर्थ-वदेषु १.०४.०७० \ अदः=अन्-उप-देशे १.०४.०७१ \ तिरः=अन्तर्धौ १.०४.०७२ \ विभाषा कृञ्-इ १.०४.०७३ \ उपाजे=अन्वाजे १.०४.०७४ \ साक्षात्-प्रभृतीनि च १.०४.०७५ \ अन्-अत्याधाने=उरसि-मनसी १.०४.०७६ \ मध्ये-पदे-निवचने च १.०४.०७७ \ नित्यं हस्ते पाणौ=उपयमने १.०४.०७८ \ प्राध्वम् बन्धने १.०४.०७९ \ जीविका-उपनिषदौ=औपम्ये १.०४.०८० \ ते प्राग् धातोह् १.०४.०८१ \ छन्दसि परे=अपि १.०४.०८२ \ व्यवहिताश् च १.०४.०८३ \ कर्म-प्रवचनीयाः १.०४.०८४ \ अनुर् लक्षणे १.०४.०८५ \ तृतीया=अर्थे १.०४.०८६ \ हीने १.०४.०८७ \ उपः=अधिके च १.०४.०८८ \ अप-परी वर्जने १.०४.०८९ \ आङ् मर्यादा-वचने १.०४.०९० \ लक्षण=इत्थम्-भूत=आख्यान-भाग-वीप्सासु प्रति-परि-अनवः १.०४.०९१ \ अभिर् अ-भागे १.०४.०९२ \ प्रतिः प्रतिनिधि-प्रतिदानयोः १.०४.०९३ \ अधि-परी अनर्थकौ १.०४.०९४ \ सुः पूजायाम् १.०४.०९५ \ अतिर् अतिक्रमणे च १.०४.०९६ \ अपिः पदार्थ-सम्भावन=अन्ववसर्ग-गर्हा-समुच्चयेषु १.०४.०९७ \ अधिर् ईश्वरे १.०४.०९८ \ विभाषा कृञ्-इ १.०४.०९९ \ लः परस्मैपदम् १.०४.१०० \ तङ्-आमौ=आत्मनेपदम् १.०४.१०१ \ तिङस् त्रीणि त्रीणि प्रथम-मध्यम=उत्तमाः १.०४.१०२ \ तानि=एकवचन-द्विवचन-बहुवचनानि एकशः १.०४.१०३ \ सुपः १.०४.१०४ \ विभक्तिश् च १.०४.१०५ \ युष्मदि=उपपदे समान=धिकरणे स्थानिन्य्=अपि मध्यमः १.०४.१०६ \ प्रहासे च मन्य=उपपदे मन्यतेर् उत्तम एकवत्=च १.०४.१०७ \ अस्मद्य् उत्तमः १.०४.१०८ \ शेषे प्रथमः १.०४.१०९ \ परः संनिकर्षः संहिता १.०४.११० \ विरामः अवसानम्