ॐ
अथ आपिशलशिक्षा
१। आकाशवायुप्रभवः शरीरात् समुच्चरन् वक्त्रमुपैति नादः।
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः॥
१। आकाश-वायु-प्रभवः शरीरात् सम्-उच्चरन् वक्त्रम् उप-एति नादः।
स्थान-अन्तरेषु प्रविभज्यमानः वर्णत्वम् आगच्छति यः स शब्दः॥
२। तमक्षरं ब्रह्म परं पवित्रं गुहाशयं सम्यगुशन्ति विप्राः।
स श्रेयसा चाभ्युदयेन चैव सम्यक् प्रयुक्तः पुरुषं युनक्ति॥
२। तम् अक्षरम् ब्रह्म परम् पवित्रम् गुहा-आशयम् सम्यक् उशन्ति विप्राः।
स श्रेयसा च अभि-उदयेन च एव सम्यक् प्रयुक्तः पुरुषम् युनक्ति॥
३। स्थानमिदं करणमिदं प्रयत्न एष द्विधाऽनिलः स्थानं पीडयति वृत्तिकारः प्रक्रम एषोऽथ नाभितलात्॥
३। स्थानम् इदम् करणम् इदम् प्रयत्नः एषः द्विधा अनिलः स्थानम् पीडयति वृत्तिकारः प्रक्रमः एषः अथ नाभितलात्॥
४। तत्र स्थानकरणप्रयत्नेभ्यो वर्णास्त्रिषष्टिः।
४। तत्र स्थान-करण-प्रयत्नेभ्यः वर्णाः त्रिषष्टिः।
५। तत्र वर्णानां केषां किं स्थानं किं करणं प्रयत्नश्च कः केषामित्युच्यते।
५। तत्र वर्णानाम् केषाम् किम् स्थानम् किम् करणम् प्रयत्नः च कः केषाम् इति उच्यते।
१ - स्थानप्रकरणम्
१। तत्र स्थानं तावत्।
१। तत्र स्थानम् तावत्।
२। अकुहविसर्जनीयाः कण्ठ्याः।
अ-कु-ह-विसर्जनीयाः कण्ठ्याः।
३। हविसर्जनीयावुरस्यावेकेषाम्।
ह-विसर्जनीयौ उरस्यौ एकेषाम्।
४। जिह्वामूलीयो जिह्व्यः।
जिह्वामूलीयः जिह्व्यः।
५। कवर्गावर्णानुस्वारजिह्वामूलीया जिह्व्या एकेषाम्।
कवर्ग-अवर्ण-अनुस्वार-जिह्वामूलीयाः जिह्व्याः एकेषाम्।
६। सर्वमुखस्थानमवर्णमेके।
सर्व-मुख-स्थानम् अवर्णम् एके।
७। इचुयशास्तालव्याः।
इ-चु-य-शाः तालव्याः।
८। ऋटुरषा मूर्धन्याः।
ऋ-टु-र-षाः मूर्धन्याः।
९। रो दन्तमूलस्थानमेकेषाम्।
रः दन्त-मूल-स्थानम् एकेषाम्।
१०। ऌतुलसा दन्त्याः।
ऌ-तु-ल-साः दन्त्याः।
११। वकारो दन्तौष्ठ्यः।
वकारः दन्त-ओष्ठ्यः।
१२। सृक्वस्थानमेके।
सृक्व-स्थानम् एके।
१३। उपूपध्मानीया ओष्ठ्याः।
उ-पु-उपध्मानीयाः ओष्ठ्याः।
१४। अनुस्वारयमा नासिक्याः।
अनुस्वार-यमाः नासिक्याः।
१५। कण्ठनासिक्यमनुस्वारमेके।
कण्ठ-नासिक्यम् अनुस्वारम् एके।
१६। यमाश्च नासिक्यजिह्वामूलीया एकेषाम्।
यमाः च नासिक्य-जिह्वामूलीयाः एकेषाम्।
१७। एदैतौ कण्ठतालव्यौ।
एत्-ऐतौ कण्ठ-तालव्यौ।
१८। ओदौतौ कण्ठौष्ठ्यौ।
ओत्-औतौ कण्ठ-ओष्ठ्यौ।
१९। ञमङणनाः स्वस्थाना नासिकास्थानाश्च।
ञ-म-ङ-ण-नाः स्वस्थानाः नासिका-स्थानाः च।
२०। द्विवर्णानि सन्ध्यक्षराणि।
द्वि-वर्णानि सन्धि-अक्षराणि।
२१। सरेफ ऋवर्णः।
स-रेफः ऋवर्णः।
२२। एवमेतानि स्थानानि।
एवम् एतानि स्थानानि।
२ - करणप्रकरणम्
१। करणमपि।
करणम् अपि।
२। जिह्व्यतालव्यमूर्धन्यदन्त्यानां जिह्वाकरणम्।
जिह्व्य-तालव्य-मूर्धन्य-दन्त्यानाम् जिह्वा-करणम्।
३। कथमिति।
कथम् इति।
४। जिह्वामूलेन जिह्व्यानाम्।
जिह्वा-मूलेन जिह्व्यानाम्।
५। जिह्वामध्येन तालव्यानाम्।
जिह्वा-मध्येन तालव्यानाम्।
६। जिह्वोपाग्रेण मूर्धन्यानाम्।
जिह्वा-उप-अग्रेण मूर्धन्यानाम्।
७। जिह्वाग्राधः करणं वा।
जिह्वा-अग्र-अधः करणम् वा।
८। जिह्वाग्रेण दन्त्यानाम्।
जिह्वा-अग्रेण दन्त्यानाम्।
९। शेषाः स्वस्थानकरणाः।
शेषाः स्व-स्थान-करणाः।
१०। इत्येतत्करणम्।
इति एतत्करणम्।
३ - अन्तःप्रयत्नप्रकरणम्
१। प्रयत्नो द्विविधः।
प्रयत्नः द्विविधः।
२। आभ्यन्तरो बाह्यश्च।
आभ्यन्तरः बाह्यः च।
३। आभ्यन्तरस्तावत्।
आभ्यन्तरः तावत्।
४। स्पृष्टकरणा: स्पर्शाः।
स्पृष्ट-करणा: स्पर्शाः।
५। ईषत्स्पृष्टकरणा अन्तस्थाः।
ईषत्स्पृष्ट-करणाः अन्तस्थाः।
६। ईषद्विवृतकरणा ऊष्माणः।
ईषत्-विवृत-करणाः ऊष्माणः।
७। विवृतकरणा: स्वराः।
विवृत-करणा: स्वराः।
८। तेभ्य ए ओ विवृततरौ।
तेभ्यः ए ओ विवृत-तरौ।
९। ताभ्यामै औ।
ताभ्याम् ऐ औ।
१०। [ताभ्यामप्याकारः।]
[ताभ्याम् अपि आकारः।]
११। संवृतोऽकारः।
संवृतः अकारः।
१२। इत्येषोऽन्तःप्रयत्नः।
इति एषः अन्तः-प्रयत्नः।
४ - बाह्यप्रयत्नप्रकरणम्
१। अथ बाह्यः।
अथ बाह्यः।
२। वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीयजिह्वामूलीया उपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषाः।
वर्गाणाम् प्रथम-द्वितीयाः श-ष-स-विसर्जनीय-जिह्वामूलीयाः उपध्मानीयाः यमौ च प्रथम-द्वितीयौ विवृत-कण्ठाः श्वास-अनुप्रदानाः अघोषाः।
३। वर्गयमानां प्रथमे अल्पप्राणा इतरे सर्वे महाप्राणाः।
वर्ग-यमानाम् प्रथमे अल्प-प्राणाः इतरे सर्वे महा-प्राणाः।
४। वर्गाणां तृतीयचतुर्था अन्तस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थौ नासिक्याश्च संवृतकण्ठा नादानुप्रदाना घोषवन्तः।
वर्गाणाम् तृतीय-चतुर्थाः अन्तस्थाः हकार-अनुस्वारौ यमौ च तृतीय-चतुर्थौ नासिक्याः च संवृत-कण्ठाः नाद-अनुप्रदानाः घोषवन्तः।
५। वर्गयमानां तृतीया अन्तस्थाश्चाल्पप्राणा इतरे सर्वे महाप्राणाः।
वर्ग-यमानाम् तृतीयाः अन्तस्थाः च अल्प-प्राणाः इतरे सर्वे महा-प्राणाः।
६। यथा तृतीयास्तथा पञ्चमाः।
यथा तृतीयाः तथा पञ्चमाः।
७। आनुनासिक्यमेषामधिको गुणः।
आनुनासिक्यम् एषाम् अधिकः गुणः।
८। शादय ऊष्माणः।
श-आदय ऊष्माणः।
९। सस्थानेन द्वितीयाः।
स-स्थानेन द्वितीयाः।
१०। हकारेण चतुर्थाः।
ह-कारेण चतुर्थाः।
११। एष बाह्यः प्रयत्नः।
एषः बाह्यः प्रयत्नः।
५ - स्थानपीडनप्रकरणम्
१। तत्र स्पर्शयमवर्णकारो वायुरयःपिण्डवत्स्थानमभिपीडयति।
तत्र स्पर्श-यम-वर्ण-कारः वायुः अयः-पिण्ड-वत्स्थानम् अभि-पीडयति।
२। अन्तस्थवर्णकारो वायुर्दारुपिण्डवत्।
अन्तस्थ-वर्ण-कारः वायुः दारु-पिण्ड-वत्।
३। ऊष्मस्वरवर्णकारो वायुरूर्णापिण्डवत्।
ऊष्म-स्वर-वर्ण-कारः वायुः ऊर्णा-पिण्ड-वत्।
६ - वृत्तिकारप्रकरणम्
१। एवं व्याख्याने वृत्तिकाराः पठन्ति -- अष्टादशप्रभेदमवर्णकुलमिति। अत्र --
एवम् व्याख्याने वृत्तिकाराः पठन्ति -- अष्टादश-प्रभेदम् अ-वर्ण-कुलम् इति। अत्र –
२। ह्रस्वदीर्घप्लुतत्वाच्च त्रैस्वर्योपनयेन च। आनुनासिक्यभेदाच्च संख्यातोऽष्टादशात्मकः ॥ इति ।
ह्रस्व-दीर्घ-प्लुतत्वात् च त्रैस्वर्य-उपनयेन च। आनुनासिक्य-भेदात् च संख्यातः अष्टादश-आत्मकः ॥ इति ।
३। एवमिवर्णादयः।
एवम् इ-वर्ण-आदयः।
४। ऌवर्णस्य दीर्घा न सन्ति।
ऌ-वर्णस्य दीर्घाः न सन्ति।
५। तं द्वादशप्रभेदमाचक्षते।
तम् द्वादश-प्रभेदम् आचक्षते।
६। यदृच्छाशक्तिजानुकरणा वा यदा दीर्घाः स्युस्तदा तमप्यष्टादशप्रभेदं ब्रुवते।
यदृच्छा-शक्तिज-अनुकरणाः वा यदा दीर्घाः स्युः तदा तम् अपि अष्टादश-प्रभेदम् ब्रुवते।
७। सन्ध्यक्षराणां ह्रस्वा न सन्ति।
सन्धि-अक्षराणाम् ह्रस्वाः न सन्ति।
८। तान्यपि द्वादशप्रभेदानि।
तानि अपि द्वादश-प्रभेदानि।
९। छन्दोगानां सात्यमुग्रिराणायनीया (नां) ह्रस्वानि पठन्ति।
छन्दः-गानाम् सात्यमुग्रिराणायनीयाः (नाम्) ह्रस्वानि पठन्ति।
१०। तेषामप्यष्टादशप्रभेदानि।
तेषाम् अपि अष्टादश-प्रभेदानि।
११। अन्तस्था द्विप्रभेदा रेफवर्जिता: सानुनासिका निरनुनासिकाश्च।
अन्तस्थाः द्वि-प्रभेदाः रेफ-वर्जिता: स-अनुनासिकाः निः-अनुनासिकाः च।
१२। रेफोष्मणां सवर्णा न सन्ति।
रेफ-ऊष्मणाम् स-वर्णाः न सन्ति।
१३। वर्ग्यो वर्ग्येण सवर्णः।
वर्ग्यः वर्ग्येण सवर्णः।
७ - प्रक्रमप्रकरणम्
१। एष क्रमो वर्णानाम्।
एषः क्रमः वर्णानाम्।
२। तत्रैषां स्थानकरणप्रयत्नानां व्याकरणप्रसिद्धिरुच्यते।
तत्र एषाम् स्थान-करण-प्रयत्नानाम् व्याकरण-प्रसिद्धिः उच्यते।
३। इह यत्र स्थाने वर्णा उपलभ्यन्ते तत्र स्थानम्।
इह यत्र स्थाने वर्णाः उपलभ्यन्ते तत्र स्थानम्।
४। येन निर्वर्त्यन्ते तत्करणम्।
येन निर्वर्त्यन्ते तत्करणम्।
५। प्रयतनं प्रयत्नः।
प्रयतनम् प्रयत्नः।
८ - नाभितलप्रकरणम्
१। तत्र नाभिप्रदेशात्प्रयत्नप्रेरितः प्राणो नाम वायुरुर्ध्वमाक्रमन्नुरःप्रभृतीनां स्थानानामन्यतमस्मिन्स्थाने प्रयत्नेन विधार्यते। स विधार्यमाणो वायुः स्थानमभिहन्ति। तस्मात्स्थानाभिघाताद्ध्वनिरुत्पद्यते आकाशे सा वर्णश्रुतिः। स वर्णस्यात्मलाभः।
तत्र नाभि-प्रदेशात्प्रयत्न-प्रेरितः प्राणः नाम वायुः उर्ध्वम् आक्रमन् उरः-प्रभृतीनाम् स्थानानाम् अन्यतमस्मिन्स्थाने प्रयत्नेन विधार्यते। स विधार्य-माणः वायुः स्थानम् अभिहन्ति। तस्मात्स्थान-अभिघातात् ध्वनिः उत्पद्यते आकाशे सा वर्ण-श्रुतिः। स वर्णस्य आत्मलाभः।
२। तत्र ध्वनावुत्पद्यमाने यदा स्थानकरणप्रयत्नाः परस्परं स्पृशन्ति सा स्पृष्टता।
तत्र ध्वनौ उत्पद्यमाने यदा स्थान-करण-प्रयत्नाः परः-परम् स्पृशन्ति सा स्पृष्टता।
३। यदेषत्स्पृशन्ति तदेषत्स्पृष्टता।
यदा ईषत्स्पृशन्ति तदा ईषत्स्पृष्टता।
४। दूरेण यदा स्पृशन्ति सा विवृतता।
दूरेण यदा स्पृशन्ति सा विवृतता।
५। सामीप्येन यदा स्पृशन्ति सा संवृतता।
सामीप्येन यदा स्पृशन्ति सा संवृतता।
६। इत्येषोऽन्तः प्रयत्नः।
इति एषः अन्तः-प्रयत्नः।
७। स इदानीं प्राणो नाम वायुरूर्ध्वमाक्रमन्मूर्ध्नि प्रतिहतो निवृत्तो यदा कोष्ठमभिहन्ति तदा कोष्ठेऽभिहन्यमाने गलबिलस्य विवृतत्वाद्विवारः संवृतत्वात्संवारो जायते।
स इदानीम् प्राणः नाम वायुः ऊर्ध्वम् आक्रमन्मूर्ध्नि प्रतिहतः निवृत्तः यदा कोष्ठम् अभिहन्ति तदा कोष्ठे अभिहन्यमाने गल-बिलस्य विवृतत्वात् विवारः संवृतत्वात्संवारः जायते।
८। तौ संवारविवारौ।
तौ संवार-विवारौ।
९। तत्र यदा कण्ठबिलं संवृतं भवति तदा नादो जायते।
तत्र यदा कण्ठ-बिलम् संवृतम् भवति तदा नादः जायते।
१०। विवृते कण्ठबिले श्वासो जायते।
विवृते कण्ठ-बिले श्वासः जायते।
११। तौ श्वासनादावनुप्रदानमित्याचक्षते।
तौ श्वास-नादौ अनुप्रदानम् इति आचक्षते।
१२। अन्ये तु ब्रुवते - अनुप्रदानमनुस्वानो घण्टानिर्ह्रादवत्।
अन्ये तु ब्रुवते - अनुप्रदानम् अनुस्वानः घण्टा-निर्ह्राद-वत्।
१३। तत्र यदा स्थानाभिघातजे ध्वनौ नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गाद्घोषो जायते।
तत्र यदा स्थान-अभिघातजे ध्वनौ नादः अनुप्रदीयते तदा नाद-ध्वनि-संसर्गात् घोषः जायते।
१४। यदा श्वासोऽनुप्रदीयते तदा श्वासध्वनिसंसर्गाद्अघोषः।
यदा श्वासः अनुप्रदीयते तदा श्वास-ध्वनि-संसर्गात् अघोषः।
१५। सा घोषवदघोषता।
सा घोष-वत् अघोषता।
१६। महति वायौ महाप्राणः।
महति वायौ महा-प्राणः।
१७। अल्पे वायावल्पप्राणः।
अल्पे वायौ अल्प-प्राणः।
१८। साल्पप्राणमहाप्राणता।
स-अल्पप्राण-महाप्राणता।
१९। महाप्राणत्वादूष्मत्वम्।
महाप्राणत्वात् ऊष्मत्वम्।
२०। यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः कण्ठबिलस्य चाणुत्वं स्वरस्य च वायोस्तीव्रगतित्वाद्रौक्ष्यं भवति - तमुदात्तमाचक्षते।
यदा सर्वाङ्ग-अनुसारी प्रयत्नः तीव्रः भवति तदा गात्रस्य निग्रहः कण्ठ-बिलस्य च अणुत्वम् स्वरस्य च वायोः तीव्र-गतित्वात् रौक्ष्यम् भवति - तम् उदात्तम् आचक्षते।
२१। यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य स्रंसनं कण्ठबिलस्य महत्वं स्वरस्य च वायोर्मन्दगतित्वात्स्निग्धता भवति तमनुदात्तमाचक्षते।
यदा तु मन्दः प्रयत्नः भवति तदा गात्रस्य स्रंसनम्, कण्ठ-बिलस्य महत्वम् स्वरस्य च वायोः मन्द-गतित्वात्स्निग्धता भवति तम् अन्-उदात्तम् आचक्षते।
२२। उदात्तानुदात्तस्वरसन्निपातात्स्वरित इति।
उदात्त-अनुदात्त-स्वर-सन्निपातात्स्वरितः इति।
२३। एवं प्रयत्नोऽभिनिर्वृत्तः कृत्स्नः प्रयत्नो भवति।
एवं प्रयत्नः अभि-निर्वृत्तः कृत्स्नः प्रयत्नः भवति।
२४। अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च॥
अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरः तथा। जिह्वा-मूलम् च दन्ताः च नासिका-ओष्ठौ च तालु च॥
२५। स्पृष्टत्वमीषत्स्पृष्टत्वं संवृतत्वं तथैव च। विवृतत्वं च वर्णानामन्तःकरणमुच्यते॥
स्पृष्टत्वम् ईषत्-स्पृष्टत्वम् संवृतत्वम् तथा एव च। विवृतत्वम् च वर्णानाम् अन्तः-करणम् उच्यते॥
२६। कालो विवारसंवारौ श्वासनादावघोषता। घोषोऽल्पप्राणता चैव महाप्राणः स्वरास्त्रयः॥
कालः विवार-संवारौ श्वास-नादौ अ-घोषता। घोषः अल्प-प्राणता च एव महा-प्राणः स्वराः त्रयः॥
२७। बाह्यं करणमाहुस्तान् वर्णानां वर्णवेदिनः।
बाह्यम् करणम् आहुः तान् वर्णानाम् वर्ण-वेदिनः।
॥इत्यापिशलिशिक्षासूत्राणि
समाप्तानि॥
(Editorial assistance of Sri Nirmalya Guha and Dr. Korada Subrahmanyam
is gratefully acknowledged.)